VARAHYANUGRAHASHTAKAM

                                     वाराह्यनुग्रहाष्टकम्
मातर्ज्जगद्रचननाटकसूत्रधारः
सद्रूपमाकलयितुं परमार्थतो यम्।
ईशोप्यनीश्वरपदं समुपैति तादृक्
कोऽन्यः स्तवं किमिव तावकमादधातु ॥१॥
नामानि किन्तु गृणतस्तवलोकतुण्डे
नाडंबरं स्पृशति दण्डधरस्य दण्डः।
तल्लेशलङ्घितभवांबुनिधी यतोऽयं
त्वन्नामसंस्मृतिरियं न पुनः स्तुतिस्ते॥२॥
त्वच्चिन्तनादरसमुल्लसदप्रमेया-
नन्दोदयात् समुदितस्फुटरोमहर्षः।
मातर्नमामि सुदिनानि सदेत्यमुं त्वा-
मभ्यर्थयेर्थमिति पूरयताद्दयालो ॥३॥
इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न-
रोचिश्चयोज्ज्वलितपादसरोजयुग्मे।
चेतोनतौ मम सदा प्रतिबिंबिता त्वं
भूयो भवानि भवनाशिनि भावये त्वां ॥४॥
लीलोद्धृतक्षितितलस्य वराहमूर्ते-
र्वाराहमूर्तिरखिलार्थकरी त्वमेव।
प्रालेयरश्मिसुकलोल्लसितावतंसा
त्वं देवि वामतनुभागहरा हरस्य॥५॥
त्वामंब तप्तकनकोज्ज्वलकान्तिमन्त-
र्ये चिन्तयन्ति युवतीतनुमं गलान्तां ।
चक्रायुधां त्रिनयनां वरपोत्रिवक्त्रां
तेषां पदांबुजयुगं प्रणमन्ति देवाः ॥६॥
त्वत्सेवनस्खलितपापचयस्य मात-
र्मोक्षोऽपि यस्य न सतो गणनामुपैति।
देवासुरोरगनृपूजितपादपीठ:
कस्याः श्रियः स खलु भाजनतां न धत्ते ॥७॥
किं दुष्करं त्वयि मनोविषयं गतायां
किं दुर्लभं त्वयि विधानुवदर्चितायाम्।
किं दुर्भरं त्वयि सकृत्स्मृतिमागतायां
किं दुर्ज्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥८॥


VAARAAHEE NIGRAHAASHTAKAM

                                     वाराहीनिग्रहाष्टकम्
देवि! क्रोडमुखि त्वदंघ्रिकमलद्वन्द्वानुरक्तात्मने
मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः ।
तस्याशु त्वदयोग्रनिष्ठुरहलाघातप्रभूतव्यथा-
पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥१॥
देवि त्वत्पदपद्मभक्तिविभवप्रक्षीणदुष्कर्मणि
प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि।
यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः
सद्यः पूरयसे कराब्जचषकं वाञ्छाफलैर्मामपि ॥२॥
चण्डोत्तुण्डविदीर्णदुष्टहृदयप्रोद्भिन्नरक्तछ्टा-
हालापानमदाट्टहासनिनदाटोपप्रतापोत्कटम्।
मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदंघ्रिद्वयं
ध्यानोड्डामरवैभवोदयवशात् संतर्पयामि क्षणात्॥३॥
श्यामां तामरसाननांघ्रिनयनां सोमार्धचूडां जग-
त्त्राणव्यग्रहलायुधाग्रमुसलां सन्त्रासमुद्रावतीम्।
ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां
भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः ॥४॥
विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्रात्मिका
भूतानां पुरुषायुषावधिकरी पाकप्रदाकर्मणां।
त्वां याचे भवतीं किमप्यवितथं को मद्विरोधीजन-
स्तस्यायुर्मम  वाञ्छितावधिभवेन्मातस्तवैवाज्ञया॥५॥
मातः  सम्यगुपासितुं जडमतिस्त्वां नैवशक्नोम्यहं
यद्यप्यन्वितदैशिकांघ्रिकमलानुक्रोशपात्रस्य मे।
जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं
भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासंगिनः॥६॥
वाराही व्यथमानमानसगलत्सौख्यं तदाशाबलिं
सीदन्तं यमप्राकृताध्यवसितं प्राप्ताखिलोत्पादितम्।
क्रन्दत्बन्धुजनैः कलङ्कितकुलं कण्ठव्रणोद्यत्कृमिं
पश्यामि प्रतिपक्षमाशु पतितं भ्रान्तं लुठन्तं मुहुः ॥७॥
वाराही त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे
शक्तिव्याप्तचराचरा खलु यतस्त्वामेतदभ्यर्थये।
त्वत्पादांबुजसंगिनो मम सकृत्पापं चिकीर्षन्ति ये
तेषां मा कुरु शंकरप्रियतमे! देहान्तरावस्थितिम् ॥८॥