परापूजा
( श्री शंकराचार्यकृतम्)
अखण्डॆ सच्चिदानन्दे निर्विकल्पैकरूपिणि।
स्थितेऽद्वितीयभावेऽस्मिन् कथं पूजा विधीयते॥१॥
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम्।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः॥२॥
निर्मलस्य कुतः स्नानं वस्त्रं विश्वोदरस्य च ।
अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥३॥
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च।
निर्विशेषस्य का भूषा कोऽलंकारो निराकृतेः॥४॥
निरंजनस्य किं धूपैः दीपैर्वा सर्वसाक्षिणः।
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥५॥
विश्वानन्दपितुस्तस्य किं ताम्बूलं प्रकल्पते।
स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥६॥
प्रदक्षिणा ह्यनन्तस्य अद्वयस्य कुतो नतिः।
वेदवाक्यैरवेद्यस्य कुतः स्तोत्रं विधीयते ॥७॥
स्वयं प्रकाशमानस्य कुतो नीरजनं विभोः।
अन्तर्बहिश्च पूर्णस्य कथमुद्वासनं भवेत् ॥८॥
एवमेव परापूजा सर्वावस्थासु सर्वदा।
एकबुद्ध्या तु देवेशे विधेया ब्रह्मवित्तमैः॥९॥
आत्मा त्वं गिरिजा मतिः सहचरा प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधि स्थितिः।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ १०॥