बालस्तोत्राः
हरे राम हरे राम राम राम हरे हर॥
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥१॥
समुद्रवसने देवि पर्वतस्तनमण्डिते।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥२॥
नमोस्तु सात्विका देवाः विष्णुभक्तिपरायणाः।
धर्ममार्गे प्रेरयन्ति भवन्तः सर्व एव हि ॥३॥
प्रातः प्रभृति सायान्तं सायादि प्रातरन्ततः।
यत् करोमि जगन्नाथ तदस्तु तव पूजनम् ॥४॥
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥५॥
कपिलां दर्पणं भानुं भाग्यवन्तं च भूपतिम्।
आचार्यं चान्नदातारं प्रातः पश्येत् पतिव्रताम् ॥६॥
अच्युतानन्त गोविन्द नामोच्चारणभेषजात्।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥७॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता।
अजाड्यं वाक्पटुत्वं च हनूमत् स्मरणाद्भवेत् ॥८॥
You must log in to post a comment.