जयपञ्चकम्
(वाल्मीकिरामायणे सुन्दरकाण्डान्तर्गतम्)
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥१॥
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥२॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥३॥
अर्दयित्वा पुरीं लङ्कां अभिवाद्य च मैथिलीम्।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥४॥
तस्य सन्नादशब्देन तेऽभवन् भयशङ्किताः
ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम् ॥५॥