श्रीदेशिकमङ्गलम्
श्रीमान् वेङ्कटनिथार्यः कवितार्किककेसरी।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥१॥
श्रीमल्लक्ष्मणयोगीन्द्र सिद्धान्तविजयध्वजम्।
विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ॥२॥
विश्वामित्रकुलोद्भूतं वरदार्यमहं भजे ॥२॥
सर्वतन्त्रस्वतन्त्राय सिंहाय कविवादिनाम्।
वेदान्ताचार्यवर्याय वेङ्कटेशाय मङ्गलम्॥३॥
नभस्य मासि श्रोणायां अवतीर्णाय सूरये।
विश्वामित्रान्वयायास्तु वेङ्कटेशाय
मङ्गलम्॥४॥
मङ्गलम्॥४॥
पिता यस्यानन्तसूरिः पुण्डरीकाक्षयज्वनः।
पौत्रो यस्तनयस्तोतारम्बायास्तस्य मङ्गलम्॥५॥
वेङ्कटेशावतारोऽयं तद्घण्टांशोऽथवा भवेत्।
यतीन्द्रांशोऽथवेत्येवं वितर्क्यायास्तु मङ्गलम्॥६॥
श्रीभाष्यकारः पन्थानं आत्मना दर्शितं पुनः।
उद्धर्तुमागतो नूनं इत्युक्तायास्स्तु मङ्गलम्॥७॥
यो बाल्ये व रदार्यस्य प्राचार्यस्य परां दयाम्।
अवाप्य वृद्धिं गमितः तस्मै योग्याय मङ्गलम्॥८॥
रामानुजार्यादात्रेयात् मातुलात्सकला कलाः।
अवाप विंशत्यब्दे यः तस्मै प्राज्ञाय मङ्गलम्॥९॥
प्रवर्तिता च पात्रेषु तस्मै श्रेष्ठाय मङ्गलम्॥१०॥
सांस्कृतीभिर्द्रामिडीभिः बह्वीभिः कृतिभिर्जनान्
यस्समुज्जीवयामास तस्मै सेव्याय मङ्गलम्॥११॥
यः ख्यातिलाभपूजासु विमुखो वैष्णवे जने।
क्रयणीयदशां प्राप्तः तस्मै भव्याय मङ्गलम्॥१२॥
यस्मादेव मया सर्वं शास्त्रमग्राहि नान्यतः।
तस्मै वेङ्कटनाथाय मम नाथाय मङ्गलम्॥१३॥
पित्रे ब्रह्मोपदेष्ट्रे मे गुरवे दैवताय च।
प्राप्याय प्रापकायास्तु वेङ्कटेशाय मङ्गलम्॥१४॥
यः कृतं वरदार्येण वेदान्ताचार्य मङ्गलम्।
आशास्तेऽनुदिनं सोऽपि भवेन्मङ्गलभाजनम् ॥१५॥