मङ्गलाचरणम्
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजं
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्या स्युः तं नमामि गजाननम् ॥२॥
शारदा शारदांभोजवदना वदनांबुजे
सर्वदा सर्वदाऽस्माकं सन्निधिं संनिधिं क्रियात् ॥३॥
नारायणं पद्मभुवं वसिष्ठं
शक्तिं च तत्पुत्रपराशरं च।
व्यासं शुकं गौडपदं महान्तं
गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥४॥
श्रीशंकराचार्यमथास्य पद्म-
पादं च हस्तामलकं च शिष्यम्।
तं त्रोटकं वार्तिककारमन्यान्
अस्मद्गुरून् सन्ततमानतोऽस्मि ॥५॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषं।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥६॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥७॥
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥८॥
मातापितृभ्यां वपुषो जनकाभ्यां मुदाऽन्वहम्।
नमस्करोमि विज्ञानजनकाभ्यां शिवाप्तये ॥९॥
Click here to get to the Master Index from where you can access more than 700 posts
Click here to get to the Master Index from where you can access more than 700 posts
You must log in to post a comment.