शिवपञ्चाननध्यानम्
प्रालेयाचलमिदुकुन्दधवलं गोक्षीरफेनप्रभं
भस्माभ्यंगमनङ्गदेहदहनज्वालावलीलोचनम्।
विष्णुब्रह्ममरुद्गणार्चितपदं चार्ग्वेदनादोदयं
वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम्॥१॥
गौरं कुङ्कुमपङ्किलं
सुतिलकं व्यापाण्डु कण्ठस्थलं
सुतिलकं व्यापाण्डु कण्ठस्थलं
भ्रूविक्षेपकटाक्षवीक्षणलसद्संसक्तकर्णोत्पलम्।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालंकृतं
वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥२॥
सांवर्ताग्नितटित्प्रतप्तकनकप्रस्पर्धितेजोमयं
गम्भीरध्वनिसामवेदजनकं ताम्राधरं सुन्दरम्।
अर्धेन्दुद्युति फालपिङ्गलजटाभारप्रबद्धोरगं
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥३॥
कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावर्तिपिङ्गेक्षणं
कर्णोद्भासितभोगिमस्तकमणिप्रोत्फुल्लदंष्ट्राङ्कुरम्।
सर्पप्रोतकपालमिन्दुशकलव्याकीर्णसच्छेखरं
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्ववेदोदयम् ॥४॥
व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकम्
तस्मादुत्तरतत्त्वमक्षरमिति ध्येयं सदा योगिभिः।
ओंकारादि समस्तमन्त्रजनकं सूक्ष्मादिसूक्ष्मं परम्
वन्दे पञ्चममीश्वरस्य वदनं खं व्यापि तेजोमयम् ॥५॥
एतानि पञ्चवदनानि महेश्वरस्य
ये कीर्तयन्ति पुरुषाः सततं प्रदोषे।
गच्छन्ति ते शिवपुरीं रुचिरैर्विमानैः
क्रीडन्ति नन्दनवने सह लोकपालैः ॥६॥
Click here to get to the Master Index from where you can access more than 700 posts
You must log in to post a comment.