श्रीकालटिक्षेत्रे
अर्याम्बिकाशङ्करशारदास्तोत्रम्
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचितम्)
भक्तानशोकान्विदधामि शीघ्रमिति प्रबोधाय ततेर्जनानाम्।
अशोकमूले विदधाति मोदात्समाधिमार्या जगदार्यमाता॥१॥
काषायशुक्लांबरसंवृताभ्यां काङ्क्षाधिकेष्टप्रदपूजनाभ्याम्।
कायप्रभाधूतसुधाकराभ्यां नमोनमः शङ्करशारदाभ्याम् ॥२॥
आर्यांबिकाशङ्करशारदाभ्यो निजाङ्गशोभाजितचन्द्रिकाभ्यः।
दिगन्तसंव्याप्तयशच्छटाभ्यो नमोऽस्तु मेधाप्रतिभाप्रदाभ्यः
॥३॥
॥३॥
आर्यांबिकाशङ्करशारदाभ्यः प्रपन्नसंरक्षणदीक्षिताभ्यः।
संपूरितानन्दमनोहराभ्यो नमोऽस्तु निर्व्याजदयातनुभ्यः ॥४॥
आर्यांबिकाशङ्करशारदाभ्यः पूर्णातटावासकृतादराभ्यः।
कारुण्यसंपूरितमानसाभ्यो नमोऽस्तु कल्याणगुणालयाभ्यः ॥५॥
इति अर्याम्बिकाशङ्करशारदास्तोत्रं
सम्पूर्णम्
सम्पूर्णम्
You must log in to post a comment.