श्रीजगदम्बास्तुतिः
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः विरचिता)
भज जगदम्बां भज जगदम्बां जगदम्बां भज मूढमते।
प्राप्ते काले न हि न हि रक्षति वित्तं मित्रं पुत्रो जाया
॥१॥
॥१॥
भववाञ्छां त्यज कुरु गुरुसेवां विनयावनतः प्रतिदिनमपि भोः
भरताग्रजवद्भज पितृभक्तिं तर भवसागरमाशु सुबुद्धे ॥२॥
शमदमसाधनसंपद्युक्तो नित्यानित्यविचारयुतश्च।
विषयेष्वखिलेष्वाशारहितो भव मोक्षेच्छाभाजनमपि भोः॥३॥
श्रोत्रियमेनोगन्धविहीनं बहुदूरीकृतरागद्वेषम्।
ब्रह्मणि निष्ठितहृदयाम्भोजं भज गुरुवर्यं करुणासिन्धुम्॥४॥
आसाद्येत्थं गुरुवरमेनं पृच्छ प्रश्नं
विनमन्मूर्तिः।
विनमन्मूर्तिः।
संसाराब्धिं दुस्तरमाराद्गुरुवर्य कथं प्रतरेयमिति॥५॥
You must log in to post a comment.