गोपालस्तोत्रम्
श्री नारदः-
नवीननीरदश्यामं नीलेन्दीवरलोचनं।
वल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥१॥
स्फुरद्बर्हदलोद्बद्धनीलकुञ्चितमूर्धजं।
कदंबकुसुमोद्बद्धवनमाला विभूषितम्॥२॥
गण्डमण्डलसंसर्गि चलत्काञ्चनकुण्डलं।
स्थूलमुक्ताफलोदार हारद्योतितवक्षसम् ॥३॥
हेमांगदतुलाकोटि किरीटोज्ज्वलविग्रहं।
मन्दमारुतसंक्षोभ वल्गितांबरसञ्चयम् ॥४॥
रुचिरोष्ठपुटन्यस्त वंशीमधुरनिःस्वनैः।
लसत् गोपालिका चेतो मोहयन्तं मुहुर्मुहुः॥५॥
वल्लवीवदनाम्भोज मधुपानमधुव्रतं।
क्षोभयन्तं मनस्तासां सस्मेरापांगवीक्षणैः॥६॥
यौवनोद्भिन्नदेहाभिः संसिक्ताभिः परस्परं।
विचित्रांबरभूषाभिर्गोपनारीभिरावृतम् ॥७॥
प्रभिन्नाञ्जनकालिन्दी जलकेली कलोत्सुकं।
योधयन्तं क्वचिद्गोपान् व्याहरन्तं गवां गणम्॥८॥
कालिन्दीजलसंसर्ग शीतलानिल सेविते।
कदम्बपादपच्छाये स्थितं वृन्दावने क्वचित् ॥९॥
रत्नभूधरसंलग्न रत्नासनपरिग्रहम्।
कल्पपादपमध्यस्थ हेममण्डपिकागतम् ॥१०॥
वसन्तकुसुमामोद सुरभीकृतदिङ्मुखे।
गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥११॥
सव्यहस्ततलन्यस्त गिरिवर्यातपत्रकं।
खण्डिताखण्डलोन्मुक्त मुक्तासारघनाघनम्॥१२॥
वेणुवाद्यमनोल्लासकृत हुंकातनिःस्वनैः
सवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम् ॥१३॥
कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्तिभिः।
दण्डपाशोद्यतकरैर्गोपालैरुपशोभितम् ॥१४॥
नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदान्तपारगैः।
प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम्॥१५॥
य एनं चिन्तयन् देवं भक्त्या संस्तौति मानवः।
त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम्॥१६॥
राजवल्लभतामेति भवेत् सर्वजनप्रियः।
अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ॥१७॥