श्रीशृङ्गाद्रौ
श्रीशारदानवरात्रोत्सवसमये
श्रीशारदानवरात्रोत्सवसमये
श्रीशारदास्तोत्रम् (श्लोकाः १११-१६३)
( शृङ्गेरि
श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
नृसिंहभारतीस्वामिभिः
विरचितः)
विरचितः)
भक्तिहीन
इति मां जहासि किं मातरद्य जलजासनप्रिये।
इति मां जहासि किं मातरद्य जलजासनप्रिये।
संत्यजन्तु
भुवि तर्हि मातरस्तद्वदेव निजकुक्षिजान्सुतान् ॥१११॥
भुवि तर्हि मातरस्तद्वदेव निजकुक्षिजान्सुतान् ॥१११॥
विरिञ्चिहरिशङ्करप्रभृतिनिर्जराग्र्यार्चिते
प्रणम्रजड्तातमस्ततिविभेदसूर्यप्रभे।
नमत्सुरसतीकचप्रविलसत्प्रसूनस्रव-
न्मरन्दतटिनीप्लवत्पदसरोरुहे
पाहि माम् ॥११२॥
पाहि माम् ॥११२॥
ज्वारादिनिखिलामयान्करुणया गिरामम्बिके
निवारय
विभावरीपतिसमानवक्त्राम्बुजे ।
विभावरीपतिसमानवक्त्राम्बुजे ।
स्वरादिभुवनाधिपप्रणतपादपाथोरुहे
करादृतसुधेऽनिशं
दिश सुखं जनानां मुदा ॥११३॥
दिश सुखं जनानां मुदा ॥११३॥
पद्मासनस्थे
सरसीरुहोत्थजाये वस त्वं ह्रुदये सदा मे।
सरसीरुहोत्थजाये वस त्वं ह्रुदये सदा मे।
तेनाहमाशाः
सकलाः जयेयं न तत्र संदेहलवोऽस्ति मेऽम्ब॥११४॥
सकलाः जयेयं न तत्र संदेहलवोऽस्ति मेऽम्ब॥११४॥
यं
देववर्याः समुपासते हि तं देहिनामिष्टदमाशु मातः।
देववर्याः समुपासते हि तं देहिनामिष्टदमाशु मातः।
मन्देतराप्यं
सुजडः कथं वा विन्देयमङ्घ्रिं तव वाक्सवित्रि॥११५॥
सुजडः कथं वा विन्देयमङ्घ्रिं तव वाक्सवित्रि॥११५॥
समस्तवस्तून्यपि
सन्ति मातस्त्वत्संनिधौ किं तु न मन्मनोऽस्ति।
सन्ति मातस्त्वत्संनिधौ किं तु न मन्मनोऽस्ति।
तत्र
प्रमाणं जनिरेव मेऽद्य तदप्यतस्त्वं कुरु संनिधौ ते ॥११६॥
प्रमाणं जनिरेव मेऽद्य तदप्यतस्त्वं कुरु संनिधौ ते ॥११६॥
लोकप्रसिद्धाब्धिततेस्तु
मानमाहुर्द्विलक्षाधिक योजनानि।
मानमाहुर्द्विलक्षाधिक योजनानि।
नाद्राक्ष्म
नाश्रौष्म भवत्कृपाब्धेर्मानं पयोजातभवस्य जाये ॥११७॥
नाश्रौष्म भवत्कृपाब्धेर्मानं पयोजातभवस्य जाये ॥११७॥
न
पूजिता त्वं कुसुमैर्मनोज्ञैर्न संस्तुता हृद्यपदैश्च पद्यैः।
पूजिता त्वं कुसुमैर्मनोज्ञैर्न संस्तुता हृद्यपदैश्च पद्यैः।
न
संस्मृता हृत्कमलेऽपि जातु तथापि मातर्दयसे जनेऽस्मिन्॥११८॥
संस्मृता हृत्कमलेऽपि जातु तथापि मातर्दयसे जनेऽस्मिन्॥११८॥
नैवाहमानीय
सुमानि दिव्यान्याराधनं तेऽकरवं कदापि।
सुमानि दिव्यान्याराधनं तेऽकरवं कदापि।
तथापि
मातः सहजानुकम्पायुतैः कटाक्षैः परिपाहि मां त्वम्॥११९॥
मातः सहजानुकम्पायुतैः कटाक्षैः परिपाहि मां त्वम्॥११९॥
ये
प्राणरोधप्रमुखान्प्रयत्नान्कुर्वन्ति लोकाः स्वसमीहिताय।
प्राणरोधप्रमुखान्प्रयत्नान्कुर्वन्ति लोकाः स्वसमीहिताय।
ते
नैव जानन्ति परं प्रणामं तवाम्ब कल्पद्रुमबद्धसख्यम् ॥१२०॥
नैव जानन्ति परं प्रणामं तवाम्ब कल्पद्रुमबद्धसख्यम् ॥१२०॥
अव्याजकारुण्यमयि
प्रसीद सुव्याहृतीनां ततिमाशु यच्छ।
प्रसीद सुव्याहृतीनां ततिमाशु यच्छ।
नव्यानि
काव्यानि करोमि मातः क्रव्यादवैरिप्रमुखामरेड्ये ॥१२१॥
काव्यानि करोमि मातः क्रव्यादवैरिप्रमुखामरेड्ये ॥१२१॥
तिष्ये
युगे सङ्घगता हि शक्तिरितीव सम्यक्परिचिन्त्य देव्याः।
युगे सङ्घगता हि शक्तिरितीव सम्यक्परिचिन्त्य देव्याः।
नासासदृक्षत्वमहोऽधिगन्तुं
मालात्वमापुः खलु चम्पकानि॥१२२॥
मालात्वमापुः खलु चम्पकानि॥१२२॥
चम्पकसुमानि
मातर्नूनं नासासदृक्षतां गन्तुम्।
मातर्नूनं नासासदृक्षतां गन्तुम्।
सततं
मालाव्याजात्सेवन्ते पङ्कजातभवजाये ॥१२३॥
मालाव्याजात्सेवन्ते पङ्कजातभवजाये ॥१२३॥
अव जगदम्ब सदा मां सवमुख्यकर्मभिस्तुष्टे।
नवनवकवित्वदानप्रवणे
कञ्जातजन्मसुकृतमये॥१२४॥
कञ्जातजन्मसुकृतमये॥१२४॥
करुणापूरितनयने
वरुणादिदिगीशसेव्यपदपद्मे।
वरुणादिदिगीशसेव्यपदपद्मे।
अरुणाधरजितबिम्बे
तरुणाब्जमुखि प्रदेहि मम सौख्यम् ॥१२५॥
तरुणाब्जमुखि प्रदेहि मम सौख्यम् ॥१२५॥
स्फुर
जगदम्ब सदा मे मानसपद्मे सरोजभवजाये।
जगदम्ब सदा मे मानसपद्मे सरोजभवजाये।
वरदाननिरतपाणे
वीणापाणेऽधरे शोणे ॥१२६॥
वीणापाणेऽधरे शोणे ॥१२६॥
राकाचन्द्रसदृक्षं
तव मुखपद्मं हृदम्बुजे स्मरताम्।
तव मुखपद्मं हृदम्बुजे स्मरताम्।
कविता चेटीभूयात्तत्राम्ब न मेऽस्ति संदेहः ॥१२७॥
कन्यां
कुलशैलपतेर्मान्यां मुरवैरिमुख्यदेवततेः।
कुलशैलपतेर्मान्यां मुरवैरिमुख्यदेवततेः।
नौकां
भवाम्बुराशेर्नौम्यहमनिशं शशाङ्कशिशुशीर्षाम्॥१२८॥
भवाम्बुराशेर्नौम्यहमनिशं शशाङ्कशिशुशीर्षाम्॥१२८॥
कांचन
काञ्चनगर्वन्यक्कारधुरीणदेहकान्तिझरीम्।
काञ्चनगर्वन्यक्कारधुरीणदेहकान्तिझरीम्।
कमनीयकवनदात्रीं
कमलासनसुकृतसन्ततिं कलये ॥१२९॥
कमलासनसुकृतसन्ततिं कलये ॥१२९॥
तनुजितगाङ्गेयरुचिः
करधृतरुद्राक्षमालिकाकुम्भा।
करधृतरुद्राक्षमालिकाकुम्भा।
तनुतात्तामरसासनजाया
जाड्यौघवारणं शीघ्रम् ॥१३०॥
जाड्यौघवारणं शीघ्रम् ॥१३०॥
मन्मूर्तिनीकाशतनुं सृजाशु प्रविश्य तस्यां कुरु वासमत्र।
व्याख्यानपीठे जगतां सुखाय चिराय मातर्वचसां सवित्रि ॥१३१॥
ममास्यमद्ध्यादपशब्दयुग्वाङ् न निःसरेद्वाणि कृपापयोधे।
स्वप्नेऽपि लीलार्थकृतेषु जल्पेष्वपि प्रपन्नावनबद्धदीक्षे
॥१३२॥
॥१३२॥
यां तुष्टुवुः श्रुतिशतैर्मुनिसार्वभौमाः
पाशापनोदचतुरां परमेष्ठिपत्नीम्।
तां तुच्छसर्वविषयेषु विरक्तिदात्रीं
श्रीशारदां कलितचन्द्रकलां नमामि ॥१३३॥
ये त्वत्पदाम्बुजसमर्चनलब्धहर्षा
रोमाञ्चगद्गदगिरः स्रवदक्षिपद्माः।
ते पावयन्ति धरणीं स्वपदाब्जसङ्गा-
न्नास्त्यत्र कोऽपि विशयो वचसां सवित्रि॥१३४॥
चन्द्रश्चकोरालिमयं
करैः स्वैः करोति तृप्तां सितपक्ष एव।
करैः स्वैः करोति तृप्तां सितपक्ष एव।
तवास्यचन्द्रस्तु
नमच्चकोरान्करोति मातः सततं हि तृप्तान्॥१३५॥
नमच्चकोरान्करोति मातः सततं हि तृप्तान्॥१३५॥
आगच्छत
मत्पादौ प्रणमत भजतेष्टनिखिलसंपत्तीः।
मत्पादौ प्रणमत भजतेष्टनिखिलसंपत्तीः।
इति
नम्रांस्त्वरयसि किं प्रसारितेनाम्ब हस्तपद्मेन ॥१३६॥
नम्रांस्त्वरयसि किं प्रसारितेनाम्ब हस्तपद्मेन ॥१३६॥
वाणी
वीणां हस्तपद्मे निधाय स्वीयं भावं दर्शयत्यम्बिकासौ।
वीणां हस्तपद्मे निधाय स्वीयं भावं दर्शयत्यम्बिकासौ।
स्थित्वा केक्यां भावमप्यन्यदीयं सर्वात्मत्वद्योतनायेति
मन्ये ॥१३७॥
मन्ये ॥१३७॥
पीताम्बराद्याः सुरनायका मे पदाग्रनम्रा इति बोधनाय।
पादाग्रलम्बि प्रदधासि मातः पीताम्बरं किं वद धातृजाये ॥१३८॥
आदर्शमब्जावसतिः कदापि नास्तीति लोकप्रचुरः प्रवादः।
किमन्यथाकर्तुमिमं करोषि पादाब्जमादर्शकृतप्रचारम्॥१३९॥
आदर्शवत्स्वच्छतरेषु चित्तेष्वेवांघ्रिपद्मं मम भाति सम्यक्।
इत्यर्थमावेदयितुं
नतानामादर्शवृत्तिं प्रकरोषि पादम् ॥१४०॥
नतानामादर्शवृत्तिं प्रकरोषि पादम् ॥१४०॥
सकृत्प्रणन्तॄनपि भक्तलोकाननेकधा किं प्रणतान्विभाव्य।
तदानुगुण्येन फलानि दातुमादर्शमङ्घ्रेः सविधे दधासि ॥१४१॥
लब्धप्रतिष्ठः परिपूर्णचन्द्रे करोमि वासं कथमर्धचन्द्रे।
एवं कलङ्कः परिचिन्त्य नीलरत्नापदेशात्किमु भाति शीर्षे ॥१४२॥
कमलासनस्य पत्युर्ध्यानात्सततं पतिव्रते किमिदम्।
कमलासनत्वमागाः स्वयमपि वाचां सवित्रि मे ब्रूहि ॥१४३॥
सतां हृदब्जेषु वसाम्यजस्रमित्यर्थमावेदयितुं जनानाम्।
पद्मे निवासं प्रकरोषि मातः किं पद्मयोनेर्दयिते वदास्मै
॥१४४॥
॥१४४॥
हस्तेनादाय शीघ्रं नतहृदयसरोजातमीशे गिरां किं
चाञ्चल्यं तत्र दृष्ट्वा बहुलमथ निजं ह्यासनत्वं प्रकल्प्य।
अध्यास्ते स्थैर्यसिद्ध्यै परमिह भवती भर्तृयुक्ता ह्यजस्रं
मातुः पुत्रेषु पूर्णा प्रभवति करुणा हेतुशून्यैव वाणि ॥१४५॥
रथस्थितां मां मनुजा जगत्यां पश्यन्ति ये भक्तियुतान्तरङ्गाः।
मनोरथावाप्तिरशेषतः स्यात्तेषामपि द्योतयितुं रथस्था ॥१४६॥
पद्मासनस्थितौ मम पादयोः स्फुटता भवेन्नैव।
नम्रजनानामिति किं तिष्ठसि पादौ विवृण्वाना ॥१४७॥
उपविष्टायास्तन्द्री कदाचिदपि मे नतावने प्रभवेत्।
इति तिष्ठसि किमु नम्रांस्तन्द्राहीनाऽवितुं गिरां देवि ॥१४८॥
मत्पादाम्बुजसेवकानतिजवात्संसारवारांनिधे-
राकृष्योद्धरणं विधेयमधुनेत्युत्थाय पद्मासनात्।
यो वा कस्श्चिदिहैत्य जन्मजलधौ मग्नोऽहमस्मीत्यतो
मां
रक्षेति समाह्वयेदिति मुदा तिष्ठस्यहो वाणि किम्॥१४९॥
मां
रक्षेति समाह्वयेदिति मुदा तिष्ठस्यहो वाणि किम्॥१४९॥
आकर्षति यथायांसि ह्ययस्कान्तमणिर्द्रुतम्।
तथैव त्वन्मुखांभोजं नतचित्तानि शारदे ॥१५०॥
धातुः पुण्यततिः काचिद्वाचां धाटीं ददातु मे ।
यां दृष्ट्वा लज्जितो भूयात्सुराचार्योऽपि तादृशीम्॥१५१॥
कटाक्षजितनीलाब्जा करिकुम्भनिभस्तनी।
करोतु मम कल्याणं कमलासनकामिनी ॥१५२॥
कञ्जभवपुण्यराशे कम्रस्मितजितचकोरबन्धुचये।
कंस(ज)मदमर्दनचणे कञ्चनपुरुषार्थमर्थयन्नौमि॥१५३॥
मतिजितसुरगुरुगर्वान्प्रकुर्वतीं शीघ्रमेव पदनम्रान्।
कलये हृदि जगदम्बां करपद्मलसत्सुधाकुम्भाम् ॥१५४॥
उन्नम्योन्नम्य सन्ध्यादिचन्द्रराजतपात्रकम्।
यामिनीकामिनी
ताराकुसुमानि चिनोति किम् ॥१५५॥
ताराकुसुमानि चिनोति किम् ॥१५५॥
तीरात्तीरं चरन्ती कमलजदयिता पोतवर्येण मोदा-
त्कारुण्याक्रान्तचेता नतनरनिकरं बोधयत्येनमर्थम्।
संसारापारसिन्धुं मम पदसरसीजातविन्यस्तबुद्धी-
न्भक्त्याख्येनोडुपेन द्रुतमिह मनुजांस्तारयामीति नूनम् ॥१५६॥
वनजासनवरमानिनि सम्यक्कर्तुं किमासनं पत्युः।
वनजानि पत्रपुष्पाण्यानयसे कक्षपाणिपद्मैस्त्वम्॥१५७॥
ग्रामीणपुष्पवृन्दं दृष्ट्वा दृष्ट्वानुघस्रमम्ब किमु।
वनजानि पुष्पवर्याण्यानयसे किंविधानीति ॥१५८॥
अवनरतायाः किमु मम पदे पदे नैव भवति वनगमनम् ।
इत्येकदैव वनजान्यानयसे कक्षमध्येन ॥१५९॥
दण्डधृद्भयनिवारणेच्छुभिर्दम्भमोहमुखदोषवर्जितैः।
दण्डितेन्द्रियचयैर्निषेविते दन्तितुल्यगमनेऽव शारदे ॥१६०॥
वाचामीशः प्रभवति यदालोकमात्राज्जडाग्र्यो
नाकाधीशः प्रभवति तथा रङ्कवर्योऽपि लोके।
तच्चन्द्राब्जप्रमुखनिबिडाहंकृतेर्भेददक्षं
नित्यं वक्त्रं हृदयकुहरे भावयामि त्वदीयम्॥१६१॥
अतिचपलं मम हृदयं तव रूपं चातिसूक्ष्ममिति निगमाः।
कथमम्ब मामकीनं मन एतद्वेत्तु तावकं रूपम् ॥१६२॥
ऐंकारस्तव बीजं
वदने मम वसतु सर्वदा वाणि
वदने मम वसतु सर्वदा वाणि
तेनाहं सकलार्थान्क्षिप्रं संसाधयामि नो विशयः ॥१६३॥
॥ इति श्रीशारदास्तोत्रं
संपूर्णम्॥
संपूर्णम्॥