MAHANARAYANOPANISHAD-TRISUPARNA MANTRAH

त्रिसुपर्णमन्त्राः
    (महानारायणोपनिषत्)
ब्रह्म मेतु माम्। मधु-मेतु माम्। ब्रह्म-मेव मधु-मेतु माम्।
यास्ते सोम प्रजावथ्सोऽभिसो  अहम्। दुःष्वप्नहन्
दुरुष्षह। यास्ते सोम प्राणाँ स्ताञ्जुहोमि।
त्रिसुपर्ण-मयाचितं ब्राह्मणाय दद्यात्। ब्रह्महत्यां वा
एते घ्नन्ति। ये ब्रह्मणा-स्त्रिसुपर्णं  पठन्ति।
ते सोमं प्राप्नुवन्ति। आसहस्रात् पङ्क्तिं पुनन्ति। ओम्॥
ब्रह्म मेधया। मधु मेधया। ब्रह्ममेव मधु मेधया। अद्या नो
देव सवितः प्रजावथ्सावी-स्सौभगम्। परा दुष्वप्नियँ सुव।विश्वानि दवे सवित-र्दुरितानि
परासुव। यद्भद्रं तन्म  आसुव। मधुवाता ऋतायते
मधुक्षरन्ति सिन्धवः। माध्वीर्न-स्सन्त्वोषधीः। मधुनक्तमुतोषसी मधुमत्पार्थिवँ रजः।
मधुद्यौ-रस्तु नः पिता। मधुमान्नो वनस्पतिर्-मधुमाँ अस्तु सूर्यः। माध्वीर्गावो भवन्तु
नः। य इमं  त्रिसुपर्ण-मयाचितं ब्राह्मणाय दद्यात्।
भ्रूणहत्यां वा एते घ्नन्ति। ये ब्रह्मणा-स्त्रिसुपर्णं  पठन्ति। ते सोमं प्राप्नुवन्ति। आसहस्रात् पङ्क्तिं
पुनन्ति। ओम्॥
ब्रह्म मेधवा। मधु मेधवा। ब्रह्म-मेव मधु मेधवा  । ब्रह्मा देवानां  पदवीः कवीना-मृषि-र्विप्राणां महिषो मृगाणाम्। श्येनो
गृद्ध्राणाँ स्वधिति-र्वनानाँ सोमः पवित्रमत्येतिरेभन्न् । हँस-श्शुचिष-द्वसु-रन्तरिक्षस-द्धोता वेदिषदतिथिर्दुरोणसत्।
नृष-द्वरस-दृतस-द्‍व्योमस-दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।

ऋचे त्वा रुचे त्वा समि-थ्स्रवन्ति सरितो न धेनोः। अन्तर्
हृदा मनसा पूयमानाः।
घृतस्या धारा अभिचाकशीमि। हिरण्ययो वेतसो मध्य आसाम्। तस्मिन्थ्सुपर्णो
मधुकृत् कुलायी भज-न्नास्ते मधु-देवताभ्यः। तस्यासते हरय-स्सप्ततीरे स्वधां दुहाना
अमृतस्य धाराम्। य इदं  त्रिसुपर्ण-मयाचितं
ब्राह्मणाय दद्यात्। वीरहत्यां वा एते घ्नन्ति। ये ब्रह्मणा-स्त्रिसुपर्णं  पठन्ति। ते सोमं प्राप्नुवन्ति। आसहस्रात् पङ्क्तिं
पुनन्ति। ओम्॥
   

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.