MAHANARAYANOPANISHAD- GNANASADHANANIRUPANAM

                         ज्ञानसाधन-निरूपणम्
            (महानारायणोपनिषत्)
प्राजापत्यो हारुणि-स्सुपर्णेयः
प्रजापतिं पितर-मुपससार किं भगवन्तः परमं वदन्तीति तस्मै प्रोवाच सत्येन
वायु-रावाति सत्येनादित्यो रोचते दिवि सत्यं वाचः प्रतिष्ठा सत्ये
सर्वं प्रतिष्ठितं तस्मात् सत्यं परमं वदन्ति तपसा  देवा देवता-मग्रे आयन् तपसर्‍षयस्सुवरन्वविन्दन्  तपसा सपत्नान् प्रणुदामाराती-स्तपसि सर्वं
प्रतिष्ठितं तस्मात्तपः परमं वदन्ति दमेन दान्ताः किल्बिष-मवधून्वन्ति
दमेन ब्रह्मचारिण-स्सुवरगच्छन् दमो भूतानां दुराधर्‍षं दमे सर्वं
प्रतिष्ठितं तस्माद्दमः परमं वदन्ति शमेन नाकं मुनयोऽन्वविन्दञ्छमो भूतानां दुराधर्‍षञ्छमे सर्वं
प्रतिष्ठितं तस्माच्छमः परमं वदन्ति दानं यज्ञानां वरूथं दक्षिणा लोके दातारँ सर्वभूतान्युपजीवन्ति
दानेनाराती-रपानुदन्त दानेन द्विषन्तो मित्रा भवन्ति दाने सर्वं प्रतिष्ठितं
तस्मा-द्दानं परमं वदन्ति धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं
प्रजा उपसर्पन्ति धर्मेण पाप-मपनुदति धर्मे सर्वं प्रतिष्ठितं तस्मा-द्धर्मं परमं
वदन्ति प्रजननं वै प्रतिष्ठा लोके साधुप्रजाया-स्तन्तुं
तन्वानः पितॄणा-मनृणो भवति तदेव तस्या अनृणं तस्मात् प्रजननं परमं वदन्त्यग्नयो
वै त्रयी-विद्या देवयानः पन्था गार्‍हपत्य ऋक्पृथिवी
रथन्तर-मन्वाहार्यपचनं यजु-रन्तरिक्षं
वामदेव्य-माहवनीयस्सामसुवर्गो लोको बृहत्तस्मा-दग्नीन् परमं
वदन्त्यग्निहोत्रँ सायं प्रातर्गृहाणां निष्कृति-स्स्विष्टँ
सुहुतं यज्ञक्रतूनां प्रायणँ सुवर्गस्य लोकस्य
ज्योति-स्तस्मा-दग्निहोत्रं परमं वदन्ति।    
यज्ञ इति यज्ञेन हि देवा दिवं
गता यज्ञेनासुरा-नपानुदन्त यज्ञेन द्विषन्तो मित्रा भवन्ति यज्ञे सर्वं प्रतिष्ठितं
तस्माद्यज्ञं परमं वदन्ति मानसं वै प्राजापत्यं पवित्रं
मानसेन मनसा साधु पश्यन्ति मानसा ऋषयः प्रजा असृजन्त मानसे
सर्वं प्रतिष्ठितं तस्मान्मानसं परमं वदन्ति न्यास इत्याहुर्मनीषिणो ब्रह्माणं ब्रह्मा
विश्वः कतम-स्स्वयम्भु प्रजापति-स्संवथ्सर
इति संवथ्सरो ऽसावादित्यो य एष आदित्ये पुरुष-स्स परमेष्ठी
ब्रह्मात्मा याभिरादित्य-स्तपति रश्मिभि-स्ताभिः पर्जन्यो
वर्‍षति पर्जन्येनौषधि-वनस्पतयः
प्रजायन्त ओषधिवनस्पतिभि-रन्नं भवत्यन्नेन प्राणाः प्राणै-र्बलं बलेन
तप-स्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसाशान्ति-श्शान्त्या
चित्तं चित्तेन स्मृतिँ स्मृत्या स्मारँ स्मारेण विज्ञानं विज्ञानेनात्मानं वेदयति  तस्मा-दन्नं ददन्थ्सर्वाण्येतानि ददात्यन्नात् प्राणा भवन्ति भूतानां
प्राणै-र्मनो मनसश्च विज्ञानं विज्ञाना-दानऩ्दो ब्रह्मयोनि-स्स वा एष
पुरुषः पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षं च द्यौश्च दिशश्चावान्तरदिशाश्च
स वै सर्व-मिदं जगथ्स सभूतँ स भव्यं जिज्ञासकॢप्त ऋतजा-रयिष्ठा श्रद्धा
सत्यो महस्वान् तपसो परिष्टाद् ज्ञात्वा तमेव मनसा हृदा च भूयो न मृत्यु-मुपयाहि विद्वान्
तस्मान्न्यास-मेषां तपसा-मतिरिक्तमाहु-र्वसुरण्वो विभूरसि प्राणे त्वमसि सन्धाता ब्रह्मन् त्वमसि
विश्वधृत्तेजोदा-स्त्वमस्यग्नि-रसि वर्चोदा-स्त्वमसि सूर्यस्य द्युम्नोदा-स्त्वमसि
चन्द्रमस उपयामगृहीतोऽसि ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीतैतद्वै महोपनिषदं
देवानां गुह्यं य एवं वेद ब्रह्मणो महिमान-माप्नोति
तस्माद्ब्रह्मणो महिमान-मित्युपनिषत्॥   
 

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.