श्री गुहपञ्चरत्नम्
ओंकारनगरस्थं तं निगमान्तवनेश्वरम्।
नित्यमेकं शिवं शान्तं वन्दे गुहमुमासुतम्॥१॥
वाचामगोचरं स्कन्दं चिदुद्यानविहारिणम्।
गुरुमूर्तिं महेशानं वन्दे गुहमुमासुतम्॥२॥
सच्चिदानन्दरूपेशं संसारध्वान्तदीपकम्।
सुब्रह्मण्यमनाद्यन्तं वन्दे गुहमुमासुतम्॥३॥
स्वामिनाथं दयासिन्धुं भवाब्धेः तारकं प्रभुम्।
निष्कलङ्कं गुणातीतं वन्दे गुहमुमासुतम्॥४॥
निराकारं निरधारं निर्विकारं निरामयम्।
निर्द्वन्द्वं च निरालम्बं वन्दे गुहमुमासुतम्॥५॥
You must log in to post a comment.