SRI SHARADASTAVAKADAMBAM

          श्रीकालटिक्षेत्रे
        श्रीशारदास्तवकदम्बम्
( शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनव-
      नृसिंहभारतीस्वामिभिः विरचितम्)
हेलया रचितचित्रविष्टपां चेलधूतशरदभ्रविभ्रमाम्।
कालटीपुरनिवासदीक्षितां कालकालसहजां नुमो वयम्॥१॥
नास्तिक्यबुद्धिहतमानसवारिजातां-
स्त्यक्तात्मकर्मनिचयान्बहुशो द्विजाद्यान्।
कृत्तोत्तमाङ्गजततीन्विनिरीक्ष्य दुःख-
वार्धौ निमग्नमिममम्ब सुखे नियुङ्क्ष्व॥२॥
ईशोऽस्ति जन्म च विचित्रतरं हि जन्तो-
र्लोकान्तरं च निजकर्मकृतां सुखापम्।
पापानि पापफलदाश्च तथैव लोका
इत्यम्ब लोकततये वितराशु बुद्धिम् ॥३॥
ब्रह्मास्ति सत्यमथ दृश्यमिदं हि मिथ्या।
रज्जूरगादिवदतो न हि सौख्यलेशः
तस्मादिति प्रवितराम्ब दृढां मनीषां
नम्रालयेऽतिसुखमाप्स्यति येन शीघ्रम् ॥४॥
या शृङ्गशैलशिखरे यतिरूपधर्त्रा
  संस्थापितापि गिरिजापतिना पुरा सा।
कालट्यभिख्यविषयेऽपि मयार्थिता त्वं
  वासं कुरुष्व जगतामवनाय वाणि ॥५॥
नाकाधिराजमुखलेखवरार्चितायै
   रकाशशाङ्कनिभवस्त्रविभूषितायै।
मूकालयेऽपि तरसा कविताप्रदायै
  एकाजपुण्यततये तनुमो नमांसि॥६॥
सरस्वति सरस्वति प्रपतितानबोधाह्वये
  शरीरजमुखाख्यषण्मकरतोऽतिसंभीषणे।
षडूर्मिसहिते जनान्करुणया तु निर्व्याजया
  समुद्धर समुद्धर द्रुहिणपुण्यराशे जवात् ॥७॥
मुद्रापुस्तकमालिकाऽमृतघटभ्राजत्कराम्भोरुहे
    विद्राव्याशु चिरात्तमान्ध्यमखिलं दुस्त्याज्यमन्यैर्जनैः।
शीघ्रं तत्त्वमसीति बोधमचलं दत्त्वा कृपावारिधे
    वाणि त्वच्चरणारविन्दशरणं शुद्धान्तरङ्गं कुरु॥८॥
किं ब्रूषे वचसां सवित्रि जनतानास्तिक्यबुद्धिर्ध्रुवा
   कालात्तिष्ययुगान्न चान्यथयितुं शक्येति किं सुष्ठु तत्।
कालाखर्वमनःसमुन्नतिहरश्रीशंभुसोदर्यपि
    त्वं भूत्वा कथमद्य कालकलितं दौःस्थ्यं ब्रवीष्यम्बिके॥९॥
यस्माज्जडानुग्रहदीक्षितस्य शम्भोः स्वसारं भवतीं वदन्ति
तस्मात्स्वसृत्वं गिरिशस्य सार्थं कुरुष्व शीघ्रं मम धीप्रदानात्॥१०॥
आजन्मनस्तेऽङ्घ्रियुगं गतानां चित्तं सितं चेत्प्रकरोषि वाणि
चित्रं न तत्तन्मलिनाग्रगण्यं मत्कं सितं कुर्वरमम्ब चित्तम्
॥११॥
 सान्निध्यमस्मिन्कुरु मूर्तिवर्ये चिरं कृपातो जगदम्ब वाणि।
 प्रवर्तयासेतुतुषारशैलं सद्धर्ममेनं जगतां हिताय ॥१२॥
 
 सन्ध्यादिकर्माण्यपि हा विहाय रात्रिंदिवं स्वोदरपूरणेच्छून्। 
 नरानिमान्पापभयेन शून्यान्ततो विधायाश्वव वाक्सवित्रि॥१३॥
  मालासुधाकुम्भविबोधमुद्राविद्याविराजत्करवारिजाताम्।
  अपारकारुण्यसुधाम्बुराशिं श्रीशारदाम्बां प्रणतोऽस्मि नित्यम् ॥१४॥
  समागतोऽध्येतुमयं ध्वनिं किं कीरार्भकस्त्वत्करपद्मसंस्थः।
  तवाधरे बिम्बधियात्तुमम्ब समागतो वा वद धातृजाये ॥१५॥
   वाणि पाणिजितरक्तपयोजे शोणिताम्बरधरेऽधरकान्त्या।
   पाणिना धरसि किं शुकमेनं प्राणिबोधनकृतेऽखिलगुप्तेः ॥१६॥
   शारदाम्बुदसमाननिजाभां नीरजाभकचसंहतिरम्याम्।
   पारदां लघु भवाख्यपयोधेः शारदाम्ब कलयामि तनुं ते ॥१७॥
    बालचन्द्रपरिचुम्बितशीर्षां लीलयैव परिरक्षितलोकाम् ।
    नीलनागसदृशाकृतिवेणीं शीलयामि हृदये विधिकान्ताम् ॥१८॥

             इति श्रीशारदास्तवकदम्बं संपूर्णम्       

Author Socials Follow me