सरस्वतीस्तोत्रम्-६
सरस्वति नमस्तुभ्यं
वरदे कामरूपिणि।
विद्यारम्भं करिष्यामि
सिद्धिर्भवतु मे सदा ॥१॥
पद्मपत्रविशालाक्षि
पद्मकेसरवर्णिनि।
नित्यं पद्मालये देवि
सा मां पातु सरस्वती॥२॥
सरस्वतीं सत्यवासां
सुधांशुसमविग्रहाम्।
स्फटिकाक्षस्रजं पद्मं
पुस्तकं च शुकं करैः ॥३॥
चतुर्भिर्दधतीं देवीं
चन्द्रबिम्बसमाननाम्।
वल्लभामखिलार्थानां
वल्लकीवादनप्रित्यम्॥४॥
भरतीं भावये देवीं
भाषाणामधिदेवताम्।
भावितां हृदये सद्भिः
भामिनीं परमेष्ठिनः ॥५॥
चतुर्भुजां चन्द्रवर्णां
चतुराननवल्लभाम्।
आराधयामि वाणीं तां
आश्रितार्थप्रदायिनीम्॥६॥
कुन्दप्रसूनरदनां
मन्दस्मितशुभाननाम्।
गन्धर्वपूजितां वन्दे
नीरजासनवल्लभाम् ॥७॥
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥८॥
बुद्धिं देहि यशो देहि
कवित्वं देहि देहि मे
मृडत्वं च हरेर्देवि
त्राहि मां शरणागतम् ॥९॥