GURUVATAPURISA PANCHARATNA STOTRAM

गुरुवातपुरीशपञ्चरत्नस्तोत्रम्

  (अनन्तरामदीक्षितकृतम्)

नारायण नारायण नारायण नारायण

नारायण नारायण नारायण नारायण।

नारायण नारायण नारायण नारायण।

नारायण नारायण नारायण नारायण॥

[repeat this after each of the slokas given below]

कल्य़ाणरूपाय कलौ जनानां

कल्याणदात्रे करुणासुधाब्धे।

कंब्वादि दिव्यायुधसत्कराय

वातालयाधीश नमो नमस्ते॥1||

नारायणेत्यादि जपद्भिरुच्चैः

भक्तैस्सदापूर्णमहालयाय।

स्वतीर्थगाङ्गोपमवारिमग्न-

निवर्त्तिताशेषरुजे नमस्ते ॥२॥

ब्राह्मे मुहूर्ते परितः स्वभक्तैः

सन्दृष्टसर्वोत्तमविश्वरूप ।

स्वतैलसंसेवकरोगहन्त्रे

वातालयाधीश नमो नमस्ते ॥३॥

बालान् स्वकीयान् तव सन्निधाने

दिव्यान्नदानात्परिपालयद्भिः।

सदा पठद्भिश्च पुराणरत्नं

संसेवितायास्तु नमो हरे ते ॥४॥

नित्यान्नदात्रे च महीसुरेभ्यः

नित्यं दिविस्थैर्निशि पूजिताय।

मात्रा च पित्रा च तथोद्धवेन

संपूजितायास्तु नमो नमस्ते ॥५॥

अनन्तरामाख्यमखिप्रणीतं

स्तोत्रं पठेद्यस्तु नरस्त्रिकालम्।

वातालयेशस्य कृपाबलेन

लभेत सर्वाणि च मङ्गलानि ॥६॥

गुरुवातपुरीशपञ्चकाख्यं

स्तुतिरत्नं पठतां सुमङलं स्यात्।

हृदि चापि विशेद्धरिःस्वयं तु

रतिनाथायुततुल्यदेहकान्तिः ॥७॥

गुरुवातपुरीशपञ्चरत्नस्तोत्रम्
  (अनन्तरामदीक्षितकृतम्)

नारायण नारायण नारायण नारायण

नारायण नारायण नारायण नारायण।

नारायण नारायण नारायण नारायण।

नारायण नारायण नारायण नारायण॥

[repeat this after each of the slokas given below]

कल्य़ाणरूपाय कलौ जनानां

कल्याणदात्रे करुणासुधाब्धे।

कंब्वादि दिव्यायुधसत्कराय

वातालयाधीश नमो नमस्ते॥1||

नारायणेत्यादि जपद्भिरुच्चैः

भक्तैस्सदापूर्णमहालयाय।

स्वतीर्थगाङ्गोपमवारिमग्न-

निवर्त्तिताशेषरुजे नमस्ते ॥२॥

ब्राह्मे मुहूर्ते परितः स्वभक्तैः

सन्दृष्टसर्वोत्तमविश्वरूप ।

स्वतैलसंसेवकरोगहन्त्रे

वातालयाधीश नमो नमस्ते ॥३॥

बालान् स्वकीयान् तव सन्निधाने

दिव्यान्नदानात्परिपालयद्भिः।

सदा पठद्भिश्च पुराणरत्नं

संसेवितायास्तु नमो हरे ते ॥४॥

नित्यान्नदात्रे च महीसुरेभ्यः

नित्यं दिविस्थैर्निशि पूजिताय।

मात्रा च पित्रा च तथोद्धवेन

संपूजितायास्तु नमो नमस्ते ॥५॥

अनन्तरामाख्यमखिप्रणीतं

स्तोत्रं पठेद्यस्तु नरस्त्रिकालम्।

वातालयेशस्य कृपाबलेन

लभेत सर्वाणि च मङ्गलानि ॥६॥

गुरुवातपुरीशपञ्चकाख्यं

स्तुतिरत्नं पठतां सुमङलं स्यात्।

हृदि चापि विशेद्धरिःस्वयं तु

रतिनाथायुततुल्यदेहकान्तिः ॥७॥


ROGAHARA SHRI GURUVATAPURADHIPA ASHTAKAM

रोगहर श्रीगुरुवातपुराधिपाष्टकम्
गुरुपुरमन्दिर गोकुलसुन्दर गोपपुरन्दर गोपतनो
गुणगणसागर भक्तशिवंकर कौस्तुभकन्धर केलितनो।
गणपतिहोमजधूमसुवासितगव्यपयोर्पणतुष्टमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥१॥
मुरहर माधव मङ्गलसंभव मान्यसुवैभव रम्यतनो
मधुरिपुसूदन मातृसुपूजन मंगलवादन मोदमते ।
मधुमयभाषण चोद्धववन्दन तातसुपूजन तृप्तमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥२॥
प्रतिदिनमादरपूर्वदिनार्चितमाल्यविसर्जनदत्ततनो
प्रतिदिनमर्पिततैलसुषेवणनाशितदुस्सहरोगरिपो।
प्रतिदिनमद्भुतचन्दनचर्चित चंपककल्पितमाल्यतते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥३॥
करिवरकल्पितकञ्जसुमोत्तम कम्रकरांबुज लोकगुरो
भयततिमोचक भाग्यविधायक पुण्यसुपूरक मुग्धतनो।
शिवजलमज्जनदर्शनवन्दनकीर्तनसंस्तुतभक्ततते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥४॥
करजितपंकज कोटिरविप्रभ  कोमलकल्पितवेष हरे
रविशतसन्निभ रत्नविनिर्मितरम्यकिरीट मनोज्ञ हरे
मुनिवर मुद्गलवंशसुरक्षण दीक्षित रक्षितपार्थ हरे
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥५॥
भवभयनाशक भोगविवर्धक भक्तजनस्तुतिमग्नमते
यदुकुलनन्दन मंगलकारण शत्रुनिवारणदीक्षमते।
गजपतिसंश्रयवाद्यसुघोषण नामसुकीर्तन हृष्टमते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥६॥
विधिहरनारदतुंबुरुसद्गुरुवायुमुखामरपूज्य हरे
कलियुगसंभव कल्मषनाशक काम्यफलप्रद मोक्षपते।
कविवरभट्टतिरिस्तुतिकंपित मस्तकदर्शित दिव्यतनो
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥७॥
चरणयुगागतभक्तजनार्पितदेहतुलाभरतुष्टमते
तवचरणांबुज मानसपून्दन दर्शितदिव्यगृहाधिपते
विषभयरक्षितपाण्ड्यनरेश्वर कल्पितमन्दिर वैद्यपते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥८॥
शिवदमनन्तपदान्वितरामसुदीक्षित सत्कवि पद्यमिदं।
गुरुपवनाधिपतुष्टिदमुत्तममिष्टसुसिद्धिदमार्तिहरम्।
पठति शृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते
जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥९॥


HYMNS TO KRISHNA – SRIKRISHNA KESADIPADA VARNANA STOTRAM (FROM NARAYANEEYAM)

श्रीकृष्णकेशादिपादवर्णनस्तोत्रम्
    
       (नारायणीयान्तर्गतम्)
अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं
पीयूषाप्लावितोऽहं तदनु तदुदरे
दिव्यकैशोरवेषम् ।
तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै-
रावीतं नारदाद्यैर्विलसदुपनिषद्सुन्दरीमण्डलैश्च
॥ १ ॥
नीलाभं कुञ्चिताग्रं घनममलतरं
संयतं चारुभङ्ग्या
रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः
पिञ्छजालैः ।
मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं
स्निग्द्धश्वेतोर्ध्वपुण्ड्रामपि
च सुललितां फालबालेन्दुवीथीम् ॥ २ ॥
हृद्यं पूर्णानुकंपार्णवमृदुलहरी
चञ्चलभ्रूविलासैः
आनीलस्निग्द्धपक्ष्मावलि परिलसितं
नेत्रयुग्मं विभो ते ।
सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं
कारुण्यालोकलीला शिशिरितभुवनं
क्षिप्यतां मय्यनाथे ॥ ३ ॥
उत्तुङ्गोल्लासिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली-
व्यालोलत् कर्णपाशाञ्चितमकरमणी
कुण्डलद्वन्द्वदीप्रम् ।
उन्मीलद्दन्तपङ्क्तिः स्फुरदरुणतरच्छाय
बिम्बाधरान्तः
प्रीतिप्रस्यन्दिमन्दस्मितमधुरतरं
वक्त्रमुद्भासतां मे ॥ ४ ॥
बाहुद्वन्द्वेन रत्नाङ्गुलिवलयभृता
शोणपाणिप्रवाले-
नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम्
कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः
शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः
सिञ्च मे कर्णवीथीम् ॥ ५ ॥
उत्सर्पत्कौस्तुभश्रीततिभिररुणितं
कोमलं कण्ठदेशं
वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्तहारप्रतानम्
नानावर्णप्रसूनावलिकिसलयिनीं
वन्यमालां विलोल-
ल्लोलम्बां लम्बमानामुरसि तव
तथा भावये रत्नमालाम् ॥ ६ ॥
अंगे पंचांगरागैरतिशयविकसत्सौरभाकृष्टलोकं
लीनानेकत्रिलोकीविततिमपि कृशां
बिभ्रतं मध्यवल्लीम् ।
शक्राश्मन्यस्त तप्तोज्ज्वलकनकनिभं
पीतचेलं दधानं
ध्यायामो दीप्तरश्मि स्फुटमणिरशनाकिङ्किणी
मण्डितं त्वाम् ॥ ७ ॥
ऊरू चारू तवोरू घनमसृणरुचौ
चित्तचोरौ रमायाः
विश्वक्षोभं विशङ्क्य ध्रुवमनिशमुभौ
पीतचेलावृताङ्गौ ।
आनम्राणां पुरस्तान्न्यसनधृतस्मस्तार्थपालीसमुद्ग-
च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे
च जङ्घे निषेवे ॥ ८ ॥
मञ्जीरं मञ्जुनादैरिव पदभजनं
श्रेय इत्यालपन्तं
पादाग्रं भ्रान्तिमज्जत् प्रणतजनमनोमन्दरोद्धारकूर्मम्
उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्नया
चाश्रितानाम्
संताप ध्वान्तहन्त्रीं ततिमनुकलये
मङ्गलामङ्गुलीनाम् ॥ ९ ॥
योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं
मुक्तिभाजां निवासो
भाक्तानां कामवर्षद्युतरुकिसलयं
नाथ ते पादमूलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते
कृष्ण कारुण्यसिन्धो
हृत्वा निश्शेषतापान् प्रदिशतु
परमानन्दसन्दोहलक्ष्मीम्  ॥ १० ॥

                  ***                  

HYMNS TO KRISHNA – SRIGURUVATAPURANATHA PANCHARATNA STOTRAM

 श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम्
आदित्यादिप्रभृतिकमिदं चक्षुराद्यं
च तेजो
ज्ञानाज्ञाने स्फुरितमखिलं
येन नित्यं विभाति ।
तत्तादृक्षे सकलवचनागोचरे स्वप्रकाशे
त्वद्रूपेऽस्मिन् किमिव कथये
वातगेहाधिनाथ ॥ १ ॥
आकाशान्तं जगदखिलमप्यंशमात्रं
यदीयं
माया सेयं मरुदधिपते त्वत्स्वरूपैकदेशे
स त्वं कोणे क्वचन धरणेस्तिष्ठसे
देहधारी
कारुण्यं ते जगति कथये नाथ
तादृक् कथं वा ॥ २ ॥
दृश्यं सर्वं वरद भवतो देह
इत्यामनन्त्यां
श्रुत्यां सत्यामपि बत नृणां
जायते नैव बुद्धिः ।
इत्थंकारं कमपिच नवं कल्पयन्
देहभेदम्
भासि स्पष्टं तदपि भगवन् भाग्यहीनो
जनोऽयम् ॥ ३ ॥
मर्त्यामर्त्यप्रमुखमखिलं क्षेत्रजातं
त्वदीया
मायैव श्रीगुरुपुरपते साऽपि
नास्ति त्वदन्या ।
एको देवस्त्वमसि सकलक्षेत्र
साक्षी चिदात्मा
तत्वं किञ्चित् पृथगिह विभो
त्वां विना नैव जाने ॥ ४ ॥
सद्रूपाढ्यं भवति भवताऽधिष्ठितं
सर्वमेतत्
भानं नाम क्वचिदपि जडे नो भवन्तं
विनाऽन्यम् ।
प्रेम श्रीमन् जगति भवति त्वत्प्रतिच्छाययाऽस्मिन्
वातेशासावहमपि भवान् सच्चिदानन्दरूपः
॥ ५ ॥
                  ***