श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम्
श्रीक्रुष्णः कमलानाथो वासुदेवः सनातनः
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥१-७॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः
चतुर्भुजात्तचक्रासिगदाशंखाद्युदायुधः ॥८-११॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥१२-१६॥
’
पूतनाजीवितहरः शकटासुरभञ्जनः
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥१७-२०॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः
नवनीतनवाहारो मुचुकुंदप्रसादकः ॥२१-२५॥
षोडशस्त्रीसहस्रेशो त्रिभंगीललिताकृतिः
शुकवागमृताब्धीन्दुः गोविन्दो गोविदां पतिः॥२६-३०॥
वत्सवाटचरोऽनन्तो धेनुकासुरमर्द्दनः
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥३१-३५॥
उत्तालतालभेत्ता च तमालश्यामलाकृतिः
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः ॥३६-४०॥
इलापतिः परंज्योतिः यादवेन्द्रो यदूद्वहः
वनमाली पीतवासा पारिजातापहारकः ॥४१-४७॥
गोवर्धनाचलोद्धर्त्ता गोपालस्सर्वपालकः
अजो निरञ्जनः कामजनकः कञ्जलोचनः॥४८-५४॥
मधुहा मथुरानाथो द्वारकानायको बली
वृन्दावनांतसञ्चारी तुलसीदामभूषणः ॥५५-६०॥
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः
कुब्जाकृष्टांबरधरो मायी परमपूरुषः ॥६१-६५॥
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः
संसारवैरि कंसारी मुरारी नरकान्तकः ॥६६-७०॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्शकः
शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकः ॥७१-७४॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः
सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी ॥७५-८०॥
सुभद्रापूर्वजो विष्णुः भीष्ममुक्तिप्रदायकः
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः ॥८१-८६॥
वृषभासुरविध्वंसी बाणासुरबलांतकः
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ॥८७-९०॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः
कालीयफणिमाणिक्यरञ्जितश्रीपदांबुजः ॥९१-९४॥
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः
नारायणः परंब्रह्म पन्नगाशनवाहनः ॥९५-१००॥
जलक्रीडासमासक्तगोपीवस्त्रापहारकः
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥१०१-१०५॥
सर्वभूतात्मकस्सर्वग्रहरूपी परात्परः ॥१०६-१०८॥
एवं कृष्णस्य देवस्य नाम्नामष्टोत्तरं शतं
कृष्णनामामृतं नाम परमानन्दकारकं
अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम्
Thanks for posting
Searching for ages.
ThankYou
Thank you . Can you please provide the meaning for this slokam…
Which shlokam ?
– moderator
Meaning
http://nitaaiveda.com/Compiled_and_Imp_Scriptures/Glories_of_Lord_Krishna/Prayers_to_be_chanted_on_Janmashtami/Lord_Krishna_108_Holy_Names.htm
Hello
Thanks for posting slokas. It would be convenient for users if we could download these slokas in pdf format.
Thanks and regards.
Learning a bit of saving as PDF will save the author from tedious work.
Not all people need PDF.
Those who need can take a snap of screen or copy-paste in word/libre office/note and then print/save as PDF.
I don't think that it's so difficult.