SRI RAMA ASHTOTHARA SATANAMA STOTRAM

       श्रीरामाष्टोत्तरशतनामस्तोत्रम्
श्रीरमो रामभद्रश्च रामचन्द्रश्च शाश्वतः
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ||१-८॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः
विश्वामित्रप्रियो दान्तः शरणत्राणतत्परः ॥९-१५॥
वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः    ॥१६-२२॥
कौसलेय: खरध्वंसी विराधवधपण्डितः
विभीषणपरित्राता हरकोदण्डखण्डनः ॥२३-२७॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः
जामदग्न्यमहादर्पदलनस्ताटकान्तकः॥२८-३१॥
वेदन्तसारो वेदात्मा भवरोगस्यभेषजं
दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥३२-३७॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः
त्रिलोकरक्षको धन्वी दण्डकारण्यकर्तनः ॥३८-४३॥
अहल्याशापशमनः पितृभक्तो वरप्रदः
जितेन्द्रियो जितक्रोधः जितामित्रो जगत्गुरुः॥४४-५०॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥५१-५४॥
सर्वदेवादिदेवश्च मृतवानरजीवनः
मायामारीचहन्ता च महादेवो महाबुजः ॥५५-५९॥
सर्वलोकस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः
महायोगी महोदारः सुग्रीवेप्सितराज्यदः    ॥६०-६६॥
सर्वपुण्याधिकफलः स्मृतस्सर्वाघनाशनः
आदिपुरुषः परमपुरुषो महापुरुष एव च ॥६७-७१॥
पुण्योदयो दयासारः पुराणपुरुषोत्तमः
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः॥७२-७८॥
अनन्तगुणगंभीरो धीरोदातगुणोत्तमः
मायामानुषचारित्रो महादेवादिपूजितः ॥७९-८२॥
सेतुकृज्जितवाराशिः सर्वतीर्थमयो हरिः
श्यामांगः सुन्दरः शूरः पीतवासा धनुर्धरः॥८३-९१॥
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः
विभीषणप्रतिष्ठाता सर्वापगुणवर्जितः ॥९२-९६॥
परमात्मा परंब्रह्म सच्चिदानन्दविग्रहः
परंज्योतिः परंधाम पराकाशः परात्परः ॥९७-१०३॥
परेशः पारगः पारः सर्वदेवात्मकः परः ॥१०४-१०८॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.