ऋणविमोचननृसिंहस्तोत्रम्
देवताकार्यसिद्ध्यर्थं सभास्तंभसमुद्भवम्।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥१॥
लक्ष्म्यालिङ्गितवामाङ्गं भक्तानां वरदायकम्।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥२॥
आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम्।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥३॥
स्मरणात्सर्वपापघ्नं कद्रूजविषनाशनम्।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥४॥
सिंहनादेन महता दिग्दन्तिभयनाशनम्।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥५॥
प्रह्लादवरदं श्रीशं दैत्येश्वरविदारिणम्।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥६॥
क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥७॥
वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम्
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥८॥
य इदं पठते नित्यं ऋणमोचनसंज्ञितम्
अनृणी जायते सद्यो धनं शीघ्रमवाप्नुयात् ॥९॥
You must log in to post a comment.