SRI KRISHNA SAHASRANAMA STOTRAM II

श्रीकृष्णसहस्रनामस्तोत्रम् -II (श्लोकाः १०१-२११)

ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः।

एरावतकरानीतवियद्गंगाप्लुतो विभुः॥१०१॥
ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः।
सर्ववेदमयो मग्ननन्दान्वेषी  पितृप्रियः॥१०२॥
वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः।
वरुणानीतजनको गोपज्ञातात्मवैभवः॥१०३॥
स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः।
ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः॥१०४॥
शरच्चन्द्रविहारोत्कः श्रीपतिर्वशको क्षमः।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः॥१०५॥
गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः।
गोपिकामानहरणो गोपिकाशतयूथपः॥१०६॥
वैजयन्तीस्रगाकल्पो गोपिकामानवर्द्धनः।
गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः॥१०७॥
स्वात्मास्यदत्ततांबूलः फलितोत्कृष्टयौवनः।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः॥१०८॥
गोपीचेलांचलासीनो गोपीनेत्राब्जषट्पदः।
रासक्रीडासमासक्तो गोपीमण्डलमण्डनः॥१०९॥
गोपीहेममणिश्रेणीमध्येन्द्रमणिरुज्ज्वलः।
विद्याधरेन्दुशापघ्नो शंखचूडशिरोहरः॥११०॥
शंखचूडशिरोरत्नसंप्रीणितबलोऽनघः।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः॥१११॥
सरसस्सस्मितमुखः सुस्थिरो विरहाकुलः।
संकर्षणार्पितप्रीतिरक्रूरध्यानगोचरः॥११२॥
अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः।
प्रमाणगम्यस्तन्मात्रावयवी बुद्धितत्परः॥११३॥
सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः।
पुरुषश्चप्रधानात्मा विपर्यासविलोचनः॥११४॥
मथुराजनसंवीक्ष्यो रजकप्रतिघातकः।
विचित्राम्बरसंवीतो मालाकारवरप्रदः॥११५॥
कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः।
कुब्जांगरागसुरभिः कंसकोदण्डखण्डनः॥११६॥
धीरः कुवलयापीडमर्दनः कंसभीतिकृत्।
दन्तिदन्तायुधो रंगत्रासको मल्लयुद्धवित्॥११७॥
चाणूरहन्ता कंसारिर्देवकीहर्षदायकः।
वसुदेवपदानम्रः पितृबन्धविमोचनः॥११८॥
उर्वीभयापहो भूप उग्रसेनाधिपत्यदः।
आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः॥११९॥
आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः॥१२०॥
गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः।
हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः॥१२१॥
धर्मराजजयानीतगुरुपुत्र उरुक्रमः।
गुरुपुत्रप्रदश्शास्ता मथुराजनमानदः॥१२२॥
जामदग्न्यसमभ्यर्च्यो गोमन्तगिरिसंचरः।
गोमान्तदावशमनो गरुडानीतभूषणः॥१२३॥
चक्राद्यायुधसंशोभी जरासंधमदापहः।
सृगालावनिपालघ्नः सृगालात्मजराज्यदः॥१२४॥
विध्वस्तकालयवनो मुचुकुन्दवरप्रदः।
आज्ञापितमहाम्बोधिर्द्वारकापुरकल्पनः॥१२५॥
द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः।
रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः॥१२६॥
अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः॥१२७॥
बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित्।
धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः॥१२८॥
षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत्।
शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शम्भुसंस्तुतः॥१२९॥
इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः।
हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः॥१३०॥
आत्मज्ञाननिधिर्मेधाकोशस्तन्मात्ररूपवान्।
इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः॥१३१॥
तुरीयस्सर्वधीसाक्षी द्वन्द्वारामात्मदूरगः।
अज्ञातपारवश्यश्रीरव्याकृतविहारवान्॥१३२॥
आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः।
बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः॥१३३॥
अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः।
जलेशविजयी वीरः सत्राजिद्रत्नयाचकः॥१३४॥
प्रसेनान्वेषणोद्युक्तो जांबवद्धृतरत्नदः।
जितर्क्षराजतनयाहर्ता जांबवतीप्रियः॥१३५॥
सत्यभामाप्रियः कामश्शतधन्वशिरोहरः।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः॥१३६॥
कैकेयीरमणो भद्राभर्ता नग्नजितीधवः।
माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः॥१३७॥
सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः॥१३८॥
सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित्।
हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः॥१३९॥
नरकासुरविच्छेत्ता नरकात्मजराज्यदः।
पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः॥१४०॥
गुणग्राही गुणद्रष्टा गूढस्स्वात्मा विभूतिमान्।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः॥१४१॥
प्रपञ्चपालनो माली महद्ब्रह्मविवर्धनः।
वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः॥१४२॥
स्वयंप्रभुरनिर्वेद्यः स्वप्रकाशश्चिरन्तनः।
नादात्मा मन्त्रकोटीशो नानावादनिरोधकः॥१४३॥
कंदर्पकोटिलावण्यः परार्थैकप्रयोजकः।
अमरीकृतदेवौघः कन्यकाबन्धमोचनः॥१४४॥
शोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः॥१४५॥
शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्धुष्टचेष्टनः॥१४६॥
पुराणस्संयमीजन्मालिप्तः षड्विंशकोऽर्थदः।
यशस्यनीतिरान्द्यन्तरहितः सत्कथाप्रियः॥१४७॥
ब्रह्मबोधः परानन्दः पारिजातापहारकः।
पौण्ड्रकप्राणहरणः काशिराजनिषूदनः॥१४८॥
कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः।
हंसविध्वंसनस्साम्बजनको डिंभकार्दनः॥१४९॥
मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः॥१५०॥
सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्धिभेधनः।
आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः॥१५१॥
विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः।
पार्थविस्मयकृत् पार्थप्रणवार्थप्रबोधनः॥१५२॥
कैलासयात्रासुमुखो बदर्याश्रमभूषणः।
घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः॥१५३॥
मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः।
तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः॥१५४॥
प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः॥१५५।
बलसंरम्भशमनो बलदर्शितपाण्डवः।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः॥१५६॥
सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः।
खाण्डवप्रीणितार्चिष्मान् मयदानवमोचनः॥१५७॥
सुलभो राजसूयार्हयुधिष्ठिरनियोजकः।
भीमार्दितजरासन्धो मागधात्मजराज्यदः॥१५८॥
राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः।
चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः॥१५९॥
सर्वात्मार्थसमाहर्ता मन्दराचलधारकः।
यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः॥१६०॥
 
बलियज्ञसभाध्वंस्वी दृप्तक्षत्रकुलान्तकः।
दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः॥१६१॥
सर्वावताराधिष्ठाता वेदबाह्यविमोहनः।
कलिदोषनिराकर्ता दशनामा दृढव्रतः॥१६२॥
अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः।
द्रौपतीरचितस्तोत्रः केशवः पुरुषोत्तमः॥१६३॥
नारायणो मधुपतिर्माधवो दोषवर्जितः।
गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः॥१६४॥
त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान्।
हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः॥१६५॥
दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः।
साल्वघ्नस्समरश्लाघी दन्तवक्त्रनिबर्हणः॥१६६॥
दामोदरप्रियसखा पृथुकास्वादनप्रियः।
घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः॥१६७॥
गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी॥१६८॥
पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत्।
विदुरातिथ्यसंतुष्टः कुन्तीसंतोषदायकः॥१६९॥
सुयोधनतिरस्कर्ता दुर्योधनविकारवित्।
विदुराभीष्टदो नित्यो वार्ष्णेयो मङ्गलात्मकः॥१७०॥
पञ्चविंशतितत्वेशश्चतुर्विंशतिदेहभाक्।
सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः॥१७१॥
अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः।
मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता॥१७२॥
उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः।
ब्रह्मण्यदेवश्श्रुतिमान् गोब्राह्मणहिताशयः॥१७३॥
वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान्।
स्वभावशुद्धस्सन्मित्रस्सुशरणस्सुलक्षणः॥१७४॥
धृतराष्ट्रगतौदृष्टिप्रदः कर्णविभेदनः।
प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः॥१७५॥
सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः॥१७६॥
ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत्।
अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः॥१७७॥
सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः।
अकालसंध्याघटनश्चक्रान्तरितभास्करः॥१७८॥
दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः।
सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक॥१७९॥
सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः।
पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः॥१८०॥
अंगुष्ठाक्रान्तकौन्तेयरथचक्रोऽहिशीर्षजित्।
कालकोपप्रशमनो भीमसेनजयप्रदः॥१८१॥
अश्वत्थामावधायासत्रातपाण्डुसुतः कृती।
इषीकास्त्रप्रशमनो द्रौणिरक्षाविचक्षणः॥१८२॥
पार्थापहारितद्रौणिचूडामणिरभंगुरः।
धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः॥१८३॥
भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः।
गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः॥१८४॥
गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यथापहः॥१८५॥
शान्तः शान्तनवोदीर्णसर्वधर्मसमाहितः।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो  महास्त्रवित्॥१८६॥
प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः।
विपक्षपक्षक्षयकृत परीक्षित्प्राणरक्षणः॥१८७॥
जगत्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः।
विहितार्थाप्तसत्कारो मासकात्परिवर्तदः॥१८८॥
उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः।
जनकावगतस्वोक्तभारतस्सर्वभावनः॥१८९॥
असोढयादवोद्रेको विहिताप्तादिपूजनः।
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः॥१९०॥
मुनिशापायुधः पद्मासनादित्रिदशार्थितः।
सृष्टिप्रत्यवहारोत्कटस्स्वधामगमनोत्सुकः॥१९१॥
प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत्।
सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः॥१९२॥
वेलाकाननसञ्चारी
वेलानिलहृतश्रमः।
कालात्मा यादवोऽनन्तः स्तुतिसंतुष्टमानसः॥१९३॥
द्विजालोकनसंतुष्टः पुण्यतीर्थमहोत्सवः।
सत्काराह्लादिताशेषभूसरस्सुरवल्लभः॥१९४॥
पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः।
विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः॥१९५॥
स्वमायामोहिताशेषवृष्णिवीरो विशेषविद्।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः॥१९६॥
देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः।
स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः॥१९७॥
ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः॥१९८॥
व्याधेषुविद्धपूजाङ्घ्रिर्निषादभयमोचनः।
पुलिन्दस्तुतिसंतुष्टः पुलिन्दसुगतिप्रदः॥१९९॥
दारुकार्पितपार्थादिकरणीयोक्तिरीशिता।
दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः॥२००॥
पुराणः परमेशानः पूर्णभूमा परिष्टुतः।
पतिराद्यः परंब्रह्म परमात्मा परात्परः॥२०१॥

Sri P R Ramamurthy Ji was the author of this website. When he started this website in 2009, he was in his eighties. He was able to publish such a great number of posts in limited time of 4 years. We appreciate his enthusiasm for Sanskrit Literature. Authors story in his own words : http://ramamurthypr1931.blogspot.com/

Author Socials Follow me

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.