लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम्
(पूर्वभागः)
श्री देव्युवाच-
देव देव महादेव त्रिकालज्ञ महेश्वर।
करुणाकर देवेश भक्तानुग्रहकारक
अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः॥१॥
ईश्वर उवाच-
देवि साधु महाभागे महाभाग्यप्रदायकम्।
सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम्॥२॥
सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम्।
राजवश्यकरं दिव्यं गुह्याद्गुह्यतमं परम् ॥३॥
दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्पदम्।
पद्मादीनां नवानां च निधीनां नित्यदायकम्॥४॥
समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम्।
किमत्र बहुनोक्तेन देवीप्रत्यक्षकारकम्॥५॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाः श्रुणु।
अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥६॥
क्लीं बीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी।
अंगन्यास करन्यास स इत्यादि प्रकीर्तितः॥७॥
ध्यानम्।
वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम्।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सेवितां
पार्श्वे पंकजशंखपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥८॥
सरसिजनयने सरोजहस्ते
धवलतरांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ।।९॥
You must log in to post a comment.