VENKATESHA MANGALASTOTRAM

श्रीवेङ्कटेशमङ्गलस्तोत्रम्
श्रियः कान्ताय
कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय
श्रीनिवासाय मङ्गलम् ॥ १ ॥
लक्ष्मीसविभ्रमालोकसद्मविभ्रमचक्षुषे
चक्षुषे सर्वलोकानां
वेङ्कटेशाय मङ्गलम् ॥ २ ॥
श्रीवेङ्कटाद्रिशृङ्गाय
मङ्गलाभराणाङ्घ्रये ।
मङ्गलानां निवासाय
वेङ्कटेशाय मङ्गलम् ॥ ३ ॥
सर्वावयवसौन्दर्यसंपदा
सर्वचेतसाम् ।
सदा सम्मोहनायास्तु
वेङ्कटेशाय मङ्गलम् ॥ ४ ॥
नित्याय निरवद्याय
सत्यानन्द चिदात्मने ।
सर्वान्तरात्मने
श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ५ ॥
स्वतः सर्वविदे
सर्वशक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय
वेङ्कटेशाय मङ्गलम् ॥ ६ ॥
परस्मै ब्रह्मणे
पूर्णकामाय परमात्मने ।
प्रपन्नपरतत्वाय
वेङ्कटेशाय मङ्गलम् ॥ ७ ॥
अकालतत्वविश्रान्तावात्मानमनुपश्यताम्
अतृप्तामृतरूपाय
वेङ्कटेशाय मङ्गलम् ॥ ८ ॥
प्रायः स्वचरणौ
पुंसां शरण्यत्वेन पाणिना ।
कृपया दर्शयते
श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ९ ॥
दयामृततरङ्गिण्याः
तरङ्गैरतिशीतलैः ।
अपाङ्गैः सिञ्चते
विश्वं वेङ्कटेशाय मङ्गलम् ॥ १० ॥
स्रग्भूषाम्बरहेतीनां
सुषमावहमूर्तये ।
सर्वार्तिशमनायास्तु
वेङ्कटेशाय मङ्गलम् ॥ ११ ॥
श्रीवैकुण्ठविरक्ताय
स्वामिपुष्करणीतटे ।
रमया रममाणाय
वेङ्कटेशाय मङ्गलम् ॥ १२ ॥
श्रीमद् सुन्दरजामातृमुनिमानसवासिने
सर्वलोकनिवासाय
श्रीनिवासाय मङ्गलम्  ॥ १३ ॥
नमः श्रीवेङ्कटेशाय
शुद्धज्ञानस्वरूपिणे ।
वासुदेवाय शान्ताय
श्रीनिवासाय मङ्गलम् ॥ १४ ॥
       

VENKATESA DWADASANAMA STOTRAM

श्री वेङ्कटेश द्वादशनामस्तोत्रम्
वेङ्कटेशो वासुदेवः वारिजासनवन्दितः ।
स्वामिपुष्करणीवासः
शङ्खचक्रगदाधरः ॥ १ ॥
पीतांबरधरो देवः गरुडारूढशोभितः
विश्वात्मा विश्वलोकेशः विजयो वेङ्कटेश्वरः ॥ २ ॥
एतत् द्वादश नामानि
त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तो विष्णोस्सायुज्यमाप्नुयात् ॥ ३ ॥
     
           ***

SRI VENKATESA STOTRAM

                             श्रीवेङ्कटेशस्तोत्रम्
कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो।
कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥१॥
सचतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौलिमणे।
शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥२॥
अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः।
भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥३॥
अधिवेङ्कटशैलमुदारमतेर्जनताभिमताधिकदानरतात्।
परदेवतयागदितान्निगमैः कमलादयितान्न परं कलये ॥४॥
कलवेणुरवावशगोपवधूशतकोटियुतात्स्मरकोटिसमात्।
प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥५॥
अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते।
रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥६॥
अवनीतनयाकमनीयकरं रजनीकरचारुमुखांबुरुहम्।
रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये ॥७॥
सुमुखं सुहृदं सुलभं सुखदं
स्वनुजं च सुकायममोघशरम् ।
अपहाय रघूद्वहमन्यमहं
न कथञ्चन कञ्चन जातु भजे ॥८॥
विना वेङ्कटेशं न नाथो न नाथः
सदा वेङ्कटेशं स्मरामि स्मरामि।
अरे वेङ्कटेश प्रसीद प्रसीद
प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥९॥
अहं दूरतस्ते पदांभोजयुग्म-
प्रणामेच्छयाऽऽगत्य सेवां करोमि।
सकृत्सेवया नित्यसेवाफलं त्वं
प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥१०॥
अज्ञानिना मया दोषानशेषान्विहितान् हरे।
क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥११॥

SRI VENKATESA PRAPATTI

                             श्रीवेङ्कटेशप्रपत्तिः
ईशानां जगतोऽस्य वेङ्कटपतेर्विष्णो: परां प्रेयसीं
तद्वक्षःस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीं
पद्मालंकृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणॊज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥१॥
श्रीमन् कृपाजलनिधे कृतसर्वलोक!
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन्।
स्वामिन् सुशील सुलभाश्रितपारिजात
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥२॥
आनूपुरार्पितसुजातसुगन्धिपुष्प-
सौरभ्यसौरभकरौ समसन्निवेशौ
सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥३॥
सद्योविकासिसमुदित्वरसान्द्रराग-
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम्।
सम्यक्षु साहसपदेषुविलेखयन्तौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥४॥
रेखामयध्वजसुधाकलशातपत्र-
वज्राङ्कुशांबुरुहकल्पकशङ्खचक्रैः।
भव्यैरलंकृततलौ परतत्त्वचिह्नैः
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥५॥
ताम्रोदरद्युतिपराजितपद्मरागौ
बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ।
उद्यन्नखांशुभिरुदस्तशशांकभासौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥६॥
सप्रेमभीतिकमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ।
कान्ताववाङ्मनसगोचरसौकुमार्यौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥७॥
लक्ष्मीमहीतदनुरूपनिजानुभाव-
नीलादि दिव्यमहिषी करपल्लवानाम्।
आरुण्यसंक्रमणतः किल सान्द्ररागौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥८॥
नित्यानमद्विधिशिवादिकिरीटकोटि-
प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः।
नीराजनाविधिमुदारमुपादधानौ
श्रीवेङ्कटेशचरणौ शरणं प्रपद्ये ॥९॥
विष्णोः पदे परम इत्युदितप्रशंसौ
यौ मध्व उत्स इति भोग्यतयाप्युपात्तौ ।
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१०॥
पार्थाय तत्सदृशसारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति।
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥११॥
मन्मूर्ध्नि कालियफणेषु विकटाटवीषु
श्रीवेङ्कटाद्रिशिखरे शिरसि श्रुतीनाम् ।
चित्तेप्यनन्यमनसां सममाहितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१२॥
अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्रीवेङ्कटाद्रिशिखराभरणायमानौ।
आनन्दिताखिलमनोनयनौ तवैतौ
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१३॥
प्रायः प्रपन्नजनता प्रथमावगाह्यौ
मातुः स्तनाविव शिशोरमृतायमानौ।
प्राप्तौ परस्परतुलामतुलान्तरौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१४॥
सत्त्वोत्तरैर्सततसेव्यपदांबुजेन
संसारतारकदयार्द्रदृगञ्चलेन।
सौम्योपयन्तृमुनिना मम दर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥१५॥
श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥१६॥

SRI VENKATESA SUPRABHATAM

                          श्रीवेङ्कटेशसुप्रभातम्
कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१॥
उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥२॥
मातस्समस्तजगतां मधुकैटभारे:
वक्षोविहारिणि मनोहरदिव्यमूर्ते।
श्रीस्वामिनि श्रितजनप्रियदानशीले
श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥३॥
तव सुप्रभातमरविन्दलोचने
भवतु प्रसन्नमुखचन्द्रमण्डले।
विधिशंकरेन्द्रवनिताभिरर्चिते
वृषशैलनाथदयिते दयानिधे ॥४॥
अत्र्यादिसप्तर्षयस्समुपास्य सन्ध्यां
आकाशसिन्धुकमलानि मनोहराणि।
आदाय पादयुगमर्चयितुं प्रपन्नाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥५॥
पञ्चाननाब्जभवषण्मुखवासवाद्याः
त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति।
भाषापतिः पठति वासरशुद्धिमारात्
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥६॥
ईषत्प्रफुल्लसरसीरुहनारिकेल-
पूगद्रुमादिसुमनोहरपालिकानाम्।
आवाति मन्दमनिलस्सह दिव्यगन्धैः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥७॥
उन्मील्यनेत्रयुगमुत्तमपञ्जरस्थाः
पात्रावशिष्टकदलीफलपायसानि।
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥८॥
तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या
गायत्यनन्तचरितं तव नारदोऽपि
भाषासमग्रमसकृत्करचारुरम्यं
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥९॥
भृङ्गावली च मकरन्दरसानुविद्ध-
झंकारगीतनिनदैस्सह सेवनाय ।
निर्यात्युपान्तसरसीकमलोदरेभ्यः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१०॥
योषागणेन वरदध्नि विमथ्यमाने
घोषालयेषु दधिमन्थनतीव्रघोषाः।
रोषात्कलिं विदधते ककुभश्च कुंभाः
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥११॥
पद्मेशमित्रशतपत्रगतालिवर्गाः
हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या
भेरीनिनादमिव बिभ्रति तीव्रनादं
शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१२॥
श्रीमन्नभीष्टवरदाखिललोकबन्धो
श्रीश्रीनिवास जगदेकदयैकसिन्धो।
श्रीदेवतागृहभुजान्तरदिव्यमूर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१३॥
श्रीस्वामिपुष्करिणिकाऽऽप्लवनिर्मलाङ्गाः
श्रेयोऽर्थिनो हरविरिञ्चिसनन्दनाद्याः ।
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१४॥
श्रीशेषशैलगरुडाचलवेङ्कटाद्रि-
नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम्।
आख्यां त्वदीयवसतेरनिशं वदन्ति
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१५॥
सेवापराश्शिवसुरेशकृशानुधर्म-
रक्षोम्बुनाथपवमानधनाधिनाथाः।
बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१६॥
धाटीषु ते विहगराजमृगाधिराज-
नागाधिराजगजराजहयाधिराजाः।
स्वस्वाधिकारमहिमादिकमर्थयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१७॥
सूर्येन्दुभौमबुधवाग्पतिकाव्यसौरि-
स्वर्भानुकेतुदिविषत्परिषप्रधानाः।
त्वद्दासदासचरमावधि दासदासाः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१८॥
त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः
स्वर्गापवर्गनिरपेक्षनिजान्तरंगाः।
कल्पागमाऽऽकलनयाऽऽकुलतां लभन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥
त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः
स्वर्गापवर्गपदवीं परमां श्रयन्तः।
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२०॥
श्रीभूमिनायक दयादिगुणामृताब्धे!
देवाधिदेव जगदेकशरण्यमूर्ते।
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१॥
श्रीपद्मनाभ पुरुषोत्तम वासुदेव
वैकुण्ठ माधव जनार्दन चक्रपाणे।
श्रीवत्सचिह्न शरणागतपारिजात
श्रीवेङ्कटाचलपते तव सुप्रभातम् ।२२॥
कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते
कान्ताकुचाम्बुरुहकुड्मललोलदृष्टे।
कल्याणनिर्मलगुणाकर दिव्यकीर्ते
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२३॥
मीनाकृते कमठ कोल नृसिंह वर्णिन्
स्वामिन् परश्वथतपोधन रामचन्द्र।
शेषांशराम यदुनन्दन कल्किरूप
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४॥
एलालवङ्गघनसारसुगन्धितीर्थं
दिव्यं वियत्सरिति हेमघटेषु पूर्णम्।
धृत्वाऽद्य वैदिकशिखामणयः प्रहृष्टाः
तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥२५॥
भास्वानुदेति विकचानि सरोरुहाणि
संपूरयन्ति निनदैः ककुभो विहंगाः।
श्रीवैष्णवास्सततमर्थितमङ्गलास्ते
धामाऽऽश्रयन्ति तव वेङ्कट सुप्रभातम् ॥२६॥
ब्रह्मादयस्सुरवरास्समहर्षयस्ते
सन्तस्सनन्दनमुखास्तव योगिवर्याः।
धामान्तिके तव हि मङ्गलवस्तुहस्ताः
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥
लक्ष्मीनिवास विरवद्यगुणैकसिन्धो
संसारसागरसमुत्तरणैकसेतो।
वेदान्तवेद्यनिजवैभव भक्तभोग्य
श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२८॥
इत्थं वृषाचलपतेरिह सुप्रभातं
ये  मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरङ्गभाजां
प्रज्ञां परार्थसुलभां परमां प्रसूते ॥२९॥

SRI VENKATESHA ASHTOTHARA SATANAMA STOTRAM

श्री वेङ्कटेशाष्टोत्तरशतनामस्तोत्रम्
ओंकारपरमार्थश्च  नरनारायणात्मकः
मोक्षलक्ष्मीप्राणकान्तश्च वेङ्कटाचलनायकः॥१-४॥
करुणापूर्णहृदयः टेङ्कारजपसौख्यदः
शास्त्रप्रमाणगम्यश्च यमाद्यष्टांगगोचरः ॥५-८॥
भक्तलोकैकवरदः वरेण्यो भयनाशनः
यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः॥९-१३॥
रामावताररंगेशः णाकारजपसुप्रियः
यज्ञेशो गतिदाता च जगतीवल्लभो वरः॥१४-१९॥
रक्षस्सन्दोहसंहर्ता वर्चस्वी रघुपुङ्गवः
दानधर्मपरो याजी घनश्यामलविग्रहः॥२०-२५॥
हरादिसर्वदेवेड्यः रामो यदुकुलाग्रणी
श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः॥२६-३२॥
त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः
सर्वेशो कमलाकान्तः लक्ष्मीसंलापसम्मुखः॥३३-३९॥
चतुर्मुखप्रतिष्ठाता राजराजवरप्रदः
चतुर्वेदशिरोरत्नो रमणो नित्यवैभवः ॥४०-४४॥
दासवर्गपरित्राता नारदादिमुनिस्तुतः
यादवाचलवासी च खिद्यत्भक्तार्तिभञ्जनः ॥४५-४८॥
लक्ष्मीप्रसादको विष्णुः देवेशो रम्यविग्रहः
माधवो लोकनाथश्च लालिताखिलसेवकः ॥४९-५५॥
यक्षगन्धर्ववरदः कुमारो मातृकार्चितः
रटद्बालकपोषी च शेषशैलकृतस्थलः ॥५६-६०॥
षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः
तिर्यग्जन्त्वर्चितांघ्रिश्च नेत्रानन्दकरोत्सवः ॥६१-६४॥
द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः
शत्रुकृत्यादिभीतिघ्नो भुजंगशयनप्रियः॥६५-६८॥
जाग्रद्रहस्यावासश्च शिष्टानांपरिपालकः
वरेण्य: पूर्णबोधश्च जन्मसंसारभेषजः ॥६९-७४॥
कार्तिकेयवपुर्धारी यतिशेखरभावितः
नरकादिभयध्वंसी रथोत्सवकलाधरः ॥७५-७८॥
लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान्
शास्त्रश्रुतानन्तलीलश्च यमशिक्षानिबर्हणः॥७९-८२॥
मानसंरक्षणपरः इरिणाङ्कुरधान्यदः
नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः॥८३-८६॥
हिरण्यदानसंग्राही मोहजालनिकृन्तनः
दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः॥८७-९०॥
यजुर्वेदशिखागम्यः वेङ्कटो दक्षिणास्थितः
सारपुष्करणीतीरो रात्रौदेवगणार्चितः॥९१-९५॥
यत्नवत्फलसंधाता श्रींजपाद्धनवृद्धिकृत्
क्लींकारजापिकाम्यार्थप्रदो सदयान्तरः॥९६-९९॥
स्वसर्वसिद्धिसंधाता नमस्कर्तुरभीष्टदः
मोहिताखिललोकश्च नानारूपव्यवस्थितः॥१००-१०३॥
राजीवलोचनो यज्ञवराहो गणवेङ्कटः
तेजोराशीक्षणः स्वामी हार्दाविद्यानिवारणः॥१०४-१०८॥

HYMNS TO VENKATESA – SRI VENKATESA DWADASA NAMA STOTRAM

   २६.  श्री वॆङ्कटॆश द्वादशनामस्तॊत्रम्
वॆङ्कटॆशॊ वासुदॆवः वारिजासनवन्दितः ।
स्वामिपुष्करणीवासः शङ्खचक्रगदाधरः ॥ १ ॥
पीतांबरधरॊ दॆवः गरुडारूढशॊभितः ।
विश्वात्मा विश्वलॊकॆशः विजयॊ वॆङ्कटॆश्वरः ॥ २ ॥
एतत् द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वपापविनिर्मुक्तॊ विष्णॊस्सायुज्यमाप्नुयात् ॥ ३ ॥
                ***
    २७.  श्रीवॆङ्कटॆशमङ्गलस्तॊत्रम्
श्रियः कान्ताय कल्याणनिधयॆ निधयॆऽर्थिनाम् ।
श्रीवॆङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥
लक्ष्मीसविभ्रमालॊकसद्मविभ्रमचक्षुषॆ ।
चक्षुषॆ सर्वलॊकानां वॆङ्कटॆशाय मङ्गलम् ॥ २ ॥
श्रीवॆङ्कटाद्रिशृङ्गाय मङ्गलाभराणाङ्घ्रयॆ ।
मङ्गलानां निवासाय वॆङ्कटॆशाय मङ्गलम् ॥ ३ ॥
सर्वावयवसौन्दर्यसंपदा सर्वचॆतसाम् ।
सदा सम्मॊहनायास्तु वॆङ्कटॆशाय मङ्गलम् ॥ ४ ॥
नित्याय निरवद्याय सत्यानन्द चिदात्मनॆ ।
सर्वान्तरात्मनॆ श्रीमद् वॆङ्कटॆशाय मङ्गलम् ॥ ५ ॥
स्वतः सर्वविदॆ सर्वशक्तयॆ सर्वशॆषिणॆ ।
सुलभाय सुशीलाय वॆङ्कटॆशाय मङ्गलम् ॥ ६ ॥
परस्मै ब्रह्मणॆ पूर्णकामाय परमात्मनॆ ।
प्रपन्नपरतत्वाय वॆङ्कटॆशाय मङ्गलम् ॥ ७ ॥
अकालतत्वविश्रान्तावात्मानमनुपश्यताम् ।
अतृप्तामृतरूपाय वॆङ्कटॆशाय मङ्गलम् ॥ ८ ॥
प्रायः स्वचरणौ पुंसां शरण्यत्वॆन पाणिना ।
कृपया दर्शयतॆ श्रीमद् वॆङ्कटॆशाय मङ्गलम् ॥ ९ ॥
दयामृततरङ्गिण्याः तरङ्गैरतिशीतलैः ।
अपाङ्गैः सिञ्चतॆ विश्वं वॆङ्कटॆशाय मङ्गलम् ॥ १० ॥
स्रग्भूषाम्बरहॆतीनां सुषमावहमूर्तयॆ ।
सर्वार्तिशमनायास्तु वॆङ्कटॆशाय मङ्गलम् ॥ ११ ॥
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करणीतटॆ ।
रमया रममाणाय वॆङ्कटॆशाय मङ्गलम् ॥ १२ ॥
श्रीमद् सुन्दरजामातृमुनिमानसवासिनॆ ।
सर्वलॊकनिवासाय श्रीनिवासाय मङ्गलम्  ॥ १३ ॥
नमः श्रीवॆङ्कटॆशाय शुद्धज्ञानस्वरूपिणॆ ।
वासुदॆवाय शान्ताय श्रीनिवासाय मङ्गलम् ॥ १४ ॥