***
HYMNS TO SRIMATA – MEENAKSHI PANCHARATNAM
HYMNS TO SRIMATA – AMBA STOTRAM
INTRODUCTION TO LALITA SAHASRANAMA STOTRA
THOUSAND NAMES OF LALITA – LALITA SAHASRANAMA
ललितासहस्रनामस्तोत्रम्
ध्यानश्लोकाः
सिन्दूरारुणविग्रहां त्रिणयनां माणिक्यमौलिस्फुर-
त्तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत् परामम्बिकाम् ॥
अरुणां करुणातरङ्गिताक्षीं धृतपाशाङ्कुशपुष्पबाणचापाम् । ।
अणिमादिभिरावृतां मयूखैरहमित्येव विभावये भवानीम् ॥ ।
ध्यायेत् पद्मासनस्थां विकसितवदनां पद्मपत्रायताक्षीं ।
हेमाभां पीतवस्त्रां करकलितलसद्धेमपद्मां वराङ्गीम् । ।
सर्वालङ्कारयुक्तां सततमभयदां भक्तनम्रां भवानीं ।
श्रीविद्यां शान्तमूर्तिं सकलसुरनुतां सर्वसम्पत्प्रदात्रीम् ॥ ।
सकुङ्कुमविलेपनामलिकचुम्बिकस्तूरिकां ।
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् । ।
अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां ।
जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ॥ ।
श्री ललितासहस्रनामस्तोत्रम्
ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ।
उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।
रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ।
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ।
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ।
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका ।
वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ।
नवचम्पकपुष्पाभनासादण्डविराजिता ।
ताराकान्तितिरस्कारिनासाभरणभासुरा ।
कदम्बमञ्जरीकॢप्तकर्णपूरमनोहरा ।
ताटङ्कयुगलीभूततपनोडुपमण्डला ।
पद्मरागशिलादर्शपरिभाविकपोलभूः ।
नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ।
शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।
कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ।
निजसंलापमाधुर्यविनिर्भर्त्सितकच्छपी ।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ।
अनाकलितसादृश्यचिबुकश्रीविराजिता ।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ।
कनकाङ्गदकेयूरकमनीयभुजान्विता ।
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ।
कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ।
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया ।
अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।
रत्नकिङ्किणिकारम्यरशनादामभूषिता ।
कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमुकुटाकारजानुद्वयविराजिता ।
इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ।
नखदीधितिसञ्छन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ।
शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ।
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ।
सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका ।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ।
महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था कामाक्षी कामदायिनी ।
देवर्षिगणसङ्घातस्तूयमानात्मवैभवा ।
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ।
सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ।
चक्रराजरथारूढसर्वायुधपरिष्कृता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ।
किरिचक्ररथारूढदण्डनाथापुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ।
भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ।
भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ।
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ।
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ।
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ।
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ।
हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ।
कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ।
मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा ।
कुलामृतैकरसिका कुलसङ्केतपालिनी ।
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ।
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ।
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ।
तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ।
भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ।
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ।
शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।
शातोदरी शान्तिमती निराधारा निरञ्जना ।
निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ।
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ।
निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ।
निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ।
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निस्संशया संशयघ्नी निर्भवा भवनाशिनी ।
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ।
निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ।
दुष्टदूरा दुराचारशमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ।
सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ।
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ।
महारूपा महापूज्या महापातकनाशिनी ।
महामाया महासत्त्वा महाशक्तिर्महारतिः ।
महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ।
महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायागक्रमाराध्या महाभैरवपूजिता ।
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।
महाकामेशमहिषी महात्रिपुरसुन्दरी ।
चतुष्षष्ट्युपचाराढ्या चतुष्षष्टिकलामयी ।
महाचतुःषष्टिकोटियोगिनीगणसेविता ।
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा ।
चराचरजगन्नाथा चक्रराजनिकेतना ।
पार्वती पद्मनयना पद्मरागसमप्रभा ।
पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ।
ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ।
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ।
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ।
भानुमण्डलमध्यस्था भैरवी भगमालिनी ।
पद्मासना भगवती पद्मनाभसहोदरी ।
उन्मेषनिमिषोत्पन्नविपन्नभुवनावली ।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ।
आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ।
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।
सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ।
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ।
नारायणी नादरूपा नामरूपविवर्जिता ।
ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ।
राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ।
रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ।
काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ।
कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ।
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ।
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ।
विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ।
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाषण्डा सदाचारप्रवर्तिका ।
तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोपहा ।
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ।
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानसहंसिका ।
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ।
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ।
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ।
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ।
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ।
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ।
भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ।
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ।
चिच्छक्तिश्चेतनरूपा जडशक्तिर्जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजबृन्दनिषेविता ।
तत्त्वासना तत्वमयी पञ्चकोशान्तरस्थिता ।
निस्सीममहिमा नित्ययौवना मदशालिनी ।
मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः ।
चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ।
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौलमार्गतत्परसेविता ।
कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ।
शान्तिः स्वस्तिमती कन्तिर्नन्दिनी विघ्ननाशिनी ।
तेजोवती त्रिनयना लोलाक्षी कामरूपिणी ।
मालिनी हंसिनी माता मलयाचलवासिनी ।
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ।
वज्रेश्वरी वामदेवी वयोवस्थाविवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ।
विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ।
पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ।
अनाहताब्जनिलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ।
कालरात्र्यादिशक्त्योघवृता स्निग्धौदनप्रिया ।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ।
मणिपूराब्जनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ।
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ।
स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।
शूलाद्यायुधसम्पन्ना पीतवर्णातिगर्विता ।
मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ।
मूलाधाराम्बुजारूढा पञ्चवक्त्रास्थिसंस्थिता ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ।
मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।
आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ।
मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ।
सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ।
सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।
स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ।
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।
पुलोमजार्चिता बन्धमोचनी बर्बरालका ।
विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ।
अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता ।
ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ।
नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ।
पराशक्तिः परानिष्ठा प्रज्ञानघनरूपिणी ।
माध्वीपानालसा मत्ता मतृकावर्णरूपिणी ।
महाकैलासनिलया मृणालमृदुदोर्लता ।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी ।
आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडशाक्षरी विद्या त्रिकूटा कामकोटिका ।
कटाक्षकिङ्करीभूतकमलाकोटिसेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुप्रभा ।
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ।
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।
गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ।
देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ।
कलात्मिका कलानाथा काव्यालापविनोदिनी ।
सचामररमावाणी सव्यदक्षिणसेविता ।
आदिशक्तिरमेयाऽऽत्मा परमा पावनाकृतिः ।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ।
क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ।
त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ।
विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ।
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
लोपामुद्रार्चिता लीलाकॢप्तब्रह्माण्डमण्डला ।
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ।
अष्टमूर्तिरजाजेत्री लोकयात्राविधायिनी ।
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ।
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ।
भाषारूपा बृहत्सेना भावाभावविवर्जिता ।
सुखाराध्या शुभकरी शोभनासुलभागतिः ।
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।
राजत्कृपा राजपीठनिवेशितनिजाश्रिता ।
राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ।
साम्राज्यदायिनी सत्यसन्धा सागरमेखला ।
दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ।
देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ।
सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ।
कुलोत्तीर्णा भगाराद्ध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ।
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।
सनकादिसमाराद्ध्या शिवज्ञानप्रदायिनी ।
चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी ।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ।
मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ।
भवदावसुधावृष्टिः पापारण्यदवानला ।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ।
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।
रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ।
महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ।
क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ।
स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ।
दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।
महती मेरुनिलया मन्दारकुसुमप्रिया ।
वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ।
मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः ।
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ।
सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
कपर्दिनी कलामाला कामधुक् कामरूपिणी ।
कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ।
परञ्ज्योतिः परन्धाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ।
मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ।
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ।
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ।
मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ।
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ।
जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ।
सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ।
गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।
कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ।
कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनत्कनकताटङ्का लीलाविग्रहधारिणी ।
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ।
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ।
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ।
धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ।
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ।
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ।
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ।
सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ।
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्यपाटला ।
दक्षिणा दक्षिणाराध्या दरस्मेरमुखाम्बुजा ।
कौलिनी केवलाऽनर्घ्यकैवल्यपददायिनी ।
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ।
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ।
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ।
पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ।
धराधरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ।
बन्धूककुसुमप्रख्या बालालीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ।
सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ।
बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ।
दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ।
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा ।
अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ।
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ।
आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ।
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ।
श्री शिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।
ॐ ।
एवं श्रीललितादेव्याः नाम्नां साहस्रकं विदुः ।
If you cannot see the audio controls, listen/download the audio file here
HYMNS TO SRIMATA -TRIPURASUNDARI VEDAPADASTOTRAM
त्रिपुरसुन्दरीवेदपादस्तोत्रम्
वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।
यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥१॥
अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् ।
सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥
अकारादिक्षकारान्तवर्णावयवशालिनी ।
वीणापुस्तकहस्ताऽव्यात् प्रणो देवी सरस्वती ॥३॥
या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।
वाचि नर्त्तयतु क्षिप्रं मेधां देवी सरस्वती ॥४॥
उपास्यमाना विप्रेन्द्रैः संध्यासु च तिसृष्वपि ।
सद्यः प्रसीद मे मातः संध्याविद्ये सरस्वती ॥५॥
मन्दा निन्दालोलुपाऽहं स्वभावात्
एतत्स्तोत्रं पूर्यते किं मयेति ।
मा ते भीतिर्हे मते त्वादृशानाम्
एषा नेत्री राधसा सूनृतानाम् ॥६॥
तरङ्गभृ(/भ्रु)कुटीकोटिभङ्ग्या तर्जयते जराम् ।
सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥७॥
तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः ।
अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥८॥
कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।
द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥९॥
तत्र वप्रावलीलीलागगनोल्लङ्घिगोपुरम् ।
मातः कौतूहलं दद्यात्सु(/सं)हार्यं नगरं तव ॥१०॥
मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।
महापद्माटवीं वन्दे यशसा सम्परीवृताम् ॥११॥
तत्रैव चिन्तामणिधोरणार्चिभिः(णोर्चिभिः)
विनिर्मितं रोपितरत्नशृङ्गम् ।
भजे भवानीभवनावतंसम्
आदित्यवर्णं तमसः परस्तात् ॥१२॥
मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।
तत्र पश्यामि बुद्ध्या तद् अक्षरे परमे व्योमन् ॥१३॥
पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥१४॥
नानारत्नगुलुच्छालीकान्तिकिर्मीरि(/म्मीलि)तोदरम् ।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥१५॥
पर्यङ्कतल्पोपरि दर्शनीयं
सबाणचापाङ्कुशपाशपाणिम् ।
अशेषभूषारमणीयमीडे
त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥१६॥
जटारुणं चन्द्रकलाललामम्
उद्वेललावण्यकलाभिरामम् ।
कामेश्वरं कामशरासनाङ्कं
समस्तसाक्षिं तमसः परस्तात् ॥१७॥
तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।
सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥१८॥
चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।
नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥१९॥
शिवे नमन्निर्जरकुञ्जरासुर-
प्रतोलिकामौलिमरीचिवीचिभिः ।
इदं तव क्षालनजातसौभगं
चरणं नो लोके सुधितां दधातु ॥२०॥
कल्पस्यादौ कारणेशानपि त्रीन्
स्रष्टुं देवि त्रीन्गुणानादधानाम् ।
सेवे नित्यं श्रेयसे भूयसे त्वाम्
अजामेकां लोहितशुक्लकृष्णाम् ॥२१॥
केशोद्भूतैरद्भुतामोदपूरैः
आशाबृन्दं सान्द्रमापूरयन्तीम् ।
त्वामानम्य त्वत्प्रसादात्स्वयंभूः
अस्मान्मायी सृजते विश्वमेतत् ॥२२॥
अर्धोन्मीलद्यौवनोद्दामदर्पां
दिव्याकल्पैरर्पयन्तीं मयूखान् ।
देवि ध्यात्वा त्वां पुरा कैटभारिः
विश्वं बिभर्ति भुवनस्य नाभिः ॥२३॥
कह्लारश्रीमञ्जरीपुञ्जरीतिं
धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।
मूर्तिं ध्यात्वा शाश्वतीं भूतिमायन्
इन्द्रो राजा जगतो य ईशे ॥२४॥
देवतान्तरमन्त्रौघजपश्रीफलभूतया ।
जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥२५॥
पुंस्कोकिलकलक्वाणकोमलालापशालिनि ।
भद्राणि कुरु मे मातर्दुरितानि परासुव ॥२६॥
अन्तेवासिन्नस्ति चेत्ते मुमुक्षा
वक्ष्ये युक्तिं मुक्तसर्वैषणस्सन् ।
सद्भ्यः साक्षात् सुन्दरीं ज्ञप्तिरूपां
श्रद्धाभक्तिज्ञानयोगादवेहि ॥२७॥
षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा ।
कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥२८॥
शान्तो दान्तो देशिकेन्द्रं प्रणम्य
तस्यादेशात्तारकं मन्त्रतत्त्वम् ।
जानीते चेदम्ब धन्यः समानं
नातः परं वेदितव्यं हि किञ्चित् ॥२९॥
त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।
त्वामम्ब न विना किञ्चित् त्वयि सर्वं प्रतिष्ठितम् ॥३०॥
परागमद्रीन्द्रसुते तवाङ्घ्रि-
सरोजयोरम्ब दधामि मूर्ध्ना ।
अलंकृतं वेद(/देव)वधूशिरोभि-
र्यतो जातो भुवनानि विश्वा ॥३१॥
दुष्टान् दैत्यान् हन्तुकामां महर्षीन्
शिष्टानन्यान् पातुकामां कराब्जैः ।
अष्टाभिस्त्वां सायुधैर्भासमानां
दुर्गां देवीं शरणमहं प्रपद्ये ॥३२॥
देवि सर्वानवद्याङ्गीं त्वामनादृत्य ये क्रियाः ।
कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥३३॥
नाहं मन्ये दैवतं मान्यमन्यत्
त्वत्पादाब्जादम्बिके कुम्भजाद्याः ।
ये ध्यातारो भक्तिसंशुद्धचित्ताः
परामृतात् परिमुच्यन्ति सर्वे ॥३४॥
कुर्वाणोऽपि दुरारम्भान्
तव नामानि शांभवि ।
प्रजपन्नेति मायान्तम्
अतिमृत्युं तराम्यहम् ॥३५॥
कल्याणि त्वं कुन्दहासप्रकाशैः
अन्तर्ध्वान्तं नाशयन्ती क्षणेन ।
हन्तास्माकं ध्यायतां त्वत्पदाब्जम्
उच्चतिष्ठ महते सौभगाय ॥३६॥
तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।
अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ॥३७॥
मद्वंश्या ये दुराचारा ये च सन्मार्गगामिनः ।
भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥३८॥
श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं
पौण्ड्रं चापं पुष्पबाणान्दधानाम् ।
बन्धूकाभां भावयामि त्रिनेत्रां
तामग्निवर्णां तपसा ज्वलन्तीम् ॥३९॥
भवानि तव पादाब्जनिर्णेजनपवित्रिताः ।
भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥४०॥
चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।
कारणेशैस्त्रिभिस्साकं तद्विश्वमुपजीवति ॥४१॥
नो वा यागैर्नैव पूर्तादिकृत्यैः
नो वा जप्यैर्नो महद्भिस्तपोभिः ।
नो वा योगैः क्लेशकृद्भिः सुमेधा
निचाय्येमां शान्तिमत्यन्तमेति ॥४२॥
प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।
सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ॥४३॥
बन्धूकाभैर्भानुभिर्भासयन्ती
विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।
लावण्याब्धे(/धेः) सुन्दरि त्वं प्रसादाद्
आयुः प्रजां रयिमस्मासु धेहि ॥ ४४ ॥
कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।
त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परगतिः ॥४५॥
वाग्देवीति त्वां वदन्त्यम्ब केचित्
लक्ष्मीर्गौरीत्येवमन्ये वदन्ति ।
शश्वन्मातः प्रत्यगद्वैतरूपां
शंसन्ति केचिन्निविदो जनाः ॥४६॥
ललितेति सुधापूरमाधुरीचोरमम्बिके ।
तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥४७॥
ये संपन्नाः साधनैस्तैश्चतुर्भिः
शुश्रूषाभिर्देशिकं प्रीणयन्ति ।
सम्यग् विद्वान् शुद्धसत्त्वान्तराणां
तेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥
अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे ।
तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥४९॥
जगत्पवित्रि मामिकाम्
अपाहराशु दुर्ज्जराम् ।
प्रसीद मे दयाधुने(/नि)
प्रशस्तिमम्ब नस्कृधि ॥५०॥
कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।
मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥५१॥
भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।
अङ्कुशस्तव तं हन्याद्यश्च नो द्वे(/द्वि)षते जनः ॥५२॥
रे रे चित्त त्वं वृथा शोकसिन्धौ
मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै ।
देव्याः पादौ पूजयैकाक्षरेण
तत्ते पदं संग्रहेण ब्रवीम्योम् ॥५३॥
चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने ।
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥५४॥
तामेवाद्यां ब्रह्मविद्यामुपासे
मूर्तैर्वेदैः स्तूयमानां भवानीम् ।
हन्त स्वात्मत्त्वेन यां मुक्तिकामो
मत्वा धीरो हर्षशोकौ जहाति ॥५५॥
शरणं करवाण्यम्ब चरणं तव सुन्दरि ।
शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥५६॥
रत्नच्छत्रैश्चामरैर्दर्पणाद्यैः
चक्रेशानीं सर्वदोपचारयन्त्यः ।
योगिन्योऽन्याः शक्तयश्चाणिमाद्याः
यूयं पात स्वस्तिभिः सदा नः ॥५७॥
दरिद्रं मां विजानीहि
सर्वज्ञासि यतः शिवे ।
दूरीकृत्याशु दुरितम्
अथ नो वर्धया रयिम् ॥५८॥
महेश्वरि महामन्त्रकूटत्रयकलेबरे ।
कादिविद्याक्षरश्रेणीमुशन्तस्त्वा हवामहे ॥५९॥
मूलाधारादूर्ध्वमन्तश्चरन्तीं
भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।
पश्यन्तस्त्वां ये च तृप्तिं लभन्ते
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६०॥
मह्यं द्रुह्यन्ति ये मातः
त्वद्ध्यानासक्तचेतसे ।
तानंब सायकैरेभिः
अव ब्रह्मद्विषो जहि ॥६१॥
त्वद्भक्तानामम्ब शान्तैषणानां
ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।
पापीयानप्यावृतः स्वर्वधूभिः
शोकातिगो मोदते स्वर्गलोके ॥६२॥
सन्तु विद्या जगत्यस्मिन् संसारभ्रमहेतवः ।
भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्नुते ॥६३॥
विद्वन्मुख्यैः विद्रुमाभं विशाल-
श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।
चन्द्रोत्तंसं चिन्मयं वस्तु किञ्चिद्
विद्धि त्वमेतन्निहितं गुहायाम् ॥६४॥
न विस्मरामि चिन्मूर्त्तिमिक्षुकोदण्डशालिनीम् ।
मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥६५॥
चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां
हंस(?)ज्योत्स्नापूरहृष्यच्चकोराम् ।
यामाश्लिष्यन्मोदते देवदेवः
सा नो देवी सुहवा शर्म यच्छतु ॥६६॥
मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।
गृहाण पदमम्बाया एतदालम्बनं परम् ॥६७॥
का मे भीतिः का क्षतिः किं दुरापं
कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।
तत्त्वातीतामच्युतानन्ददात्रीं
देवीमहं निर्ऋतिं वन्दमानः ॥६८॥
चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।
ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥६९॥
तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।
तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥७०॥
आकर्णाकृष्टकामास्त्रसञ्जातं तापमम्ब मे ।
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥७१॥
कुर्वे गर्वेणापचारानपारान्
यद्यप्यम्ब त्वत्पदाब्जं तथापि ।
मन्ये धन्ये देवि विद्यावलम्बं
मातेव पुत्रं बिभृतास्वेनम् ॥७२॥
यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि(/षी) ॥७३॥
चक्रं सेवे तावकं सर्वसिद्ध्यै
श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।
नित्या मुद्रा शक्तयश्चाङ्गदेव्यो
यस्मिन्देवा अधि विश्वे निषेदुः ॥७४॥
सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे ।
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥७५॥
विद्युद्वल्लीकन्दलीं कल्पयन्तीं
मूर्त्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।
ध्यायन् हि त्वां जायते सार्वभौमो
विश्वा आशाः पृतनाः सञ्जयञ्जयन् ॥७६॥
अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।
अहो पतन्ति निरयेषु ये के चात्महनो जनाः ॥७७॥
सिन्दूराभैस्सुन्दरैरंशुबृन्दैः
लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।
हेरम्बाम्ब त्वां हृदा लंबते यः
तस्मै विशः स्वयमेवानमन्ते ॥७८॥
तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।
चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥७९॥
कण्ठात्कुण्डलिनीं नीत्वा
सहस्रारं शिवे तव ।
न पुनर्जायते गर्भे
सुमेधा अमृतोक्षितः ॥८०॥
त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।
पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥८१॥
तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।
स्वात्मत्वेन जगन्मत्त्वा ततो न विजुगुप्सते ॥८२॥
कदा वसुदलोपेते त्रिकोणनवकान्विते ।
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥८३॥
ह्रीमित्येकं तावकं वाचकार्णं
यज्जिह्वाग्रे देवि जागर्ति किञ्चित् ।
को वायं स्यात्कामकामस्त्रिलोक्यां
सर्वेऽस्मै देवाः बलिमावहन्ति ॥८४॥
नाकस्त्रीणां किन्नरीणां नृपाणाम्
अप्याकर्षि चेतसा चिन्तनीयम् ।
त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं
द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशम् ॥८५॥
नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।
भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति ॥८६॥
त्रिक(/का)लाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम् ।
यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट् ॥८७॥
दारिद्र्याब्धौ देवि मग्नोऽपि शश्वद्
वाचा याचे नाहमम्ब त्वदन्यम् ।
तस्मादस्मद्वाञ्छितं पूरयैतद्
उषासानक्ता सुदुघेव धेनुः ॥८८॥
यो वा यद्यत्कामनाकृष्टचित्तः
स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।
कल्याणानामालयः कालयोगात्
तं तं लोकं जयते तांश्च कामान् ॥८९॥
साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।
तथा देव्यात्मनोरैक्यम् एतावदनुशासनम् ॥९०॥
हस्ताम्भोजप्रोल्लसच्चामराभ्यां
श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम्।
श्रीसाम्राज्ञि त्वां सदालोकयेयं
सदा सद्भिः सेव्यमानां निगूढाम् ॥९१॥
इष्टानिष्टप्राप्तिविच्छित्तिहेतुः
स्तोतुं वाचां कॢप्तिरित्येव मन्ये ।
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं
न चक्षुषा गृह्यते नापि वाचा ॥९२॥
हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।
देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥९३॥
यस्ते राकाचन्द्रबिम्बासनस्थां
पीयूषाब्धिं कल्पयन्तीं मयूखैः ।
मूर्त्तिं भक्त्या ध्यायते हृत्सरोजे
न तस्य रोगो न जरा न मृत्युः ॥९४ ॥
तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते
मौलिश्रेण्या भूभुजस्तं नमन्ति ।
यः स्तौति त्वामम्ब चिद्वल्लिवाचा(?)
तं धीरासः कवय उन्नयन्ति ॥९५॥
वैरिञ्चौ(/ञ्चो)घैर्विष्णुरुद्रेन्द्रबृन्दैः
दुर्गाकालीभैरवीशक्तिसङ्घैः ।
यन्त्रेशि त्वं वर्तसे स्तूयमाना
न तत्र सूर्यो भाति न चन्द्रतारकम् ॥९६॥
भूत्यै भवानि त्वां वन्दे
सुराः शतमखादयः ।
त्वामानम्य समृद्धाः स्युः
आ ये धामानि दिव्यानि ॥९७॥
पुष्पवत्फुल्लताटङ्कां
प्रातरादित्यपाटलाम् ।
यस्त्वामन्तः स्मरत्यम्ब
तस्य देवा असन्वशे ॥९८॥
वश्ये विद्रुमसङ्काशां
विद्यायां विशदप्रभाम् ।
त्वामम्ब भावयेद्भूत्यै
सुवर्णां हेममालिनीम् ॥९९॥
वामाङ्क(/ङ्ग)गस्थामीशितुर्दीप्यमानां
भूषाबृन्दैरिन्दुरेखावतंसाम् ।
यस्त्वां पश्यन् सन्ततं(/सततं) नैव तृप्तः
तस्मै च देवि वषडस्तु तुभ्यम् ॥१००॥
नवनीपवनीवासलालसोत्तम(/र)मानसे ।
शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१॥
भक्त्याऽभक्त्या वापि पद्यावसान-
श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।
तस्य क्षिप्रं त्वत्प्रसादेन मातः
सत्याः सन्तु यजमानस्य कामाः ॥१०२॥
बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।
आनन्दमादिमदम्पत्योरिमा वर्धन्तु वाङ्गिरः ॥१०३॥
माधुरीसौरभावासचापसायकधारिणीम् ।
देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये ॥१०४॥
स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥१०५॥
यः पठति स्तुतिमेतां
विद्यावन्तं तमम्ब धनवन्तम् ।
कुरु देवि यशस्वन्तं
वर्चस्वन्तं मनुष्येषु ॥१०६॥
ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः ।
तेभ्यो देहि श्रियं विद्यामुद्वर्चम् उत्तनूबलम् ॥१०७॥
त्वामेवाहं स्तौमि नित्यं प्रणौमि
श्रीविद्येशां वच्मि सञ्चिन्तयामि ।
अध्यास्ते या विश्वमाता विराजो
हृत्पुण्डरीकं विरजं विशुद्धम् ॥१०८॥
शङ्करेण रचितं स्तवोत्तमं
यः पठेज्जगति भक्तिमान्नरः ।
तस्य सिद्धिरतुला भवेद्ध्रुवा
सुन्दरी च सततं प्रसीदति ॥१०९॥
यत्रैव यत्रैव मनो मदीयं
तत्रैव तत्रैव तव स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं
तत्रैव तत्रैव पदद्वयं ते ॥११०॥
॥ श्रीशङ्करभवत्पादविरचितं त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥