HYMNS TO SHIVA – SHIVASHTAKAM (SANKARACHARYAKRITAM)

शिवाष्टकम्
   (श्री शंकराचर्यकृतम्)
तस्मै नमः परमकारणकारणाय
दीप्तोज्ज्वलज्वलितपिङ्गललोचनाय ।
नागेन्द्रहारकृतकुण्डलभूषणाय
ब्रह्मेन्द्रविष्णुवरदाय नमः शिवाय ॥ १ ॥
श्रीमत्प्रसन्नशशिपन्नगभूषणाय
शैलेन्द्रजावदनचुम्बितलोचनाय ।
कैलासमन्दरमहेन्द्र निकेतनाय
लोकत्रयार्तिहरणाय नमः शिवाय ॥ २ ॥
पद्मावदातमणिकुण्डलगोवृषाय
कृष्णागरुप्रचुरचन्दनचर्चिताय ।
भस्मानुषक्तविकचोत्पलमल्लिकाय
नीलाब्जकण्ठसदृशाय नमः शिवाय ॥ ३ ॥
लम्बत्सपिङ्गलजटामुकुटोत्कटाय
दंष्ट्राकरालविकटोत्कटभैरवाय ।
व्याघ्राजिनाम्बरधराय मनोहराय
त्रैलोक्यनाथनमिताय नमः शिवाय ॥ ४ ॥
दक्षप्रजापतिमहामखनाशनाय
क्षिप्रं महात्रिपुरदानवघातनाय ।
ब्रह्मोर्जितोर्ध्वगकरोटिनिकृन्तनाय
योगाययोगनमिताय नमः शिवाय ॥ ५ ॥
संसारसृष्टिघटनापरिवर्तनाय
रक्षःपिशाचगणसिद्धसमाकुलाय ।
सिद्धोरगग्रहगणेन्द्रनिषेविताय
शार्दूलचर्मवसनाय नमः शिवाय ॥ ६ ॥
भस्माङ्गरागकृतरूपमनोहराय
सौम्यावदातवनमाश्रितमाश्रिताय ।
गौरीकटाक्षनयनार्धनिरीक्षणाय
गोक्षीरधारधवलाय नमः शिवाय ॥ ७ ॥
आदित्यसोमवरुणानिलसेविताय
यज्ञाग्निहोत्रवरधूमनिकेतनाय ।
ऋक्सामवेदमुनिभिः स्तुतिसंयुताय
गोपाय गोपनमिताय नमः शिवाय ॥ ८ ॥
शिवाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९ ॥
      

     

HYMNS TO SHIVA – DWADASA JYOTIRLINGANI

            द्वादशज्योतिर्लिङ्गानि

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनं ।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥ १ ॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरं ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥ २ ॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥ ३ ॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥ ४ ॥

               ***          

 Click here for sri Ramachander’s English translation  

HYMNS TO SHIVA – SHIVAPANCHAKSHARA STOTRAM

शिवपञ्चाक्षरस्तोत्रम्
    (श्री शंकराचर्यकृतं)
नागेन्द्रहाराय त्रिलोचनाय
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगंबराय
तस्मै नकाराय नमश्शिवाय ॥ १ ॥
मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथ महेश्वराय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय
तस्मै मकाराय नमश्शिवाय ॥ २ ॥
शिवाय गौरीवदनाब्जवृन्द-
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठायवृषध्वजाय
तस्मै शिकाराय नमश्शिवाय ॥ ३ ॥
वसिष्ठकुंभोद्भवगौतमार्य-
मुनीन्द्रदेवार्चित शेखराय ।
चन्द्रार्क वैश्वानरलोचनाय
तस्मै वकाराय नमश्शिवाय ॥ ४ ॥
यक्षस्वरूपाय जटाधराय
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगंबराय
तस्मै यकाराय नमश्शिवाय ॥ ५ ॥
पञ्चाक्षरमिदं पुण्यं
यः पठेत् शिवसन्निधौ ।
शिवलोकमवाप्नोति
शिवेन सह मोदते ॥ ६ ॥

    
                      ***   



HYMNS TO SHIVA – SHIVAMANGALASHTAKAM

शिवमङ्गलाष्टकम्
 
भवाय चन्द्रचूडाय
निर्गुणाय गुणात्मने ।
कालकालाय रुद्राय
नीलग्रीवाय मङ्गलम् ॥ १
वृषारूढाय भीमाय
व्याघ्रचर्माम्बराय च ।
पशूनां पतये
तुभ्यं गौरीकान्ताय मङ्गलम्
॥ २ ॥
भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने ।
रुद्राक्षमालाभूषाय व्योमकेशाय
मङ्गलम् ॥ ३ ॥
सूर्यचन्द्राग्निनेत्राय नमः
कैलासवासिने ।
सच्चिदानन्दरूपाय प्रमथेशाय
मङ्गलम् ॥ ४ ॥
मृत्युंजयाय सांबाय
सृष्टिस्थित्यन्तकारिणे ।
त्र्यंबकाय सुशान्ताय
त्रिलोकेशाय मङ्गलम् ॥ ५
गंगाधराय सोमाय
नमो हरिहरात्मने ।
उग्राय त्रिपुरघ्नाय
वामदेवाय मङ्गलम् ॥ ६
सद्योजाताय शर्वाय
दिव्यज्ञानप्रदायिने ।
ईशानाय नमस्तुभ्यं
पञ्चवक्त्राय मङ्गलम् ॥ ७
सदाशिवस्वरूपाय नमस्तत्पुरुषाय च ।
अघोराय
च घोराय
महादेवाय मङ्गलम् ॥ ८
मङ्गलाष्टकमेतद्वै शंभोर्यः
कीर्तयेद्दिने ।
तस्य मृत्युभयं
नास्ति रोगपीडाभयं तथा
॥ ९ ॥

         

             ***

HYMNS TO SHIVA – ARTATRANAPARAYANA GANGADHARASHTAKAM

आर्तत्राणपरायणगंगाधराष्टकम्
क्षीराम्भोनिधिमन्थनोद्भवविषात् संदह्यमानान्
सुरान्
ब्रह्मादीनवलोक्य यः
करुणया हालाहलाख्यं विषम्
निश्शंकं निजलीलया
कबलयन् लोकान् ररक्षादरात्
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ १ ॥
क्षीरं स्वादु
निपीय मातुलगृहे गत्वा
स्वकीयं गृहं
क्षीरालाभवशेन खिन्नमनसे
घोरं तपः कुर्वते ।
कारुण्यादुपमन्यवे निरवधिं
क्षीरांबुधिं दत्तवान्
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ २ ॥
मृत्युं वक्षसि
ताडयन् निजपदध्यानैकभक्तं मुनिं
मार्कण्डेयमपालयत् करुणया
लिङ्गाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं
रथांगं ददौ
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ३ ॥
व्यूढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं
दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा ।
पार्थं रक्षितवान्
अमोघविषयं दिव्यास्त्रमुद्बोधयन्
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ४ ॥
बालं शैवकुलोद्भवं
परिहसत् स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव
मूर्ध्नि पुष्पनिचयं दातुं
समुद्यत्करम् ।
दृष्ट्वाऽऽनम्य विरिञ्चिरम्यनगरे पूजां त्वदीयं भजन्
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ५ ॥
संत्रस्तेषु पुरा
पुरासुरभयात् इन्द्रादिबृन्दारके-
ष्वारूढो धरणीरथं
श्रुतिहयं कृत्वा मुरारिं शरम्
रक्षन् यः
कृपया समस्तविबुधान् जित्वा
सुरारीन् क्षणात्
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ६ ॥
श्रौतस्मार्तपथे पराङ्मुखमपि
प्रोद्यन्महापातकं
विश्वातीतमपि त्वमेव
गतिरित्यालापयन्तं सकृत् ।
रक्षन् यः
करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ७ ॥
गांगं वेगमवाप्य
मान्यविबुधैः वोढुं पुरा याचितो
दृष्ट्वा भक्तभगीरथेन
विनुतो रुद्रो जटामण्डले ।
कारुण्यादवनीतले सुरनदीं
आपूरयन् पावनीं
आर्तत्राणपरायणः स
भगवान् गंगाधरो मे गतिः
॥ ८ ॥

 

              

HYMNS TO SHIVA – SIVASANKARA STOTRAM

शिवशंकरस्तोत्रम्

अतिभीषणकटुभाषणयमकिंकरपटली-
कृतताडनपरिपीडनमरणागतसमये ।
उमया सह मम चेतसि यमशासन निवसन्
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ १ ॥

असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः
परदूषणपरिमोक्षण कृतपातकविकृतेः ।
शमनाननभवकानननिरतेर्भव (?) शरणं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ २ ॥

विषयाभिधबडिशायुधपिशितायितसुखतो
मकरायितगतिसंसृतिकृतसाहसविपदम् (?) ।
परमालय परिपालय परितापितमनिशं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ३ ॥

दयिता मम दुहिता मम जननी मम जनको
मम कल्पितमतिसन्ततिमरुभूमिषु निरतम् ।
गिरिजासख जनितासुखवसतिं कुरु सुखिनं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ४ ॥

जनिनाशन मृतिमोचन शिवपूजननिरतेः
अभितोऽदृशमिदमीदृशमहमावह (?) इति हा ।
गजकच्छपजनितश्रम (?) विमलीकुरु सुमतिं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ५ ॥

त्वयि तिष्ठति सकलस्थितिकरुणात्मनि हृदये
वसुमार्गणकृपणेक्षणमनसा शिवविमुखम् ।
अकृताह्निकमसुपोषकमवताद् गिरिसुतया
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ६ ॥

पितरावतिसुखदाविति शिशुना कृतहृदयौ
शिवया हृतभयके हृदि जनितं तव सुकृतम् ।
इति मे शिव हृदयं भव भवतात् तव दयया
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ७ ॥

शरणागतभरणाश्रितकरुणामृतजलधे
शरणं तव चरणौ शिव मम संसृतिवसतेः ।
परिचिन्मय (?) जगदामयभिषजे नतिरवतात्
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ८ ॥

विविधाधिभिरतिभीतिभिरकृताधिकसुकृतं
शतकोटिषु नरकादिषु हतपातकविवशम् ।
मृड मामव सुकृती भव शिवया सह कृपया
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ ९ ॥

कलिनाशन गरलाशन कमलासनविनुत
कमलापतिनयनार्चित करुणाकृतिचरण ।
करुणाकर मुनिसेवित भवसागरहरण
हर शंकर शिव शंकर हर मे हर दुरितम् ॥ १० ॥

विजितेन्द्रियविबुधार्चितविमलाम्बुजचरण
भवनाशन भयनाशन भजिताङ्गितहृदय ।
फणिभूषण मुनिवेषण मदनान्तक शरणं
शिव शङ्कर शिव शङ्कर हर मे हर दुरितम् ॥ ११ ॥

त्रिपुरान्तक त्रिदशेश्वर त्रिगुणात्मक शम्भो
वृषवाहन विषदूषण पतितोद्धर शरणम् ।
कनकासन कनकाम्बर कलिनाशन शरणं
शिव शङ्कर शिव शङ्कर हर मे हर दुरितम् ॥ १२॥

HYMNS TO SHIVA – CHIDAMBARESWARA STOTRAM

श्रीचिदम्बरेश्वरस्तोत्रम्

कृपासमुद्रं सुमुखं त्रिनेत्रं
जटाधरं पार्वतीवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं
चिदम्बरेशं हृदि भावयामि ॥ १ ॥

 

वाचामतीतं फणिभूषणाङ्गं
गणेशतातं धनदस्य मित्रम् ।
कन्दर्पनाशं कमलोत्पलाक्षं
चिदम्बरेशं हृदि भावयामि ॥ २ ॥

 

रमेशवन्द्यं रजताद्रिनाथं
श्रीवामदेवं भवदुःखनाशम् ।
रक्षाकरं राक्षसपीडितानां
चिदम्बरेशं हृदि भावयामि ॥ ३ ॥

 

देवादि(/धि)देवं जगदेकनाथं
देवेशवन्द्यं शशिखण्डचूडम् ।
गौरीसमेतं कृतविघ्नदक्षं
चिदम्बरेशं हृदि भावयामि ॥ ४ ॥

 

वेदान्तवेद्यं सुरवैरिविघ्नं
शुभप्रदं भक्तिमदन्तराणाम् ।
कालान्तकं श्रीकरुणाकटाक्षं
चिदम्बरेशं हृदि भावयामि ॥ ५ ॥

 

हेमाद्रिचापं त्रिगुणात्मभावं
गुहात्मजं व्याघ्रपुरीशमाद्यम् ।
श्मशानवासं वृषवाहनस्थं
चिदम्बरेशं हृदि भावयामि ॥ ६ ॥

 

आद्यन्तशून्यं त्रिपुरारिमीशं
नन्दीशमुख्यस्तुतवैभवाढ्यम् ।
समस्तदेवैः परिपूजिताङ्घ्रिं
चिदम्बरेशं हृदि भावयामि ॥ ७ ॥

 

तमेव भान्तं ह्यनुभाति सर्वम्
अनेकरूपं परमार्थमेकम् ।
पिनाकपाणिं भवनाशहेतुं
चिदम्बरेशं हृदि भावयामि ॥ ८ ॥

 

विश्वेश्वरं नित्यमनन्तमाद्यं
त्रिलोचनं चन्द्रकलावतंसम् ।
पतिं पशूनां हृदि सन्निविष्टं
चिदम्बरेशं हृदि भावयामि ॥ ९ ॥

 

विश्वाधिकं विष्णुमुखैरुपास्यं
त्रिलोचनं पञ्चमुखं प्रसन्नम् ।
उमापतिं पापहरं प्रशान्तं
चिदम्बरेशं हृदि भावयामि ॥ १० ॥

 

कर्पूरगात्रं कमनीयनेत्रं
कंसारिमित्रं कमलेन्दुवक्त्रम् ।
कन्दर्पगात्रं कमलेशमित्रं
चिदम्बरेशं हृदि भावयामि ॥ ११ ॥

 

विशालनेत्रं परिपूर्णगात्रं
गौरीकलत्रं हरिदम्बरेशम् ।
कुबेरमित्रं जगतः पवित्रं
चिदम्बरेशं हृदि भावयामि ॥ १२ ॥

 

कल्याणमूर्तिं कनकाद्रिचापं
कान्तासमाक्रान्तनिजार्द्धदेहम् ।
कपर्दिनं कामरिपुं पुरारिं
चिदम्बरेशं हृदि भावयामि ॥ १३ ॥

 

कल्पान्तकालाहितचण्डनृत्तं
समस्तवेदान्तवचोनिगूढम् ।
अयुग्मनेत्रं गिरिजासहायं
चिदम्बरेशं हृदि भावयामि ॥ १४ ॥

 

दिगम्बरं शङ्खसिताल्पहासं
कपालिनं शूलिनमप्रमेयम् ।
नगात्मजावक्त्रपयोजसूर्यं
चिदम्बरेशं हृदि भावयामि ॥ १५ ॥

 

सदाशिवं सत्पुरुषैरनेकैः
सदार्चितं सामशिरस्सु गीतम् ।
वैय्याघ्रचर्माम्बरमुग्रमीशं
चिदम्बरेशं हृदि भावयामि ॥ १६ ॥

 

चिदम्बरस्य स्तवनं पठेद्यः
प्रदोषकालेषु पुमान् स धन्यः ।
भोगानशेषाननुभूय भूयः
सायुज्यमप्येति चिदम्बरस्य ॥ १७ ॥

 

HYMNS TO SHIVA – NATARAJA DHYANAM

नटराजध्यानम्
सप्तार्णवपरिक्षिप्तां द्वीपैः
सप्तभिरन्विताम् ।
पञ्चाशत्कॊटि विस्तीर्णां
ध्यायेत्सर्वां सभां महीम् ॥
१ ॥
तस्याश्च हृदयाम्भोजे
मातृकाक्षरकेसरम् ।
ध्यायेदष्टदलं धीमान्
महाहृदयमत्र च ॥ २
तस्य मध्ये
त्रिकोणे तु तरुणेन्दुशिखामणिम् ।
चारुचूडजटापाशं चलद्भोगीन्द्रकुण्डलम् ॥ ३ ॥
त्रिपुण्ड्रविलसत्फालं चन्द्रार्कानललोचनम् ।
वामभागस्थितां देवीं
वीक्षयन्तमपांगतः ॥ ४
अधरोल्लङ्घनाकारसंजिहानस्मितांकुरम् ।
कस्तूरिकासितोद्दामकालकूटलसद्गलम् ॥
५ ॥
महाडमरुवाद्यूद्‌र्ध्वदक्षपाणिसरोरुहम् ।
तदन्यकरपद्मान्तचलदुत्थितपावकम् ॥
६ ॥
दक्षाधःकरपद्मेन हरन्तं
प्राणिनां भयम् ।
विक्षिप्तान्यकरं तिर्यक्
कुञ्चितेनाङ्घ्रिणाऽधमम् ॥ ७
वामेतरप्रकोष्ठान्तर्नृत्यत् फणधरेश्वरम्
कल्पब्रह्मकपालानां मालया
लम्बमानया ॥ ८ ॥
स्वतन्त्रमात्मनो रूपं
आचक्षाणं स्वभावतः
व्याघ्रचर्माम्बरधरं कटिसूत्रितपन्नगम्  ।
दक्षपादाब्जविन्यासात् अधःकृततमोगुणम् ॥ ९ ॥
         
भस्मोद्धूलितसर्वांगं परमानन्दताण्डवम् ।
एवं ध्यायेत्
पुरेशानं पुण्डरीकपुरेश्वरम् ॥
१० ॥

         

HYMNS TO SHIVA – MAHAMRITYUNJAYA STOTRAM

महामृत्युञ्जयस्तोत्रम्
           
(मार्कण्डेयकृतम्)
 
रुद्रं पशुपतिं
स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १ ॥
कालकण्ठं कालमूर्तिं
कलाग्निं कालनाशनम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ २ ॥
नीलकन्ठं विरूपाक्षं
निर्मलं निरुपद्रवम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ३ ॥
वामदेवं महादेवं
लोकनाथं जगद्गुरुम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ४ ॥
देवदेवं जगन्नाथं
देवेशं वृषभध्वजम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ५ ॥
त्र्यक्षं चतुर्भुजं
शान्तं जटामकुटधारिणम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ६ ॥
भस्मोद्धूलितसर्वांगं नागाभरणभूषितम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ७ ॥
अनन्तमव्ययं शान्तं
अक्षमालाधरं हरम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ८ ॥
आनन्दं परमं
नित्यं कैवल्यपददायिनम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ९ ॥
अर्द्धनारीश्वरं देवं
पार्वतीप्राणवल्लभम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १० ॥
प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ ११ ॥
व्योमकेशं विरूपाक्षं
चन्द्रार्द्धकृतशेखरम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १२ ॥
गंगाधरं शशिधरं
शंकरं शूलपाणिनम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १३ ॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १४ ॥
कल्पायुर्देहि मे
नित्यं यावदायुररोगताम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १५ ॥
शिवेशानं महादेवं
वामदेवं सदाशिवम् ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १६ ॥
उत्पत्तिस्थितिसंहारकर्त्तारं ईश्वरं
गुरुं ।
नमामि शिरसा
देवं किं नो मृत्युः
करिष्यति ॥ १७ ॥
मार्कण्डेयकृतं स्तोत्रं
यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं
नास्ति नाग्निचोरभयं क्वचित्
॥ १८ ॥
शतावृत्तं प्रकीर्त्तव्यं संकटॆ कष्टनाशनम् ।
शुचिर्भूत्वा पठेत्स्तॊत्रं
सर्वसिद्धिप्रदायकम् ॥ १९
मृत्युञ्जय महादेव
त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं
कर्मबन्धनैः ॥ २० ॥
तावकस्त्वद्गतप्राणः त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य
देवेशं त्र्यंबकाख्यममुं जपेत्
॥ २१ ॥
नमः शिवाय
सांबाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां
पतये नमः  ॥ २२ ॥

           

                ***

HYMNS TO SHIVA – CHANDRASEKHARA ASHTAKAM

चन्द्रशेखराष्टकम्

( मार्कण्डेयकृतम् )

संसारसर्पदष्टानां जन्तूनामविवेकिनां
चन्द्रशेखरपादाब्जस्मरणं परमौषधम् ॥ १ ॥

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम् ।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम् ॥ २ ॥

रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनं
शिञ्जिनीकृतपन्नगेश्वरमच्युताननसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ३ ॥

पंचपादपपुष्पगन्धपदाम्बुजद्वयशोभितं
फाललोचनजातपावकदग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ४ ॥

मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं
पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम् ।
देवसिन्धुतरंगशीकरसिक्तशुभ्रजटाधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ५ ॥

यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ६ ॥

कुण्डलीकृतकुण्डलीश्वरमण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ७ ॥

भेषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तिफलप्रदं सकलाघसङ्घनिबर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ८ ॥

भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम् ।
सोमवारिनभूहुताशनसोमपानिलखाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ ९ ॥

विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहरन्तमपि प्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ १० ॥

मृत्युभीतमृकण्डुसूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् ।
पूर्णमायुररोगतामखिलार्थसम्पदमादरात्
चन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ ११ ॥

Click here for sri Ramachander’s English translation