HYMNS TO SRIRAM – SRI SITARAMASHTAKAM

श्रीसीतारामाष्टकम्
ब्रह्ममहेन्द्रसुरेन्द्रमरुद्गणरुद्रमुनीन्द्रगणैरतिरम्यं
क्षीरसरित्पतितीरमुपेत्य नुतं
हि सतामवितारमुदारम् ।
भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ १ ॥
पद्मदलायतलोचन हे रघुवंशविभूषण
देव दयालो
निर्मलनीरदनीलतनोऽखिललोकहृदम्बुजभासक
भानो ।
कोमलगात्र पवित्रपदाब्जरजःकणपावितगौतमकान्त
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ २ ॥
पूर्ण परात्पर पालय मामतिदीनमनाथमनन्तसुखाब्धे
प्रावृडदभ्रतडित्सुमनोहरपीतवराम्बर
राम नमस्ते ।
कामविभञ्जन कान्ततरानन काञ्चनभूषण
रत्नकिरीट
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ३ ॥
दिव्यशरच्छशिकान्तिहरोज्ज्वलमौक्तिकमालविशालसुमौले
कोटिरविप्रभ चारुचरित्रपवित्र
विचित्रधनुःशरपाणे ।
चण्डमहाभुजदण्डविखण्डितराक्षसराजमहागजदण्डं
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ४ ॥
दोषविहिंस्रभुजङ्गसहस्रसुरोषमहानलकीलकलापे
जन्मजरामरणोर्मिभये मदमन्मथनक्रविचक्रभवाब्धौ
दुःखनिधौ च चिरं पतितं कृपयाद्य
समुद्धर राम ततो माम्
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ५ ॥
संसृतिघोरमदोत्कटकुञ्जर तृट्क्षुदनीरदपिण्डिततुण्डं
दण्डकरोन्मथितं च रजस्तम‌उन्मदमोहपदोज्झितमार्तम्
दीनमनन्यगतिं कृपणं शरणागतमाशु
विमोचय मूढम्
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ६ ॥
जन्मशतार्जितपापसमन्वितहृत्कमले
पतिते पशुकल्पे
हे रघुवीर महारणधीर दयां कुरु
मय्यतिमन्दमनीषे ।
त्वं जननी भगिनी च पिता मम
तावदसि त्ववितापि कृपालो
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ७ ॥
त्वां तु दयालुमकिञ्चनवत्सलमुत्पलहारमपारमुदारं
राम विहाय कमन्यमनामयमीश जनं
शरणं ननु यायाम् ।
त्वत्पदपद्ममतः श्रितमेव मुदा
खलु देव सदैव ससीत
त्वां भजतो रघुनन्दन देहि दयाघन
मे स्वपदाम्बुजदास्यम् ॥ ८ ॥
यः करुणामृतसिन्धुरनाथजनोत्तमबन्धुरजोत्तमकारी
भक्तभयोर्मिभवाब्धितरिः सरयूतटिनीतटचारुविहारी
तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं
वै
यस्तु पठेदमरः स नरो लभतेऽच्युतरामपदाम्बुजदास्यम्
॥ ९ ॥
                   ***

                                   

HYMNS TO RAMA – RAMASHTAKAM

रामाष्टकम्
कृतार्तदेववन्दनं दिनेशवंशनन्दनम्
सुशोभिभालचन्दनं नमामि राममीश्वरम्
॥ १ ॥
मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम्
महाधनुर्विदारकं नमामि राममीश्वरम्
॥ २ ॥
स्वतातवाक्यकारिणं तपोवने विहारिणम्
करे सुचापधारिणं नमामि राममीश्वरम्
॥ ३ ॥
कुरङ्गमुक्तसायकं जटायुमोक्षदायकम्
प्रविद्धकीशनायकं नमामि राममीश्वरम्
॥ ४ ॥
प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम्
दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम्
॥ ५ ॥
विदीनदेवहर्षणं कपीप्सितार्थवर्षणम्
स्वबन्धुशोककर्षणं नमामि राममीश्वरम्
॥ ६ ॥
गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम्
कृतास्तमोहलक्षणं नमामि राममीश्वरम्
॥ ७ ॥
हृताखिलाचलाभरं स्वधामनीतनागरम्
जगत्तमोदिवाकरं नमामि राममीश्वरम्
॥ ८ ॥
इदं समाहितात्मना नरो रघूत्तमाष्टकम्
पठन्निरन्तरं भयं भवोद्भवं
न विन्दते ॥ ९ ॥
             ***

HYMNS TO SRIRAM – INDRA KRITA SRIRAMA STOTRAM

 इन्द्रकृतश्रीरामस्तोत्रम्
           
(अध्यात्मरामायणान्तर्गतम्)
इन्द्र उवाच
भजेऽहं सदा राममिन्दीवराभं
भवारण्यदावानलाभाभिधानम् ।
भवानीहृदा भावितानन्दरूपं
भवाभावहेतुं भवादिप्रपन्नम्
॥ १ ॥
सुरानीकदुःखौघनाशैकहेतुं
नराकारदेहं निराकारमीड्यम्
परेशं परानन्दरूपं वरेण्यं
हरिं राममीशं भजे भारनाशम्
॥ २ ॥
प्रपन्नाखिलानन्ददोहं प्रपन्नं
प्रपन्नार्तिनिःशेषनाशाभिधानम्
तपोयोगयोगीशभावाभिभाव्यं
कपीशादिमित्रं भजे राममित्रम्
॥ ३ ॥
सदा भोगभाजां सुदूरे विभान्तं
सदा योगभाजामदूरे विभान्तम्
चिदानन्दकन्दं सदा राघवेशं
विदेहात्मजानन्दरूपं प्रपद्ये
॥ ४ ॥
महायोगमायाविशेषानुयुक्तो
विभासीश लीलानराकारवृत्तिः
त्वदानन्दलीलाकथापूर्णकर्णाः
सदानन्दरूपा भवन्तीह लोके ॥
५ ॥
अहं मानपानाभिमत्तप्रमत्तो
न वेदाखिलेशाभिमानाभिमानः ।
इदानीं भवात्पादपद्मप्रसादात्
त्रिलोकाधिपत्याभिमानो विनष्टः
॥ ६ ॥
स्फुरद्रत्नकेयूरहाराभिरामं
धराभारभूतासुरानीकदावम् ।
शरच्चन्द्रवक्त्रं लसद्पद्मनेत्रं
दुरावारपारं भजे राघवेशम् ॥
७ ॥
सुराधीशनीलाभ्रनीलाङ्गकान्तिं
विराधादिरक्षोवधाल्लोकशान्तिम्
किरीटादिशोभं पुरारातिलाभं
भजे रमचन्द्रं रघूणामधीशम्
॥ ८ ॥
लसच्चन्द्रकोटिप्रकाशादिपीठे
समासीनमङ्के समाधाय सीताम्
स्फुरद्धेमवर्णां तडित्पुञ्जभासां
भजे रामचन्द्रं निवृत्तार्तितन्द्रम्
॥ ९ ॥
         
***

          

HYMNS TO SRIRAM – JATAYU KRITA SRIRAMA STOTRAM

     
 जटायुकृतश्रीरामस्तोत्रम्
        
(अध्यात्मरामायणान्तर्गतम्)
 जटायुरुवाच
 अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम् ।
उपरमपरमं परात्मभूतं सततमहं
प्रणतोऽस्मि रामचन्द्रम् ॥ २ ॥
निरवधिसुखमिन्दिराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदुःखम्
नरवरमनिशं नतोऽस्मि रामं वरदमहं
वरचापबाणहस्तम् ॥ २ ॥
त्रिभुवनकमनीयरूपमीड्यं रविशतभासुरमीहितप्रदानम्
शरणदमनिशं सुरागमूले कृतनिलयं
रघुनन्दनं प्रपद्ये ॥ ३ ॥
भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं
दयालुम् ।
दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं
हरिं प्रपद्ये ॥ ४ ॥
अविरतभवभावनातिदूरं भवविमुखैर्मुनिभिस्सदैव
दृश्यम् ।
भवजलधिसुतारणाङ्घ्रिपोतं शरणमहं
रघुनन्दनं प्रपद्ये ॥ ५ ॥
गिरिशगिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम्
सुरवरदनुजेन्द्रसेविताङ्घ्रिं
सुरवरदं रघुनायकं प्रपद्ये ॥ ६ ॥
परधनपरदारवर्जितानां परगुणभूतिषु
तुष्टमानसानाम् ।
परहितनिरतात्मनां सुसेव्यं
रघुवरमम्बुजलोचनं प्रपद्ये ॥ ७ ॥
स्मितरुचिरविकासिताननाब्जमतिसुलभं
सुरराजनीलनीलम् ।
सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं
प्रपद्ये ॥ ८ ॥
हरिकमलजशंभुरूपभेदात्त्वमिह
विभासि गुणत्रयानुवृत्तः ।
रविरिव जलपूरितोदपात्रेष्वमरपतिस्तुतिपात्रमीशमीडे
॥ ९ ॥
रतिपतिशतकोटिसुन्दराङ्गं शतपथगोचरभावनाविदूरम्
यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं
प्रभुं प्रपद्ये ॥ १० ॥
इत्येवं स्तुवतस्तस्य प्रसन्नोऽभूद्रघूत्तमः
उवाच गच्छ भद्रं ते मम विष्णोः
परं पदम् ॥ १२ ॥
शृणोति य इदं स्तोत्रं लिखेद्वा
नियतः पठेत् ।
स याति मम सारूप्यं मरणे मत्स्मृतिं
लभेत् ॥ १३ ॥
इति राघवभाषितं तदा श्रुतवान्
हर्षसमाकुलो द्विजः
रघुनन्दनसाम्यमास्थितः प्रययौ
ब्रह्मसुपूजितं पदम् ॥ १४ ॥

  

HYMNS TO SRIRAM – BRAHMA DEVA KRITA SRIRAMA STUTI

ब्रह्मदेवकृता श्रीरामस्तुतिः
 
  (अध्यात्मरामायणांतर्गतम्)
वन्दे देवं विष्णुमशेषस्थितिहेतुं
त्वामध्यात्मज्ञानिभिरन्तर्हृदि
भाव्यम् ।
हेयाहेयद्वन्द्वविहीनं परमेकं
सत्तामात्रं सर्वहृदिस्थं दृशिरूपम्
॥ १ ॥
प्राणापानौ निश्चयबुद्ध्या
हृदि रुद्ध्वा
छित्त्वा सर्वं संशयबन्धं विषयौघान्
पश्यन्तीशं यं गतमोहा यतयस्तं
वन्दे रामं रत्नकिरीटं रविभासम्
॥ २ ॥
मायातीतं योगविधानं जगदादिं
मानातीतं मोहविनाशं मुनिवन्द्यम्
योगिध्येयं योगविधानं परिपूर्णं
वन्दे रामं रञ्जितलोकं रमणीयम्
॥ ३ ॥
भावाभावप्रत्ययहीनं भवमुख्यै-
र्योगासक्तैरर्चितपादांबुजयुग्मम्
नित्यं शुद्धं बुद्धमनन्तं
प्रणवाख्यं
वन्दे रामं वीरमशेषासुरदावम्
॥ ४ ॥
त्वं मे नाथो नाथितकार्याखिलकारी
मानातीतो माधवरूपोऽखिलाधारी
भक्त्या गम्यो भावितरूपो भवहारी
योगाभ्यासैर्भावितचेतःसहचारी
॥ ५ ॥
त्वामाद्यन्तं लोकततीनां परमीशं
लोकानां नो  लौकिकमानैरधिगम्यम् ।
भक्तिश्रद्धाभावसमेतैर्भजनीयं
वन्दे रामं सुन्दरमिन्दीवरनीलम्
॥ ७ ॥
को वा ज्ञातुं त्वामतिमानं
गतमानं
माया सक्तो माधव शक्तो मुनिमान्यम्
वृन्दारण्ये वन्दितवृन्दारकवृन्दं
वन्दे रामं भवमुखवन्द्यं सुखकन्दम्
॥ ८ ॥
नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं
नित्यानन्दं निर्विषयज्ञानमनादिम्
मत्सेवार्थं मानुषभावं प्रतिपन्नं
वन्दे रामं मरकतवर्णं मथुरेशम्
॥ ९ ॥
श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं
ब्राह्मं ब्रह्मज्ञानविधानं
भुवि मर्त्यः ।
रामं श्यामं कामितकामप्रदमीशं
ध्यात्वा पातकजालैर्विगतः स्यात्
॥ १० ॥
           
***

Click here for Ramachandra’s English Translation of this stotra

HYMNS TO SRIRAM – RAMARAKSHA STOTRAM

रामरक्षास्तोत्रम्
      
(बुधकौशिककृतम्)
ध्यायेदाजानुबाहुं धृतशरधनुषं
बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं
प्रसन्नम् ।
वामाङ्कारूढसीतामुखकमलमिलल्लोचनं
नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डलं
रामचन्द्रम् ॥ १ ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
एकैकमक्षरं पुंसां महापातकनाशनम्
॥ २ ॥
ध्यात्वा नीलोत्पलश्यामं रामं
राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामकुटमण्डितम्
॥ ३ ॥
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्
स्वलीलया जगत्त्रातुमाविर्भूतमजं
विभुम् ॥ ४ ॥
रामरक्षां पठेत् प्राज्ञः पापघ्नीं
सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः
॥ ५ ॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रियः
श्रुती ।
घ्राणं पातु मखत्राता मुखं
सौमित्रिवत्सलः ॥ ६ ॥
जिह्वां विद्यानिधिः पातु कण्ठं
भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ
भग्नेशकार्मुकः ॥ ७ ॥
करौ सीतापतिः पातु हृदयं जामदग्न्यजित्
मध्यं पातु खरध्वंसी नाभिं
जाम्बवदाश्रयः ॥ ८ ॥
सुग्रीवेशः कटी पातु सक्थिनी
हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत्
॥ ९ ॥
जानुनी सेतुकृत् पातु जङ्खे
दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं
वपुः ॥ १० ॥
एतां रामबलोपेतां रक्षां यः
सुकृती पठेत् ।
स चिरायुः सुखी पुत्री विजयी
विनयी भवेत् ॥ ११ ॥
पातालभूतलव्योमचारिणः छद्मारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं
रमनामभिः ॥ १२ ॥
रामेति रामभद्रेति रामचन्द्रेति
वा स्मरन ।
नरो न लिप्यते पापैर्भुक्तिं
मुक्तिं च विन्दति ॥ १३ ॥
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्
यः कण्ठे धरयेत्तस्य करस्थाः
सर्वसिद्धयः ॥ १४ ॥
वज्रपञ्जरनामेदं यो रामकवचं
स्मरेत् ।
अव्याहताज्ञः सर्वत्र लभते
जयमङ्गलम् ॥ १५ ॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां
हरः ।
तथा लिखितवान् प्राप्तः प्रबुद्धो
बुधकौशिकः ॥ १६ ॥
आरामः कल्पवृक्षाणां विरामः
सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमन्स
नः प्रभुः ॥ १७ ॥
तरुणौ रूपसंपन्नौ सुकुमारौ
महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
॥ १८ ॥
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ
पुत्रौ दशरथस्यैतौ भ्रातरौ
रामलक्ष्मणौ ॥ १९ ॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ
सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां
नो रघूत्तमौ ॥ २० ॥
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ
रक्षणाय मम रामलक्ष्मणावग्रतः
पथि सदैव गच्छताम् ॥ २१ ॥
सन्नद्धः कवची खड्गी चापबाणधरो
युवा ।
गच्छन्ममाग्रतो नित्यं रामः
पातु सलक्ष्मणः ॥ २२ ॥
रामो दाशरथिः शूरो लक्ष्मणानुचरो
बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो
रघूत्तमः ॥ २३ ॥
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः
॥ २४ ॥
इत्येतानि जपन्नितयं मद्भक्तः
श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं संप्राप्नोति
न संशयः ॥ २५ ॥
रामं दूर्वादलश्यामं पद्माक्षं
पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैः न
ते संसारिणो नराः ॥ २६ ॥
रामं लक्ष्मणपूर्वजं रघुवरं
सीतापतिं सुन्दॢं
काकुत्स्थं करुणार्णवं गुणनिधिं
विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथतनयं
श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं
राघवं रावणारिम् ॥ २७ ॥
रामाय रामभद्राय रामचन्द्राय
वेधस ।
रघुनाथाय नाथाय सीतायाः पतये
नमः ॥ २८ ॥
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम
॥ २९ ॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये
॥ ३० ॥
माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः
सर्वस्वं मे जीवितेशो दयालु-
र्नान्यं दैवं नैव जाने न जाने
॥ ३१ ॥
दक्षिणे लक्ष्मणो यस्य वामे
च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे
रघुनन्दनम् ॥ ३२ ॥
लोकाभिरामं रणरङ्गधीरं
राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं
श्रीरामचन्द्रं शरणं प्रपद्ये
॥ ३३ ॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये
॥ ३४ ॥
कूजन्तं रामरामेति मधुरं मधुराक्षरं
आरुह्यकविताशाखां वन्दे वाल्मीकिकोकिलम्
॥ ३५ ॥
आपदामपहर्तारं दातारं सर्वसंपदाम
लोकाभिरामं श्रीरामं भूयो भूयो
नमाम्यहम् ॥ ३६ ॥
भर्जनं भवबीजानां अर्जनं सुखसंपदाम्
तर्जनं यमदूतानां रामरामेति
गर्जनम् ॥ ३७ ॥
रमो राजमणिः सदा विजयते रामं
रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय
तस्मै नमः ।
रामान्नास्ति परायणं परतरं
रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे  भो राम मामुद्धर ॥ ३८ ॥
राम रामेति रामेति रमे रामे
मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम
वरानने ॥