MAHANARAYANOPANISHAD – ADITYAMANDALE PARABRAHMOPASANAM

आदित्यमण्डले परब्रह्मोपासनम्            
    (महानारायणोपनिषत्)
आदित्यो वा एष एतन्ममण्डलं तपति तत्रता ऋचस्तदृचा
मण्डलँ स ऋचां लोकोऽथ य एष एतस्मिन्मण्डलेऽर्चिर्दीप्यते तानि सामानि स साम्नां लोकोऽथ
य एष एतस्मिन्मण्डलेऽर्चिषि पुरुष-स्तानि यजूँषि
स यजुषा मण्डलँ स यजुषां लोक-स्सैषा त्रय्येव विद्यातपति य एषोऽन्तरादित्ये हिरण्मयः
पुरुषो।
                आदित्यपुरुषस्य सर्वात्मकत्वप्रदर्शनम्
आदित्यो वै तेज ओजो यश-श्चक्षु-श्श्रोत्रमात्मा
मनो मन्यु-र्मनु-र्मृत्यु स्सत्यो
मित्रो वायुराकाशः प्राणो लोकपालः कः किं कं
तथ्सत्यमन्न-ममृतो जीवो विश्वः
कतम-स्स्वयम्भु ब्रह्मैत-दमृत एष पुरुष एष
भूताना-मधिपति-र्ब्रह्मण-स्सायुज्यँ
सलोकता-माप्नोत्येतासामेव देवतानाँ सायुज्यँ
सार्ष्टिताँ समानलोकतामाप्नोति
य एवं वेदे-त्युपनिषत्॥

MAHANARAYANOPANISHAD-DAHARAVIDYA

        दहरविद्या            
    (महानारायणोपनिषत्)
अणो-रणीयान्महतो महीया-नात्मा गुहायां निहितोऽस्य जन्तोः ।त-मक्रतुं पश्यति वीतशोको धातुःप्रसादान्महिमानमीशम्। सप्त प्राणाः प्रभवन्ति तस्मा-थ्सप्तार्चिषस्समिध-स्सप्तजिह्वाः। सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया-न्निहिता-स्सप्तसप्त। अतस्समुद्रा गिरयश्च सर्वेऽस्माथ्स्यन्दन्ते सिन्धव-स्सर्वरूपाः।
अतश्च विश्वा ओषधयोरसाश्च येनैष भूत-स्तिष्ठत्यन्तरात्मा। ब्रह्मा देवानां पदवीः कवीना-मृषि-र्विप्राणां महिषो मृगाणाम्। श्येनो गृद्ध्राणाँ स्वधितिर्वनानाँ सोमः पवित्रमत्येति रेभन्न् । अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीँ सरूपाम्। अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः॥
हँस-श्शुचिष-द्वसु-रन्तरिक्षस-द्धोता वेदिषदतिथिर्दुरोणसत्।
नृष-द्वरस-दृतस-द्‍व्योमस-दब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ।
घृतं मिमिक्षिरे घृतमस्ययोनि-र्घृतेश्रितो घृत-मुवस्य धाम।
अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्।
समुद्रादूर्मिर्मधुमाँउदार-उपाँशुना सममृतत्व-मानट्। घृतस्य नाम गुह्यं
यदस्ति जिह्वा देवाना-ममृतस्य नाभिः। वयं नाम प्रब्रवामा घृतेनास्मिन्
यज्ञे धारयामा नमोभिः
। उप ब्रह्मा शृणव च्छस्यमानं चतुश्शृङ्गोऽवमीद्‍गौरएतत्।
चत्वारि शृङ्गा
त्रयो अस्य पादा द्वे शीर्‍षे सप्त हस्तासो अस्य। त्रिधाबद्धो वृषभो
रोरवीति महो देवो
मर्त्यान् आविवेश ॥

त्रिधाहितं पणिभि-र्गुह्यमानं गवि देवासो घृतमन्वविन्दन्। इन्द्र एकँ सूर्य एकं जजान वेना-देकँ  स्वधयानिष्टतक्षुः। यो देवानां प्रथमं पुरस्ताद्विश्वाधियो रुद्रो
महर्‍षिः। हिरण्यगर्भं पश्यत जायमानँ सनोदेव-श्शुभया स्मृत्या संयुनक्तु।
यस्मात्परं नापरमस्ति किंचि-द्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित्।वृक्ष इव
स्तब्धो दिवि तिष्ठ-त्येकस्तेनेदं  पूर्णं पुरुषेण सर्वम्। न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः। परेण नाकं निहितं गुहायां विभ्राजदेतद्यतयो विशन्ति।
वेदान्तविज्ञान-सुनिश्चितार्था-स्संन्यासयोगाद्यतयश्शुद्धसत्त्वाः ।ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे । दह्रं विपापं परमेऽश्मभूतं यत्पुण्डरीकं पुरमध्यसँस्थम्। तत्रापि दह्रं गगनं विशोक-स्तस्मिन्यतन्तस्त-दुपासितव्यम् ।

यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः। तस्य प्रकृति-लीनस्य यः परस्स महेश्वरः ॥

A brief description of Dahara Vidya from http://sivanandaonline.org is given below:

This Vidya occurs in the Chhandogyopanishad, VIII. 1.

This abode, the small lotus that is here within this city of Brahman, and the small space within that lotus what is there within this space, that is to be searched out, that certainly is to be known. Verily, as extensive as the external Akasa, is this eternal Akasa. Within it are contained the hea­ven and the earth, both fire and wind, both Sun and moon, lightning and stars, both what exists here and what does not exist; everything here is contain­ed within it.

This is one of the greatest of the Vidyas. The all-pervading and all-inclusive nature of the Self is stressed upon in this Vidya. In this meditation, the meditator feels the whole universe as his Self and excludes nothing from the One Self. This Vidya further explains the identity of the external and the internal, the objective and the subjective, the macrocosmic and the microcosmic, the universal and the individual. Brahman and Atman.

MAHANARAYANOPANISHAD-AGHAMARSHANA SUKTAM

अघमर्षणसूक्तम्             
    (महानारायणोपनिषत्)
हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थं मे देहि याचितः।
यन्मया भुक्त-मसाधूनां पापेभ्यश्च प्रतिग्रहः।यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम्। तन्न इन्द्रो वरुणो बृहस्पतिस्सविता च पुनन्तु पुनःपुनः । नमोऽग्नयेऽप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोऽद्भ्यः ॥
यदपां क्रूरं यदमेध्यं यदशान्तं तदपगच्छतात्  ।अत्याशनादतीपाना-द्यच्च उग्रात् प्रतिग्रहात् । तन्नो वरुणो राजा पाणिनाह्यवमर्शतु। सोऽहमपापो विरजो निर्मुक्तो मुक्तकिल्बिषः ।नाकस्य प्रुष्ठ-मारुह्य गच्छे-द्‍ब्रह्मसलोकताम्। यश्चाप्सु वरुणस्सपुनात्वघमर्‍षणः । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमँ सचता परुष्णिया । असिक्निया मरुद्वृधे वितस्तयाऽऽर्जीकीये शृणुह्या सुषोमया । ऋतं च सत्यं चाभीद्धा-त्तपसो-ऽध्यजायत। ततो रात्रिरजायत।तत-स्समुद्रो अर्णवः ॥
समुद्रादर्णवा-दधि संवथ्सरो अजायत।अहोरात्राणि विदधद्विश्वस्य मिषतो वशी।
सूर्याचन्द्रमसौ धाता यथापूर्व-मकल्पयत्। दिवं च पृथिवीं चान्तरिक्ष-मथो सुवः।
यत्पृथिव्याँ रजस्स्व मान्तरिक्षे विरोदसी।इमाँ स्तदापो वरुणः पुनात्वघमर्षणः
पुनन्तु वसवः  पुनातु वरुणः पुनात्वघमर्षणः । एष भूतस्य मध्ये भुवनस्य गोप्ता।
एष पुण्यकृतां लोकानेष मृत्योर्‍हिरण्मयम्। द्यावापृथिव्योर् हिरण्मयँ सँ श्रितँ सुवः॥
सन-स्सुव-स्सँशिशाधि।आर्द्रं ज्वलति ज्योति-रहमस्मि । ज्योतिर्ज्वलति ब्रह्माऽहमस्मि। अहमेवाहं मां जुहोमि स्वाहा॥ अकार्यकार्यवकीर्णीस्तेनो भ्रूणहा गुरुतल्पगः । वरुणोऽपामघमर्‍षण-स्तस्मात्पापात्प्रमुच्यते।रजोभूमि-स्तस्माँरोदयस्व प्रवदन्ति धीराः।  आक्रान्थ्समुद्रः प्रथमे विधर्मञ्जनयन् प्रजा भुवनस्य राजा।
वृषा पवित्रे अधिसानो अव्ये बृहथ्सोमो वावृधे सुवान इन्दुः ॥
  
 

MAHANARAYANOPANISHAD-VYAHRITIHOMA MANTRAH ETC.

 व्याहृति-होममन्त्राः             
    (महानारायणोपनिषत्)
भू-रन्न-मग्नये पृथिव्यै स्वाहा भुवोऽन्नं वायवेऽन्तरिक्षाय स्वाहा सुवरन्न-मादित्याय दिवे स्वाहा भू-र्भुवस्सुव-रन्नं चन्द्रमसे दिग्भ्य-स्स्वाहा नमो देवेभ्य
स्स्वधया पितृभ्यो भू-र्भुवि स्सुव-रन्नमोम्॥
भू-रग्नये पृथिव्यै स्वाहा भुवो वायवेऽन्तरिक्षाय स्वाहा सुवरादित्याय दिवे स्वाहा
भू-र्भुवस्सुव-श्चन्द्रमसे दिग्भ्य-स्स्वाहा नमो देवेभ्य-स्स्वधा पितृभ्यो भू-र्भुवस्सुव-रग्न ओम्॥
भूरग्नये च पृथिव्यै च महते च स्वाहा भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । सुवरादित्याय च दिवे च महते च स्वाहा भू-र्भुवस्सुव-श्चन्द्रमसे
च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा  नमो देवेभ्य-स्स्वधा पितृभ्यो भू-र्भुव-स्सुव-र्महरोम् ॥
               ज्ञानप्राप्त्यर्था-होममन्त्राः
पाहि नो अग्न एनसे स्वाहा। पाहि नो विश्ववेदसे स्वाहा । यज्ञं पाहि विभावसो स्वाहा। सर्वं पाहि शतक्रतो स्वाहा॥
पाहि नो अग्न एकया। पाह्युत द्वितीयया। पाह्यूर्जं तृतीयया। पाहि गीर्भिश्च तसृभि-र्वसो स्वाहा ॥
                वेदाविस्मरणाय जपमन्त्राः
यस्छन्दसामृषभो विश्वरूप-श्छन्दोभ्य-श्छन्दाँस्याविवेश। सचाँशिक्यः पुरो वाचोपनिष-दिन्द्रो ज्येष्ठ इन्द्रियाय ऋषिभ्यो नमो देवेभ्यस्स्वधा पितृभ्यो भूर्भुव-स्सुव-श्छ्न्द ओम्॥
नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयो-श्श्रुतं माच्योढ्वं
ममामुष्य ओम् ॥
                तपः प्रशंसा
ऋतं तप-स्स्त्यं तप-श्श्रुतं तपश्शान्तं तपो दम-स्तपश्शामस्तपो दानं तपो यज्ञं तपो भूर्भुवस्सुव-र्ब्रह्मैतदुपास्यैतत्तपः ॥
                विहिताचारप्रशंसा निषिद्धाचारनिन्दा च
यथा वृक्षस्य संपुष्पितस्य दूरा-द्गन्धो वात्येवं पुण्यस्य कर्मणो दूराद्गन्धो  वाति यथा ऽसिधारां कर्तेऽवहिता-मवक्रामे यद्युवे युवे हवा विह्वयिष्यामि कर्तं पतिष्यामीत्येव-ममृता-दात्मानं जुगुप्सेत् ॥
                

MAHANARAYANOPANISHAD- MRITTIKA SUKTAM

                      मृत्तिकासूक्तम्             
                  (महानारायणोपनिषत्)
भूमि-र्धेनुर्धरिणी लोकधारिणी ।
उद्धृतोऽसि वराहेण कृष्णेन शतबाहुना।
मृत्तिके  हर मे पापं यन्मया दुष्कृतं कृतम्।
मृत्तिके ब्रह्मदत्ताऽसि
काश्यपेनाभिमन्त्रिता।
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम्।
मृत्तिके प्रतिष्ठितं सर्वं तन्मे निणुदि मृत्तिके।

 तया हतेन पापेन गच्छामि
परमां गतिम्॥  

MAHANARAYANOPANISHAD- SHATRUJAYA MANRAAH

                    शत्रुजयमन्त्राः              
                  (महानारायणोपनिषत्)
यत  इन्द्र भयामहे ततो नो अभयं कृधि।मघवञ्छिन्धि तव तन्न ऊतये
विद्विषो
विमृधो जहि। स्वस्तिदा विशस्पति-र्वृत्रहा
विमृधोवशी। वृषेन्द्रः पुर एतु न-स्स्वस्तिदा अभयंकरः। स्वस्ति न इन्द्रो वृद्धश्रवा-स्स्वस्ति
न पूषाः विश्ववेदाः।
स्वस्ति न-स्तार्क्ष्यो
अरिष्टनेमि-स्स्वस्ति नो बृहस्पति-र्दधातु।  आपान्त मन्यु-स्तृपलप्रभर्मा धुनि-श्शिमीवा-ञ्छरुमाँ
ऋजीषी। सोमो विश्वान्यतसावनानि नार्वागिन्द्रं प्रतिमानानिदेभुः
ब्रह्मजज्ञानं प्रथमं पुरस्ता-द्विसीमत-स्सुरुचो
वेन आवः। सबुध्निया उपमा अस्य विष्ठा-स्सतश्चयोनि-मसतश्चविवः।
स्योना पृथिवि भवानृऽक्षरा निवेशनी। यच्छानश्शर्म सप्रथाः । गन्धद्वारां दुराधर्‍षां नित्यपुष्टां करीषिणीम्। ईश्वरीँ सर्वभूतानां ता-मिहोपह्वये श्रियम्।  श्रीर्मे भजतु। अलक्ष्मीर्मे
नश्यतु। विष्णु-मुखा वै देवाश्छन्दोभिरिमाल्लोका-ननपजय्य-मभ्यजयन्।
महाँ इन्द्रो वज्रबाहुष्षोडशी
शर्मयच्छतु॥
स्वस्ति नो मघवा करोतु हन्तु
पाप्मानं योऽस्मान्द्वेष्टि। सोमानग्ग् स्वरणं कृणुहि ब्रह्मणस्पते। कक्षीवन्तं य औशिजम्।
शरीरं यज्ञशमलं कुसीदं तस्मिन्थ्सीदन्तु योऽस्मान्द्वेष्टि।चरणं पवित्रं विततं पुराणं
येन पूत स्तरति दुष्कृतानि। तेन पवित्रेण शुद्धेन पूता अति पाप्मान-मरातिं तरेम।
सजोषा इन्द्र सगणो मरुद्भिस्सोमं पिब वृत्रहञ्छूर विद्वान् । जहि शत्रूँ रप मृधो नुदस्वाथाभयं
कृणुहि विश्वतोनः। सुमित्रान
आप ओषधय-स्सन्तु दुर्मित्रास्तस्मै
भूयासु-र्योस्मान् द्वेष्टि यं च वयं द्विष्मः । आपोहिष्ठा मयोभुवस्तान
ऊर्जे दधातन॥
  महेरणाय चक्षसे।
योव-श्शिवतमो रस-स्तस्य भाजयते हनः। उशती-रिव मातरः।

तस्मा अरंगमामवो यस्यक्षयाय
जिन्वथ। आपो जनयथा च नः ॥

MAHANARAYANOPANISHAD-DURVA SUKTAM

       दूर्वासूक्तम्
           
 (महानारायणोपनिषत्)`
सहस्रपरमा देवी शतमूला शताङ्कुरा  ।
सर्वँ हरतु मे पापं दूर्वा दुस्स्वप्ननाशनी।
काण्डात्काण्डात् प्ररोहन्ती परुषः परुषः परि॥
एवानो दूर्वे प्रतनु सहस्रेण शतेन च । या शतेन प्रतनोषि सहस्रेण
विरोहसि ।
तस्यास्ते देवीष्टके विधेमं हविषा वयम् । अश्वक्रान्ते रथक्रान्ते
विष्णुक्रान्ते वसुन्धरा ।  शिरसा धारयिष्यामि
रक्षस्व मां पदेपदे।

MAHANARAYANOPANISHAD- AMBHASYAPAARE MANTRAH

                                                        महानारायणोपनिषत्
                       चतुर्थः प्रश्नः
ऊँ सह नाववतु। सह नौ भुनक्तु ॥ सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै।
ऊँ शान्तिः शान्तिः शान्तिः ॥
                  
अंभस्यपारे
अम्भस्य पारे भुवनस्य मध्ये नाकस्य पृष्ठे महतो महीयान्।  शुक्रेण
ज्योतीँषि
समनुप्रविष्टः प्रजापतिश्चरति गर्भे अन्तः।  यस्मिन्निदँ
सं च विचैति सर्वं यस्मिन्देवा अधि विश्वे निषेदुः। तदेव भूतं तदु भव्यमा इदं तदक्षरे
परमे व्योमन्।
येनावृतं खं च दिवं महींच येनादित्यस्तपति तेजसा भ्राजसा
च ।  यमन्त-स्समुद्रे कवयो वयन्ति यदक्षरे
परमे प्रजाः । यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यचसर्ज भूम्याम्। यदोषधीभिः
पुरुषान् पशूँश्च विवेश भूतानि चराचराणि। अतः परं नान्यदणीयसँ हि परात्परं यन्महतो
महान्तम् । यदेक-मव्यक्त-मनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥
तदेवर्तं तदु सत्यमाहु-स्तदेव ब्रह्म परमं कवीनाम्। इष्टापूर्तं बहुधा जातं जायमानं
विश्वं बिभर्ति भुवनस्य नाभिः । तदेवाग्निस्तद्वायु-स्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्रममृतं तदाप-स्सप्रजापतिः। सर्वे निमेषा जज्ञिरे विद्युतः पुरुषा-दधि ॥ कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः । अर्धमासा
मासा ऋतव-स्संवत्सराश्च कल्पन्ताम्।
स आपः प्रदुघे उभे इमे अन्तरिक्ष-मथो सुवः।नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत्। न
तस्येशे कश्चन तस्य नाम महद्यशः ॥
न संदृशे तिष्ठति रूप-मस्य न चक्षुषा पश्यति कश्च-नैनम्
। हृदा मनीषा मनसाभिकॢप्तो य एनं  विदु-रमृतास्ते भवन्ति। अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टौ।
एष हि देवः प्रदिशोऽनुसर्वाः पूर्वो हि जात-स्स उ गर्भे अन्तः ।
सविजायमान-स्सजनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः। विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतो हस्त उत विश्वतस्पात्। संबाहुभ्यां नमति संपतत्रै-र्द्यावापृथिवी
जनयन् देव एकः। वेन-स्तत्पश्य-न्विश्वा
भुवनानि विद्वान् यत्र विश्वं भवत्येकनीळम्।  यस्मिन्निदँ सं चविचैकँ स ओतः
प्रोतश्च  विभुः प्रजासु ।
प्रतद्वोचे अमृतं नु विद्वान् गन्धर्वो नाम निहितं गुहासु
त्रीणि पदा निहिता गुहासु यस्तद्वेद सवितुः पितासत्। स नो
बन्धु-र्जनिता स विधाता धामानि वेद
भुवनानि विश्वा। 
यत्र देवा अमृतमानशाना-स्तृतीये धामा-न्यभ्यैरयन्त।
परिद्यावापृथिवी यन्ति सद्यः परि लोकान् परिदिशः परिसुवः ।
ऋतस्य तन्तुं विततं विचृत्य तदपश्यत्तदभवत्  प्रजासु।  परीत्य
लोकान् परीत्य भूतानि परीत्य सर्वाः प्रदिशोदिशस्च । प्रजापतिः प्रथमजा ऋतस्यात्मनाऽऽत्मा-
नमभि-संबभूव
। सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।  सनिं मेधामयासिषम्।  उद्दीप्यस्व
जातवेदोऽपघ्नन्निऋतिं मम।
पशूँश्च मह्यमावह जीवनं च दिशोदिश। मानो हिँसीज्जातवेदो गामश्वं
पुरुषं जगत्।
अबिभ्रदग्न आगहि श्रिया मा परिपातय । पुरुषस्य विद्म सहस्राक्षस्य
महादेवस्य धीमहि। तन्नो रुद्रः प्रचोदयात्।  तत्पुरुषाय विद्महे महादेवाय
धीमहि। तन्नोरुद्रः प्रचोदयात्।  तत्पुरुषाय विद्महे वक्रतुण्डाय
धीमहि। तन्नो दन्तिः प्रचोदयात्।
तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि॥
तन्नो नन्दिः प्रचोदयात्। तत्पुरुषाय विद्महे महासेनाय धीमहि।
तन्नष्षण्मुखः प्रचोदयात् । तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि। तन्नो गरुडः प्रचोदयात्
वेदात्मनाय विद्महे हिरण्यगर्भाय धीमहि। तन्नो ब्रह्म प्रचोदयात्
। नारायणाय विद्महे वासुदेवाय धीमहि। तन्नो विष्णुः प्रचोदयात् ।  वज्रनखाय
विद्महे तीक्ष्णदँष्ट्राय धीमहि ।
   तन्नो नारसिँहः प्रचोदयात्। भास्कराय विद्महे महद्युतिकराय धीमहि। तन्नो आदित्यः
प्रचोदयात् । वैश्वानराय विद्महे लालीलाय धीमहि। तन्नो अग्निः प्रचोदयात् । कात्यायनाय
विद्महे कन्यकुमारि धीमहि। तन्नो दुर्गिः प्रचोदयात्॥   
       

MEDHA SUKTAM

                              मेधासूक्तम्

ऊँ यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्यो ऽध्यमृताथ्संबभूव।

स मेन्द्रो मेधया स्पृणोतु। अमृतस्य देवधारणॊ भूयासम्। शरीरं मे विचर्षणम्। जिह्वा मे मधुमत्तमा। कर्णाभ्यां भूरिविश्रुवम्। ब्रह्मणः कोशोऽसि मेधया पिहितः। श्रुतं मे गोपाय ।

                     ऊँ शान्तिः शान्तिः शान्तिः

ऊँ मेधा देवी जुषमाणा न आगा – द्विश्वाची भद्रा सुमनस्य माना।

त्वया जुष्टा नुदमाना दुरुक्तान्  बृहद्वदेम विदथे सुवीराः।  त्वया जुष्ट

ऋषिर्भवति देवि त्वया ब्रह्माऽऽगतश्रीरुत त्वया । त्वया जुष्ट-श्चित्रं विन्दते वसु सानो जुषस्व द्रविणो न मेधे ॥

 मेधा म इन्द्रो ददातु मेधां देवी सरस्वती।  मेधां मे अश्विनावुभावाधत्तां

पुष्करस्रजा। अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः। देवी मेधा सरस्वती सा मां मेधा सुरभिर्जुषताँ स्वाहा॥

 आमा  मेधा सुरभिर्विश्वरूपा हिरण्य़वर्णा जगती जगम्या। ऊर्जस्वती

पयसा पिन्वमाना सामां मेधा सुप्रतीका जुषन्ताम्॥

  मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु॥

[ऊँ हंस हंसाय विद्महे परमहंसाय धीमहि। तन्नो हंसः प्रचोदयात्॥]

                 ऊँ शान्तिः शान्तिः शान्तिः

SHANTI MANTRAS-2

                                                                शान्तिमन्त्राः -२

  शं नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः । अहानि शं भवन्तु नश्शँ रात्रिः प्रतिधीयताम्। शमुषानो व्युच्छतु शमादित्य उदेतु नः। शिवा नश्शंतमा भव  सुमृडीका सरस्वति।

  माते व्योम सन्दृशि। इडायैवास्त्वसि वास्तु मद्वास्तुमन्तो भूयास्म मा वास्तो श्छिथ्स्मह्यवास्तुस्स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ।

  प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठाया श्छिथ्स्मह्यप्रतिष्ठस्स भूयाद्योऽस्मा- न्द्वेष्टि यं च वयं द्विष्मः । आवातवाहि भेषजं विवातवाहि यद्रपः। त्वँ हि विश्वभेषजो देवानां दूत ईयसे।  द्वाविमौ वातौ वात आसिन्धॊरा परावतः॥

  दक्षं मे अन्य आवातु परान्योवातु यद्रपः। यददोवातते गृहेऽमृतस्य निधिर् हितः। ततो नो देहि जीवसे ततो नो धॆहि भेषजम् । ततो न मह आवह वात आवातु भेषजम् ।

  शंभूर्मयोभूर्नोहृदेप्रण आयूँषि तारिषत्। इन्द्रस्य गृहोऽसि तं त्वा प्रपद्ये सगुस्साश्वः।सह यन्मे अस्ति तेन। भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये वायुं प्रपद्येनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्मप्रपद्य ऊँ प्रपद्ये।

 अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातः स्वस्त्या स्वस्तिमान्तया स्वस्त्या स्वस्तिमानसानि ।

 प्राणापानौ मृत्योर्मापातं प्राणापानौ मा मा हासिष्टं मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॥

  द्युभिरक्‍तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः। तन्नो मित्रो वरुणो  मामहन्तामदितिः सिन्धुः पृथिवी उतद्यौः। कयानश्चित्र आभुव दूती सदावृधस्सखा।

कया शचिष्ठया वृता । कस्त्वा सत्यो मदानां मँहिष्ठो मत्सदन्धसः। दृढा चिदारुजे वसु। अभीषुणस्सखीनामविता जरितॄणाम् ।

  शतं भवास्यूतिभिः । वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। उपध्वान्तमूर्णुहि पूर्धिचक्षुर्मुमुग्‍ध्यस्मा न्निधयेव बद्धान् ।

  शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु नः॥

  ईशानावार्याणां क्षयन्तीश्चर्‍षणीनाम् । अपो याचामि भेषजम्। सुमित्रान आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ।

  आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन। महे रणाय चक्षसे । यो वः शिवतमो रसस्तस्य भाजयते ह नः । उशतीरिव मातरः। तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ। आपो जनयथा चनः।

  पृथिवी शान्ता साग्निना शान्ता सामे शान्ता शुचँ शमयतु। अन्तरिक्षँ शान्तं तद्वायुना शान्तं तन्मे शान्तँ शुचँ शमयतु।

  द्यौश्शान्ता सादित्येन शान्ता सा मे शान्ता शुचँ शमयतु।

पृथिवी शान्तिरन्तरिक्षँ शान्ति द्यौ श्शान्तिर्दिशश्शान्तिरवान्तरदिशा      

श्शान्तिरग्निश्शान्ति र्वायुश्शान्तिरादित्यश्शान्ति श्चन्द्रमाश्शान्ति र्नक्षत्राणि शान्तिरापश्शान्तिरोषधयश्शान्ति र्वनस्पतयश्शान्ति र्गौश्शान्ति रजा शान्तिरश्वश्शान्तिः पुरुषश्शान्ति र्ब्रह्म शान्तिर्ब्राह्मण श्शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः ।

  तयाहँ शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः॥

  एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोत्तिष्ठन्त-मनूत्तिष्ठन्तु मामाँ श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि

मा मा हासिषुः

 उदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अनु।  तच्चक्षुर्देवहितं पुरस्तच्छुक्रमुच्चरत्।

 पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतं शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक्‍च सूर्यं दृशे ।

  य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्यात्समा वृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु।।

  ब्रह्मणश्चोतन्यसि ब्रह्मण आणीस्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमनेन महदन्तरिक्षं दिवं दाधार पृथिवीँ सदेवां यदहं वेद तदहं धारयाणि मामद्वेदोऽधिविस्रसत् ।

  मेधामनीषे माविशताँ समीची भूतस्य भव्यस्यावरुध्यै सर्वमायुरयाणि

सर्वमायुरयाणि  ।

   आभिर्गीर्भिर्यदतोन ऊनमाप्यायय हरिवो वर्धमानः। यदास्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम। ब्रह्म प्रावादिष्म तन्नो मा हासीत् ॥

                    ऊँ शान्तिः शान्तिः शान्तिः

 सं त्वा सिंचामि यजुषा प्रजामायुर्धनं च ॥

                     ऊँ शान्तिः शान्तिः शान्तिः