GANESHA BAHYA PUJA

   गणेशबाह्यपूजा
चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम्।
पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तयेत्॥१॥
आगच्छ ब्रह्मणां नाथ! सुरासुरवरार्चित!
सिद्धिबुद्ध्यादिसंयुक्त! भक्तिग्रहणलालस!॥२॥
कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो!।
विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥३॥
रत्नसिंहासनं स्वामिन् गृहाण गणनायक।
तत्रोपविश्य विघ्नेश! रक्ष भक्तान् विशेषतः ॥४॥
सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो!।
शीतोष्णाद्भिः करोमि ते गृहाण पाद्यमुत्तमम्॥५॥
सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः।
आचामं च तु तेनैव कुरुष्व गणनायक! ॥६॥
रत्नप्रवालमुक्ताद्यैरनर्घैस्संस्कृतं प्रभो!।
अर्घ्यं गृहाण हेरंब द्विरदानन तोषकम् ॥७॥
दधिमधुघृतैर्युक्तं मधुपर्कं गजानन।
गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते॥८॥
पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे।
उपवीते भोजनान्ते पुनराचमनं कुरु ॥९॥
चंपकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम्।
अभ्यंगं कुरु सर्वेश लंबोदर नमोऽस्तु ते ॥१०॥
यक्षकर्दमकाद्यैश्च विघ्नेश! भक्तवत्सल!
उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो! ॥११॥
    
नानातीर्थजलैर्डुण्ढे! सुखोष्णभवरूपकैः।
कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः॥१२॥
कामधेनुसमुद्भूतं पयः परमपावनम्।
तेन स्नानं कुरुष्व त्वं हेरंब! परमार्थवित्॥१३॥
पञ्चामृतानां मध्ये तु जलैः स्नानं पुनः पुनः।
कुरु त्वं सर्वतीर्थेभ्यो गंगादिभ्यः समाहृतैः ॥१४॥
दधिधेनुपयोद्भूतं मलापहरणं परम्।
गृहाण स्नानकार्यार्थं विनायक दयानिधे! ॥१५॥
धेनुसमुद्भवं डुण्ढे! घृतं सन्तोषकारकम्।
महामलापघातार्थं तेन स्नानं कुरु प्रभो!॥१६॥
सारकं संस्कृतं पूर्णं मधुमधुरसोद्भवम्।
गृहाण  स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥१७॥
इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम्।
गृहाण गणनाथ त्वं तया स्नानं समाचर ॥१८॥
यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर!।
आद्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥१९॥
ततो गन्धाक्षतादींश्च दूर्वाङ्कुरान् गजानन ।   
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर! ॥२०॥
ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः।
अभिषेकं करोमि ते गृहाण द्विरदानन ॥२१॥
ततः आचमनं देव सुवासितजलेन च ।
कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥२२॥
वस्त्रयुग्मं गृहाण त्वमनर्घ्यं रक्तवर्णकम्।
लोकलज्जाहरं चैव विघ्नराज नमोऽस्तु ते ॥२३॥
उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा।
गृहाण सर्वसिद्धीश! मया दत्तं सुभक्तितः ॥२४॥
उपवीतं गणाध्यक्ष गृहाण च ततः परं।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥२५॥
ततः सिन्दूरकं देव गृहाण गणनायक।
अङ्गलेपनभावार्थं सदाऽऽनन्दविवर्धनम् ॥२६॥
नानाभूषणकानि त्वमङ्गेषु विविधेषु च ।
भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भोः! ॥२७॥
अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन!।
द्वादशाङ्गेषु ते डुण्ढे! लेपयामि सुचित्रवत् ॥२८॥
रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान्।
अक्षतान् विघ्नराज! त्वं गृहाण फालमण्डले ॥२९॥
चंपकादिसुवृक्षेभ्यः संभृतानि गजानन!।
पुष्पाणि शमिमन्दारदूर्वादीनि गृहाण च ॥३०॥
दशांगगुल्गुलुं धूपं सर्वसौरभकारकम्।
गृहाण त्वं मया दत्तं विनायक महोदर! ॥३१॥
नानाजातिभवं दीपं गृहाण गणनायक।
अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥३२॥
चतुर्विधान्नसंपन्नं मधुरं लड्डुकादिकम्।
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप! ॥३३॥
सुवासितं गृहाणेदं जलं तीर्थसमाहृतम्।
भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥३४॥
भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष! पिबेत्तोयं सुवासितम् ॥३५॥
दाडिमं खर्ज्जुरं द्राक्षां रंभादीनि फलानि वै।
गृहाण देवदेवेश! नानामधुरकाणि तु॥३६॥
अष्टांगं देव ताम्बूलं गृहाण मुखवासनम्।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥३७॥
दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम्।
रत्नाद्यैस्संयुतां डुण्ढे! गृहाण सकलप्रिय ॥३८॥
राजोपचारकादीनि गृहाण गणनायक।
दानानि तु विचित्राणि मया दत्तानि विघ्नप! ॥३९॥
ततः आभरणं तेऽहमर्पयामि विधानकः।
उपचारैर्विविधैश्च तेन तुष्टो भव प्रभो ॥४०॥
ततो दूर्वाङ्कुरान् डुण्ढे! एकविंशतिसंख्यकान्।
गृहाण न्यूनसिध्यर्थं भक्तवात्सल्यकारणात् ॥४१॥
नानादीपसमायुक्तं नीराजनं गजानन।
गृहाण भावसंयुक्तं सर्वाज्ञानाधिनाशन ॥४२॥
गणानां त्विति मन्त्रस्य जपं साहस्रकं परम्।
गृहाण गणनाथ! त्वं सर्वसिद्धिप्रदो भव ॥४३॥
आर्तिक्यं च सुकर्पूरं नानादीपमयं यथा।
गृहाण ज्योतिषां नाथ! तथा नीराजनाम्यहम् ॥४४॥
पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो! ।
एकं तु सप्तवारं वै सर्वाङ्गेषु निराजनम् ॥४५॥   
 
चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन!।
मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप! ॥४६॥
पञ्चप्रकारकैस्स्तोत्रैर्गाणपत्यैर्गणाधिप!।
स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक!॥४७॥
एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन!।
प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन!॥४८॥
साष्टांगां प्रणतिं नाथ एकविंशतिसम्मिताम्।
हेरंब! सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥४९॥
न्यूनातिरिक्तभावार्थं किञ्चिद्दूर्वाङ्कुरान् प्रभो!।
समर्पयामि तेन त्वं सांग्यं पूजां कुरुष्व ताम् ॥५०॥
त्वया दानं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम्।
शिखायां धारयाम्येव सदा सर्वपदञ्च तत् ॥५१॥
अपराधानसंख्यातान् क्षमस्व गणनायक!।
भक्तं कुरु च मां डुण्ढे! तव पादप्रियं सदा ॥५२॥
त्वं माता त्वं पिता मे वै सुहृत्संबन्धिकादयः ।
त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥५३॥
जाग्रत्स्वप्नसुषुप्तिभिर्देहवाङ्मानसैः कृतम्।
सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥५४॥
बाह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत्।
गणेशपादतीर्थस्य मस्तके धारणात् किल ॥५५॥
पादोदकं गणेशस्य पीतं नारेण तत्क्षणात्।
सर्वान्तर्गतजं पापं नश्यतिग्गणनातिगम् ॥५६॥
गणेशोच्छिष्टगन्धं वै द्वादशाङ्गेषु चार्चयेत् ।
गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥५७॥
यदि गणेशपूजादौ गन्धभस्मादिकं चरेत्।
अथवोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेत्॥५८॥
द्वादशाङ्गेषु विघ्नेशं नाममन्त्रेण चार्चयेत्।
तेन सोऽपि गणेशेन समो भवति भूतले ॥५९॥
 
    
मूर्ध्नि गणेश्वरं चादौ ललाटे विघ्ननायकं।
दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चये ॥६०॥
वामे कर्णस्य मूले वै चैकदन्तं समर्चये।
कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥६१॥
बाहौ दक्षिणके चैव हेरम्बं वामबाहुके।
विकटं नाभिदेशे तु विनायक! समर्चये ॥६२॥
कुक्षौ दक्षिणगायां तु मयूरेशं समर्चये।
वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥६३॥
सर्वांगलेपनं शस्तं चित्रितं अष्टगन्धकैः।
गणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥६४॥
ततोच्छिष्टन्तु नैवेद्यं गणेशस्य भुनज्म्यहम्।
भुक्तिमुक्तिप्रदं पूर्णं नानापापनिकृन्तनम्॥६५॥
गणेशस्मरणेनैव करोमि कालखण्डनम् ।
गाणपत्यैश्च संवासः सदास्तु मे गजानन! ॥६६॥  

SHONADRINATHA ASHTAKAM

          शोणाद्रिनाथाष्टकम्
शिवाय रुद्राय शिवाऽर्चिताय
   महानुभावाय महेश्वराय।
सोमाय सूक्ष्माय सुरेश्वराय।
  शोणाद्रिनाथाय नमः शिवाय॥१॥
दिक्पालनाथाय विभावनाय
   चन्द्रार्धचूडाय
सनातनाय।
संसारदुःखार्णवतारणाय
    शोणाद्रिनाथाय
नमः शिवाय॥२॥
जगन्निवासाय जगद्धिताय
   सेनानिनाथाय जयप्रदाय।
पूर्णाय पुण्याय पुरातनाय
     शोणाद्रिनाथाय
नमः शिवाय॥३॥
वागीशवन्द्याय वरप्रदाय
   उमार्धदेहाय गणेश्वराय।
चन्द्रार्कवैश्वानरलोचनाय
     शोणाद्रिनाथाय
नमः शिवाय॥४॥
रथाधिरूढाय रसाधराय
  वेदाश्वयुक्ताय
विधिस्तुताय।
चन्द्रार्कचक्राय शशिप्रभाय
  शोणाद्रिनाथाय नमः शिवाय ॥५॥
विरिञ्चिसारथ्यविराजिताय
   गिरीन्द्रचापाय
गिरीश्वराय।
फालाग्निनेत्राय फणीश्वराय
     शोणाद्रिनाथाय
नमः शिवाय ॥६॥
गोविन्दबाणाय गुणत्रयाय
  विश्वस्य नाथाय
वृषध्वजाय।
पुरस्य विध्वंसनदीक्षिताय
    शोणाद्रिनाथाय
नमः शिवाय॥७॥
जरादिवर्ज्याय जटाधराय
   अचिन्त्यरूपाय
हरिप्रियाय
भक्तस्य पापौघविनाशनाय
  शोणाद्रिनाथाय नमः शिवाय॥८॥
स्तुतिं शोणाचलेशस्य पठतां सर्वसिद्धिदम्।
सर्वसंपत्प्रदं पुंसां सेवन्तां सर्वतो जनाः ॥९॥
          ॥शुभमस्तु॥
 
 

GANESHA MAHIMA STOTRAM

गणेशमहिमस्तोत्रम्
अनिर्वाच्यं रूपं स्तवननिकरो यत्र गलित-
  स्तथा वक्ष्ये स्तोत्रं प्रथमपुरुषस्यात्र महतः।
यतो जातं विश्वं स्थितमपि च सदा यत्र विलयः
   स कीदृग्गीर्वाणः सुनिगमनुतः श्रीगणपतिः ॥१॥
गणेशं गाणेशाः शिवमिति च शैवाश्च विबुधाः
   रविं सौरा विष्णुं प्रथमपुरुषं विष्णुभजकाः
वदन्त्येकं शाक्ता जगदुदयमूलां परशिवां
   न जाने किं तस्मै नम इति परं ब्रह्म सकलम् ॥२॥
तथेशं योगज्ञा गणपतिमिमं कर्म निखिलं
   स मीमांसा वेदान्तिन इति परं ब्रह्म सकलम्।
अजां सांख्यो ब्रूते सकलगुणरूपां च सततं
   प्रकर्तारं न्याय्यास्त्वथ जगति बौद्धा धियमिति ॥३॥
कथं ज्ञेयो बुद्धेः परतर इयं बाह्यसरणि-
  र्यथा धीर्यस्य स्यात्स च तदनुरूपो गणपतिः।
महत्कृत्यं तस्य स्वयमपि महान् सूक्ष्ममणुव-
  द्ध्वनिर्ज्योतिर्बिन्दुर्गगनसदृशः किञ्च सदसत् ॥४॥
अनेकास्योऽपाराक्षिकरचरणोऽनन्तहृदय-
  स्तथा नानारूपो विविधवदनः श्रीगणपतिः ।
अनन्ताह्वः शक्त्या विविधगुणकर्मैकसमये
  त्वसंख्यातानन्ताभिमतफलदोऽनेकविषये ॥५॥
न यस्यान्तो मध्यो न च भवति चादिः सुमहतो-
  प्यलिप्तः कृत्वेत्थं सकलमपि खं वत्स च पृथक्।
स्मृतः संस्मर्तॄणां सकलहृदयस्थः प्रियंकरो
   नमस्तस्मै देवाय सकलसुवन्द्याय महते ॥६॥
गणेशाद्यं बीजं दहनवनितापल्लवयुतं
  मनुश्चैकार्णोयं प्रणवसहितोभीष्टफलदः।
स बिन्दुश्चांगाद्यां गणक ऋषिछन्दोस्य च निचृत्
  स देवः प्राग्बीजं विपदधि च शक्तिर्जपकृताम् ॥७॥
गकारो हेरंबः सगुण इति पुनर्निर्गुणमयो
  द्विधाप्येको जातः प्रकृतिपुरुषौ ब्रह्म हि गणः ।
सचेशश्चोत्पत्तिस्थितिलयकरोऽयं प्रथमको
   यतो भूतं भव्यं भवति पतिरीशे गणपतिः॥८॥
गकारः कण्ठोर्ध्वं गजमुखसदृशो मर्त्यसदृशो
  णकारः कण्ठाधो जठरसदृशाकार इति च ।
अधोभागः कट्यां चरण इति हीशोस्य च तनु-
  र्विभातीत्थं नाम त्रिभुवनसमं भूर्भुवःसुवः ॥९॥
गणेशेति त्र्यर्णात्मकमपि वरं नाम सुखदं
   सकृत्प्रोच्चैरुच्चारितमिति नृभिः पावनकरम्।
गणेशस्यैकस्य प्रतिजपकरस्यास्य सुकृतं
   न विज्ञातो नाम्नः सकलमहिमा कीदृशविधः ॥१०॥ 
गणेशेत्याह्वां यः प्रवदति मुहुस्तस्यपुरतः
  प्रपश्यंस्तद्वक्त्रं स्वयमपि गणस्तिष्ठति तदा।
स्वरूपस्य ज्ञानन्त्वमुक इति नाम्नाऽस्य भवति
  प्रबोधः सुप्तस्य त्वखिलमिह सामर्थ्यममुना ॥११॥
गणेशो विश्वेस्मिन् स्थित इह च विश्वं गणपतौ
  गणेशो यत्रास्ते धृतिमतिरमैश्वर्यमखिलम्।
समुक्तं नामैकं गणपतिपदं मंगलमयं
   तदेकास्ये दृष्टे सकलविबुधास्येक्षणसमम्॥१२॥
बहुक्लेशैर्व्याप्तः स्मृत उत गणेशे च हृदये  
   क्षणात् क्लेशान्मुक्तो भवति सहसा त्वभ्रचयवत्।
वने विद्यारम्भे युधि रिपुभये कुत्र गमने
    प्रवेशे प्राणान्ते गणपतिपदं चाशु विशति ॥१३॥
गणाध्यक्षः ज्येष्ठः कपिल अपरो मंगलनिधि-
  र्दयालुर्हेरम्बो वरद इति चिन्तामणिरजः ।
वरानीशो डुण्ढिर्गजवदननारः शिवसुतो
   मयूरेशो गौरीतनय इति नामानि पठति ॥१४॥
महेशोऽयं विष्णुः सकविरविरिन्दुः कमलजः
  क्षितिस्तोयं वह्निः श्वसन इति खं त्वद्रिरुदधिः ।
कुजस्तारः शुक्रो पुरुरुडुबुधोऽगुश्च धनदो
   यमः पाशी काव्यः शनिरखिलरूपो गणपतिः ॥१५॥
मुखं वह्निः पादौ हरिरपि विधाता प्रजननं
    रविर्नेत्रे चन्द्रो हृदयमपि कामोस्य मदनः।
करौ शक्रः कट्यामवनिरुदरं भानि दशनं
     गणेशस्यासन्वै क्रतुमयवपुश्चैव सकलम् ॥१६॥
अनर्घ्यालङ्कारैररुणवसनैर्भूषिततनुः
   करीन्द्रास्यः सिंहासनमुपगतो भाति बुधराट्।
स्मितास्या तन्मध्येप्युदितरविबिम्बोपमरुचि
   स्थिता सिद्धिर्वामे मतिरितरे चामरकरा ॥१७॥
समन्तात्तस्यासन् प्रवरमुनिसिद्धास्सुरगणाः
   प्रशंसन्त्यग्रे विविधनुतिभिः साञ्जलिपुटाः।
बिडौजाद्यैर्ब्रह्मादिभिरनुवृतो भक्तनिकरै-
   र्गणाक्रीडामोदप्रमुदविकटाद्यैस्सहचरैः ॥१८॥
वशित्वाद्यष्टाष्टा दशदिगखिलोल्लोलमनुवाग्-
   धृतिः पाद्मः खड्गोऽञ्जनरसबलाः सिद्धय इमाः।
सदा पृष्ठे तिष्ठन्त्यनिमिषदृशस्तन्मुखलया
    गणेशं सेवन्तेप्यतिनिकटसूपायनकराः ॥१९॥  
   
 मृगाङ्कास्या रंभाप्रभृति गणिका यस्य
पुरतः
    सुसंगीतं कुर्वन्त्यतिकुतुकगन्धर्वसहिताः
मुदः पारो नात्रेत्यनुपमपदे द्योर्विगलिता
    स्थिरं जातं चित्तं चरणमवलोक्यास्य
विमलम् ॥२०॥
हरेणायं ध्यातस्त्रिपुरमथने चासुरवधे
   गणेशः पार्वत्या बलिविजयकालेपि हरिणा।
विधात्रा संसृष्टावुरगपतिना क्षोणिधरणे
   नरैः सिद्धौ मुक्तौ त्रिभुवनजये पुष्पधनुषा
॥२१॥
अयं सुप्रासादे सुर इव निजानन्दभुवने
  महान् श्रीमानाद्यो लघुतरगृहे रङ्कसदृशः।
शिवद्वारे द्वाःस्थो नृप इव सदा भूपतिगृहे
  स्थितो भूत्वोमाङ्के शिशुगणपतिर्लालनपरः
॥२२॥
अमुष्मिन् सन्तुष्टे गजवदन एवापि विबुधे
  ततस्ते सन्तुष्टास्त्रिभुवनगताः स्युर्बुधगणाः।
दयालुर्हेरंबो न भवति यस्मिंश्च पुरुषे
   वृथा सर्वं तस्य प्रजननमतः सान्द्रतमसि
॥२३॥
वरेण्योभ्रूशुण्डिर्भृगुगुरुकुजा मुद्गलमुखा
  ह्यपारास्तद्भक्ता जपहवनपूजास्तुतिपराः।
गणेशोयं भक्तप्रिय इति सर्वत्र गतयो
   विभक्तिर्यत्रास्ते स्वयमपि सदा तिष्ठति गणः ॥२४॥
मृदः काश्चिद्धातोश्छदविलिखिता वापि दृषदः
   स्मृता व्याजा मूर्तिः पथि यदि बहिर्येन
सहसा।
अशुद्धोऽद्धा द्रष्टा प्रवदति तदाह्वां गणपतेः
    श्रुता शुद्धो मर्त्यो भवति दुरिताद्विस्मय
इति ॥२५॥
बहिर्द्वारस्याध्वं गजवदनवर्ष्मेन्धनमयं
   प्रशस्तं वा कृत्वा विविधकुशलैस्तत्र
निहितं ।
प्रभावात्तन्मूर्त्या भवति सदनं मंगलमयं
   विलोक्यानन्दस्तां भवति जगतो विस्मय
इति ॥२६॥
सिते भाद्रे मासे प्रतिशरदि  मध्याह्नसमये
  मृदो मूर्तिं कृत्वा गणपतितिथौ डुण्ढिसदृशीम्।
समर्चन्नुत्साहः प्रभवति महान् सर्वसदने
  विलोक्यानन्दस्तां प्रभवति नृणां विस्मय
इति ॥२७॥
तथाह्येकःश्लोको वरयति महिम्नो गणपतेः
   कथं स श्लोकेस्मिन् स्तुत इति भये
संप्रति तते।
स्मृतं नामास्यैकं सकृदिदमनन्ताह्वयसमं
    यतो यस्यैकस्य स्तवनसदृशं नान्यदपरम्
॥२८॥
गजवदनविभो यद्वर्णितं वैभवं ते
   त्विह जनुषि ममेत्थं चारु तद्दर्शयाशु।
त्वमसि च करुणायास्सागरः कृत्स्नदाता-
   प्यपि तव भृतकोऽहं सर्वदा चिन्तकोऽस्मि
॥२९॥
सुस्तोत्रं प्रपठतु नित्यमेतदेव
  स्वानन्दं प्रतिगमनेप्ययं सुमार्गः।
सञ्चिन्त्यं स्वमनसि तत्पदारविन्दं
   स्थाप्याग्रे स्तवनफलं नतिः करिष्ये
॥३०॥
गणेशदेवस्य महात्म्यमेत-
  द्यः श्रावयेद्वापि पठेच्च तस्य।
क्लेशा लयं यान्ति लभेच्च शीघ्रं
   स्त्रीपुत्रविद्यार्थगृहं च मुक्तिम् ॥३१॥
 ॥इति श्रीपुष्पदन्तविरचितं श्रीगणेशमहिमस्तोत्रं
संपूर्णम्॥   
  
   

Ganesha Manasa Puja

         गणेशमानसपूजा
विघ्नेशवीर्याणि विचित्रकानि
वन्दीजनैर्मागधकैः स्मृतानि।
श्रुत्वा समुत्थिष्ठ गजानन! त्वं
ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥१॥
एवं मया प्रार्थितविघ्नराज-
श्चित्तेन चोत्थाय बहिर्गणेशं ।
तं निर्गतं वीक्ष्य नमन्ति देवा-
श्शंभ्वादयो योगिमुखास्तथाहम् ॥२॥
शौचादिकं ते परिकल्पयामि
हेरंब! वै  दन्तविशुद्धिमेवम्।
वस्त्रेण संप्रोक्ष्य मुखारविन्दं
देवं सभायां विनिवेशयामि ॥३॥
द्विजादिसर्वैरभिवन्दितं च
शुकादिभिर्मोदसुमोदकाद्यैः।
संभाष्य चालोक्य समुत्थितं तं
सुमण्डपं कल्प्य निवेशयामि ॥४॥
रत्नैः सुदीप्तैः प्रतिबिंबितं तं
पश्यामि चित्तेन विनायकं च।
तत्रासनं रत्नसुवर्णयुक्तं
सङ्कल्प्य देवं विनिवेशयामि ॥५॥
सिद्ध्या च बुद्ध्या सह विघ्नराज!
पाद्यं कुरु प्रेमभरेण सर्वैः ।
सुवासितं नीरमथो गृहाण
चित्तेन दत्तं च सुखोष्णभावम् ॥६॥
ततः सुवस्त्रेण गणेशपादौ
संप्रोक्ष्य दूर्वादिभिरर्चयामि।
चित्तेन भावप्रिय दीनबन्धो
मनो विलीनं कुरुते पदाब्जे॥७॥
कर्पूरकैलादिसुवासितं तु
सुकल्पितं तोयमथो गृहाण।
आचम्य तेनैव गजानन त्वं
कृपाकटाक्षेण विलोकयाशु ॥८॥
प्रवालमुक्ताफलहाटकाद्यै-
स्सुसंस्कृतं ह्यान्तरभावकेन।
अनर्घमर्घ्यं सफलं कुरुष्व
मया प्रदत्तं गणराज डुण्ढे ॥९॥
सौगन्ध्ययुक्तं मधुपर्कमाद्यं
संकल्पितं भावयुतं गृहाण।
पुनस्तथाचम्य विनायक! त्वं
भक्तांश्च भक्तेश सुरक्षयाशु॥१०॥
सुवासितं चंपकजातिकाद्यै-
स्तैलं मया कल्पितमेव डुण्ढे!।
गृहाण तेन प्रविमर्द्दयामि
सर्वाङ्गमेवं तव सेवनाय ॥११॥
ततः सुखोष्णेन जलेन चाह-
मनेकतीर्थाहृतकेन डुण्ढिम्।
चित्तेन शुद्धेन च स्नापयामि
स्नानं मया दत्तमथो गृहाण ॥१२॥
ततः पयःस्नानमचिन्त्यभाव!
गृहाण तोयस्य तथा गणेश।
पुनर्दधिस्नानमनामय त्वं
चित्तेन दत्तं च जलस्य चैव ॥१३॥
ततो घृतस्नानमपारवन्द्य!
सुतीर्थजं विघ्नहर! प्रसीद।
गृहाण चित्तेन सुकल्पितं तु
ततो मधुस्नानमथो जलस्य ॥१४॥
सुशर्करायुक्तमथो गृहाण
स्नानं मया कल्पितमेव डुण्ढे!।
ततो जलस्नानमघापहन्त्रे
विघ्नेश! मायाभ्रम वारयाशु ॥१५॥
सुयक्षपङ्कस्थमथो गृहाण
स्नानं परेशाधिपते! ततश्च।
कौमण्डलीसंभवजं कुरुष्व
विशुद्धमेवं परिकल्पितं तु॥१६॥

ततस्तु सूक्तैर्मनसा गणेशं
संपूज्य दूर्वादिभिरल्पभावैः।
अपारकैर्मण्डलभूतब्रह्म-
णस्पत्यकैस्तं ह्यभिषेचयामि ॥१७॥
ततः सुवस्त्रेण तु प्रोञ्छनं त्वं
गृहाण चित्तेन मया सुकल्पितम् ।
ततो विशुद्धेन जलेन डुण्ढे!
ह्याचान्तमेवं कुरु विघ्नराज! ॥१८॥
अग्नौ विशुद्धे तु गृहाण वस्त्रे
ह्यनर्घमौल्ये मनसा मया ते।
दत्ते परिच्छाद्य निजात्मदेहं
ताभ्यां मयूरेश जनांश्च पालय॥१९॥
आचम्य विघ्नेश पुनस्तथैव
चित्तेन दत्तं सुखमुत्तरीयम् ।
गृहाण भक्तप्रतिपालक त्वं
नमो तथा तारकसंयुतन्तु॥२०॥
यज्ञोपवीतं त्रिगुणस्वरूपं
सौवर्णमेवं ह्यहिनाथभूतम्।
भावेन दत्तं गणनाथ तत्त्वं
गृहाण भक्तोद्धृतिकारणाय ॥२१॥
आचाममेवं मनसा प्रदत्तं
कुरुष्व शुद्धेन जलेन डुण्ढे!
पुनश्च कौमण्डलकेन पाहि
विश्वं प्रभो खेलकरं सदा ते ॥२२॥
उद्यद्दिनेशाभमथो गृहाण
सिन्दूरकं ते मनसा प्रदत्तं।
सर्वांगसंलेपनमादराद्वै
कुरुष्व हेरंब! च तेन पूर्णम् ॥२३॥
सहस्रशीर्षं मनसा मया त्वं
दत्तं किरीटं तु सुवर्णजं वै।
अनेकरत्नैः खचितं गृहाण
ब्रह्मेश ते मस्तकशोभनाय ॥२४॥
विचित्ररत्नैः कनकेन डुण्ढे!
युतानि चित्तेन मया परेश!
दत्तानि नानापदकुण्डलानि
गृहाण शूर्पश्रुतिभूषणानि॥२५॥
शुण्डाविभूषार्थमनन्तखेलिन्
सुवर्णजं कञ्चुकमागृहाण।
रत्नैश्च युक्तं मनसा मया य-
द्दत्तं प्रभो! तत्सफलं कुरुष्व ॥२६॥
सुवर्णरत्नैश्चयुतानि डुण्ढे!
सदैकदन्ताभरणानि कल्प्य
गृहाण चूडाकृतये परेश!
दत्तानि दन्तस्य च शोभनार्थम् ॥२७॥
रत्नैः सुवर्णेन कृतानि तानि
गृहाण चत्वारि मया प्रकल्प्य।
संभूषय त्वं कटकानि नाथ!
चतुर्भुजेषु ह्यज! विघ्नहारिन् ॥२८॥
विचित्ररत्नैः खचितं सुवर्ण-
संभूतकं गृह्य मया प्रदत्तं
तथांगुलीष्वंगुलिकं गणेश
चित्तेन संशोभय तत् परेश ॥२९॥
विचित्ररत्नैः खचितानि डुण्ढे!
केयूरकाणि ह्यथ कल्पितानि।
सुवर्णजानि प्रमथाधिनाथ!
गृहाण दत्तानि तु बाहुषु त्वं ॥३०॥
प्रवालमुक्ताफलरत्नजैस्त्वं
सुवर्णसूत्रैश्च गृहाण कण्ठे।
चित्तेन दत्ता विविधाश्च माला
उरूदरे शोभय विघ्नराज! ॥३१॥
चन्द्रं ललाटे गणनाथ! पूर्णं
वृद्धिक्षयाभ्यां तु विहीनमाद्यम्।
संशोभय त्वं वरसंयुतं ते
भक्तप्रियत्वं प्रकटीकुरुष्व ॥३२॥
चिन्तामणिं चिन्तितदं परेश!
हृद्देशगं ज्योतिर्मयं कुरुष्व।
मणिं सदानन्दसुखप्रदं च
विघ्नेश! दीनार्थद! पालयस्व ॥३३॥
नाभौ फणीशं च सहस्रशीर्षं
संवेष्टनेनैव गणाधिनाथ!
भक्तं सुभूषं कुरु भूषणेन
वरप्रदानं सफलं परेश! ॥३४॥
कटीतटे रत्नसुवर्णयुक्तां
काञ्चीं सुरत्नेन च धारयामि।
विघ्नेश! ज्योतिर्गणदीपनीं ते
प्रसीद भक्तं कुरु मां दयाब्धे ॥३५॥
हेरंब! ते रत्नसुवर्णयुक्ते
सुनूपुरे मञ्जरिके तथैव।
सुकिङ्किणीनादयुते सुबुद्ध्या
सुपादयोः शोभय मे प्रदत्ते ॥३६॥
इत्यादि नानाविधभूषणानि
तवेच्छया मानसकल्पितानि।
संभूषयाम्येव त्वदंगकेषु
विचित्रधातुप्रभवाणि डुण्ढे! ॥३७॥
सुचन्दनं रक्तममोघवीर्यं
सुघर्षितं ह्यष्टक गन्धमुख्यैः ।
युक्तं मया कल्पितमेकदन्त!
गृहाण ते त्वंगविलेपनार्थम् ॥३८॥
लिप्तेषु वैचित्र्यमथाष्टगन्धै-
रंगेषु तेऽहं प्रकरोमि चित्रम्।
प्रसीद चित्तेन विनायक त्वं
ततः सुरक्तं रविमेव फाले ॥३९॥
घृतेन वै कुङ्कुमकेन रक्तान्
सुतण्डुलांस्ते परिकल्पयामि।
फाले गणाध्यक्ष! गृहाण पाहि
भक्तान् सुभक्तप्रिय दीनबन्धो! ॥४०॥
गृहाण चंपकमालतीनि
जलपंकजानि स्थलपंकजानि।
चित्तेन दत्तानि च मल्लिकानि
पुष्पाणि नानाविधवृक्षजानि ॥४१॥
पुष्पोपरि त्वं मनसा गृहाण
हेरंब! मन्दारशमीदलानि ।
मया सुचित्तेन च कल्पितानि
ह्यपारकाणि प्रणवाकृते! ते ॥४२॥
दूर्वांकुरान् वै मनसा प्रदत्तां-
स्त्रिपंचपत्रैर्यतकांश्च स्निग्धान्।
गृहाण विघ्नेश्वर! संख्यया त्वं
हीनांश्च 
सर्वोपरि वक्रतुण्ड! ॥४३॥
दशांगभूतं मनसा मया ते
धूपं प्रदत्तं गणराज डुण्ढे! ।
गृहाण सौरभ्यकरं परेश!
सिध्या च बुध्या सह भक्तपाल! ॥४४॥
   
दीपं सुवर्त्यायुतमादरात्ते
दत्तं मया मानसकं गणेश!
गृहाण नानाविधजं घृतादि
तैलादिसंभूतममोघदृष्टे! ॥४५॥
भोज्यं तु लेह्यं गणराज! पेयं
चोष्यं च नानाविधषड्रसाढ्यम्।
गृहाण नैवेद्यमथो मया ते
सुकल्पितं पुष्टिपते महात्मन् ॥४६॥
सुवासितं भोजनमध्यभागे
जलं मया दत्तमथो गृहाण।
कमण्डलुस्थं मनसा गणेश!
पिबस्व विश्वादिक तृप्तिकारिन् ॥४७॥
ततः करोद्वर्तनकं गृहाण
सौगन्ध्ययुक्तं मुखमार्जनाय।
सुवासितेनैव सुतीर्थजेन
सुकल्पितं नाथ गृहाण डुण्ढे!॥४८॥
पुनस्तथाचम्य सुवासितञ्च
दत्तं मया तीर्थजलं पिबस्व।
प्रकल्प्य विघ्नेश! ततः परं ते
संप्रोञ्छनं हस्तमुखे करोमि ॥४९॥
द्राक्षादिरंभाफलचूतकानि
खर्जूरकार्कन्धुकदाडिमानि।
सुस्वादुयुक्तानि मया प्रकल्प्य
गृहाण दत्तानि फलानि डुण्ढे! ॥५०॥
पुनर्जलेनैव करादिकं ते
संक्षालयेऽहं मनसा गणेश!।
सुवासितं तोयमथो पिबस्व
मया प्रदत्तं मनसा परेश! ॥५१॥
अष्टांगयुक्तं गणनाथ! दत्तं
तांबूलकं ते मनसा मया वै।
गृहाण विघ्नेश्वर! भावयुक्तं
सदा सकृत्तुण्डविशोधनार्थं ॥५२॥
ततो मया कल्पितके गणेश!
महासने रत्नसुवर्णयुक्ते ।
मन्दारकूर्पासकयुक्तवस्त्रै-
रनर्घ्यसंछादितके प्रसीद ॥५३॥
ततस्त्वदीयं चरणं परेश!
संपूजयामि मनसा यथावत्।
नानोपचारैः परमप्रियैस्तु
त्वत्प्रीतिकामोऽहमनाथबन्धो॥५४॥
गृहाण लंबोदर! दक्षिणां ते
ह्यसंख्यभूतां मनसा प्रदत्ताम्।
सौवर्णमुद्रादिकमुख्य भावां
पाहि प्रभो विश्वमिदं गणेश!॥५५॥
राजोपचारान् विविधान् गृहाण
हस्त्यश्वछत्रादिकमादराद्वै।
चित्तेन दत्तान् गणनाथ! डुण्ढे!
ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥५६॥
दानाय नानाविधरूपकांस्ते
गृहाण दत्तान् मनसा मया वै।
पदार्थभूतां स्थिरजंगमांश्च
हेरंब!  मां तारय मोहभावात्॥५७॥
मन्दारपुष्पाणि शमीदलानि
दुर्वांकुरांस्ते मनसा ददामि।
हेरंब! लंबोदर दीनपाल! 
गृहाण भक्तं कुरु मां पदे ते ॥५८॥
ततो हरिद्रामहिरंगुलालं
सिन्दूरकं ते परिकल्पयामि।
सुवासितं वस्तु सुवासभूतै-
र्गृहाण ब्रह्मेश्वर शोभनार्थम्॥५९॥
ततश्शुकाद्याश्शिवविष्णुमुख्या
इन्द्रादयश्शेषमुखास्तथान्ये।
मुनीन्द्रकाः सेवकभावयुक्ताः
सभाशिवस्थं प्रणमन्ति डुण्ढे!॥६०॥
वामांगके शक्तियुता गणेशं
सिद्धिस्तु नानाविधसिद्धिभिस्तं।
अत्यन्तभावेन सुसेवते तु
मायास्वरूपं परमार्थभूता॥६१॥
गणेश्वरं दक्षिणभागसंस्था
बुद्धिः कलाभिश्च सुबोधिकाभिः।
विद्याभिरेवं भजते परेशं
मायासु सांख्यप्रदचित्तरूपा ॥६२॥
प्रमोदमोदादयः पृष्ठभागे
गणेश्वरं भावयुता भजन्ते।
भक्तेश्वरा मुद्गलशंभुमुख्याः
शुकादयस्तं स्म पुरे भजन्ते॥६३॥
गन्धर्वमुख्या मधुरं जगुश्च
गणेशगीतं विविधस्वरूपं।
नृत्यं कलायुक्तमथो पुरस्ता-
च्चक्रुस्तथाह्यप्सरसो विचित्रम्॥६४॥
इत्यादि नानाविधभावयुक्तैः
संसेवितं विघ्नपतिं भजामि।
चित्तेन ध्यात्वा तु निरञ्जनं वै
करोमि नानाविधदीपयुक्तम् ॥६५॥
चतुर्भुजं पाशधरं गणेशं
धृतांकुशं दन्तयुतं तमेवम्।
त्रिनेत्रयुक्तं त्वभयंकरं तं
महोदरं चैकरदं गजास्यम् ॥६६॥
सर्पोपवीतं गजकर्णधारं
विभूतिभिः सेवितपादपद्मम्।
ध्याये गणेशं विविधप्रकारैः
सुपूजितं शक्तियुतं परेशम्  ॥६७॥
ततो जपं वै मनसा करोमि
स्वमूलमन्त्रस्य विधानयुक्तम्।
असंख्यभूतं गणराजहस्ते
समर्पयाम्येव गृहाण डुण्ढे! ॥६८॥
आरात्रिकां कर्पुरकादिभूता-
मपारदीपां प्रकरोमि पूर्णाम्।
चित्तेन लंबोदर्! तां गृहाण-
ह्यज्ञानध्वान्ताघहरां निजानाम् ॥६९॥
वेदेषु वैघ्नेश्वरकैः सुमन्त्रैः
सम्मन्त्रितं पुष्पदलं प्रभूतं
गृहाण चित्तेन मया प्रदत्त-
मपारवृत्त्या त्वथ मन्त्रपुष्पम् ॥७०॥
अपारवृत्त्या स्तुतिमेकदन्त!
गृहाण चित्तेन कृतां गणेश!।
युक्तां श्रुतिस्मार्त्तभवैः पुराणैः
स्तवैः परेशाधिपते मया ते ॥७१॥
प्रदक्षिणा मानसकल्पितास्ता
गृहाण लंबोदर भावयुक्ताः।
संख्याविहीना विविधस्वरूपा
भक्तान् सदा रक्ष भवार्णवाद्वै ॥७२॥
नतिं ततो विघ्नपते गृहाण
साष्टांगकाद्यां विविधस्वरूपाम्।
संख्याविहीनां मनसा कृतां ते
सिद्ध्या च बुद्ध्या परिपालयाशु॥७३॥
न्यूनातिरिक्ता तु मया कृतं चे-
त्तदर्थमन्ते मनसा गृहाण।
दूर्वांकुरान् विघ्नपते प्रदत्तान्
संपूर्णमेवं कुरु पूजनं मे ॥७४॥
क्षमस्व विघ्नाधिपते मदीयान्
सदापराधान् विविधस्वरूपान्।
भक्तिं मदीयां सफलां कुरुष्व
संप्रार्थयामि मनसा गणेश ॥७५॥
ततः प्रसन्नेन गजाननेन
दत्तं प्रसादं शिरसाभिवन्द्य।
स्वमस्तके तं परिधारयामि
चित्तेन विघ्नेश्वरमानतोऽस्मि ॥७६॥
उत्थाय विघ्नेश्वर एवमस्माद्-
गतस्ततस्त्वन्तरधात्स्वशक्त्या ।
शिवादयस्तं प्रणिपत्य सर्वे
गताः सुचित्तेन च चिन्तयामि ॥७७॥
सर्वान् नमस्कृत्य ततोऽहमेव
भजामि चित्तेन गणाधिपं तं।
स्वस्थानमागत्य महानुभावै-
र्भक्तैर्गणेशस्य च खेलयामि ॥७८॥
  
एवं त्रिकालेषु गणाधिपं तं
चित्तेन नित्यं परिपूजयामि।
तेनैव तुष्टः प्रददातु भावं
विघ्नेश्वरो भक्तिमयं तु मह्यम् ॥७९॥
गणेशपादोदकपानकञ्च
उच्छिष्टगन्धस्य सुलेपनं तु।
निर्माल्य सन्धारणकं सुभोज्यं
लंबोदरस्यास्तु हि भुक्तशेषम् ॥८०॥
यं यं करोम्येव तदेव दीक्षा
गणेश्वरस्यास्तु सदा गणेश!।
प्रसीद नित्यं तव पादभक्तं
कुरुष्व मां ब्रह्मपते दयालो ॥८१॥
ततस्तु शय्यां परिकल्पयामि
मन्दारकूर्पासकवस्त्रयुक्ताम्।
सुवासपुष्पादिभिरर्चितां ते
गृहाण निद्रां कुरु विघ्नराज ॥८२॥
सिद्ध्या च बुद्ध्या सहितं गणेशं
सुनिद्रितं वीक्ष्य तथाहमेव ।
गत्वा स्ववासं च करोमि निद्रां
ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥८३॥
एतादृशं सौख्यममोघशक्तं
देहि प्रभो मानसजं गणेश!।
मह्यं च तेनैव कृतार्थरूपो
भवामि भक्तीरसलालसोऽहम् ॥८४॥
य एतां मानसीपूजां
करिष्यति नरोत्तमः।
पठिष्यति सदा सोऽपि
गाणपत्यो भविष्यति ॥८५॥
श्रावयिष्यति यो मर्त्यः
श्रोष्यते भावसंयुतः।
संक्रमेण महीपाल
ब्रह्मभूतो भविष्यति ॥८६॥
यं यमिच्छति तं तं वै
सफलं तस्य जायते।
अन्ते स्वानन्दगः सोऽपि
योगिवन्द्यो भविष्यति ॥८७॥

RAMAPATYASHTAKAM

   रमापत्यष्टकम्
जगदादिमनादिमजं पुरुषं
   शरदंबरतुल्यतनुं
वितनुम्।
धृतकञ्जरथांगगदं विगदं
    प्रणमामि रमाधिपतिं
तमहम्॥१॥
कमलाननकञ्जरतं विरतं
   हृदि योगिजनैः
कलितं ललितम्।
कुजनैस्सुजनैरलभं सुलभं
    प्रणमामि रमाधिपतिं तमहम्॥२॥
मुनिवृन्दहृदिस्थपदं सुपदं
  निखिलाध्वरभागभुजं
सुभुजम्।
हृतवासवमुख्यमदं विमदं
   प्रणमामि रमाधिपतिं
तमहम्॥३॥
हृतदानवदृप्तबलं सुबलं
  स्वजनास्तसमस्तमलं
विमलम्।
समपास्तगजेन्द्रदरं सुदरं
  प्रणमामि रमाधिपतिं
तमहम्॥४॥
परिकल्पितसर्वकलं विकलं
   सकलागमगीतगुणं
विगुणम्।
भवपाशनिराकरणं शरणं
    प्रणमामि रमाधिपतिं
तमहम्॥५॥

 मृतिजन्मजराशमनं कमनं

   शरणागतभीतिहरं
दहरम्।
परिपुष्टमहाहृदयं सुदयं
    प्रणमामि
रमाधिपतिं तमहम्॥६॥
सकलावनिबिम्बधरं स्वधरं
   परिपूरितसर्वदिशं
सुदृशम्।
गतशोकमशोककरं सुकरं
   प्रणमामि रमाधिपतिं
तमहम्॥७॥
मथितार्णवराजरसं सरसं
   ग्रथिताखिललोकहृदं
सुहृदम्।
प्रथिताद्भुतशक्तिगुणं सुगुणम्
   प्रणमामि रमाधिपतिं
तमहम्॥८॥
सुखराशिकरं भवबन्धहरं
   परमाष्टकमेतदनन्यमतिः।
पठतीह तु योऽनिशमेव नरो
   लभते खलु विष्णुपदं स परम्॥९॥

NARAYANA STOTRAM

        नारायणस्तोत्रम्


नारायण नारायण जय गोविन्द हरे।
नारायण नारायण जय गोपाल हरे॥

करुणापारावार! वरुणालयगंभीर! – नारायण! 1
घननीरदसंकाश! कृतकलिकल्मषनाशन! –  नारायण! २
यमुनातीरविहार! धृतकौस्तुभमणिहार! – नारायण! ३
पीताम्बरपरिधान! सुरकल्याणनिधान!
– नारायण! ४
मञ्जुलगुञ्जाभूष! मायामानुषवेष! – नारायण! ५
राधाधरमधुरसिक! रजनिकरकुलतिलक! – नारायण! ६
मुरलीगानविनोद! वेदस्तुतिभूपाद! – नारायण! ७
बर्हिनिबर्हापीड! नटनाटकफणिक्रीड! – नारायण! ८
वारिजभूषाभरण! वारिजपुत्रीरमण! – नारायण! ९
जलरुहसन्निभनेत्र! जगदारंभकसूत्र! – नारायण! १०
पातकरजनीसंहार! करुणालय मामुद्धर – नारायण ११
अघबकक्षय कंसारे! केशव कृष्ण मुरारे! – नारायण! १२
हाटकनिभपीताम्बर! 
अभयं कुरु मे मावर! – नारायण! १३
दशरथराजकुमार! दानवमदसंहार! – नारायण! १४
गोवर्धनगिरिरमण! गोपीमानसहरण! – नारायण! १५
सरयूतीरविहार! सज्जनऋषिमन्दार! – नारायण! १६
विश्वामित्रमखत्र! विविधपरासुचरित्र! – नारायण! १७
ध्वजवज्राङ्कुशपाद!
धरणिसुतासहमोद! – नारायण! १८
जनकसुताप्रतिपाल! जयजयसंसृतिलील!
– नारायण! १९
दशरथवाग्धृतिभार! दण्डकवनसञ्चार!
– नारायण! २०
मुष्टिकचाणूरसंहार!
मुनिमानसविहार! – नारायण! २१
बालिविनिग्रहशौर्य!
वरसुग्रीवहितार्य! – नारायण! २२
मां मुरलीधरधीवर! पालय
पालय श्रीवर! – नारायण! २३
जलनिधिबन्धनधीर! रावणकण्ठविदार!
– नारायण! २४
ताटीमददलनाढ्य! नटगुणविधगानाढ्य!
– नारायण! २५
गौतमपत्नीपूजन! करुणाघनावलोकन!
– नारायण! २६
संभ्रमसीताहार! साकेतपुरविहार!
– नारायण! २७
अचलोद्धृतिचञ्चत्कर!
भक्तानुग्रहतत्पर! – नारायण २८
नैगमगानविनोद! रक्षःसुतप्रह्लाद!
– नारायण २९



HYMNS TO KRISHNA – GOVINDA DAMODARA STOTRAM

गोविन्ददामोदरस्तोत्रम्
 अग्रे कुरूणामथ पाण्डवानां दुःशासनेनाहृतवस्त्रकेशा ।
कृष्णा तदाक्रोशदनन्यनाथा गोविन्द
दामोदर माधवेति ॥ १ ॥
श्री कृष्ण विष्णो मधुकैटभारे
भक्तानुकम्पिन् भगवन् मुरारे ।
त्रायस्व मां केशव लोकनाथ गोविन्द
दामोदर माधवेति ॥ २ ॥
विक्रेतुकामाखिलगोपकन्या मुरारिपादार्पितचित्तवृत्तिः
दध्यादिकं मोहवशादवोचद् गोविन्द
दामोदर माधवेति ॥ ३ ॥
उलूखले संभृततण्डुलांश्च संघट्टयन्त्यो
मुसलैः प्रमुग्धाः ।
गायन्ति गोप्यो जनितानुरागा
गोविन्द दामोदर माधवेति ॥ ४ ॥
काचित्करांभोजपुटे निषण्णं
क्रीडाशुकं किंशुकरक्ततुण्डं ।
अध्यापयामास सरोरुहाक्षी गोविन्द
दामोदर माधवेति ॥ ५ ॥
गृहे गृहे गोपवधू समूहः प्रतिक्षणं
पिन्ञ्जरसारिकाणां ।
स्खलद्गिरं वाचयितुं प्रवृत्तो
गोविन्द दामोदर माधवेति ॥ ६ ॥
पर्यङ्किकाभाजमलं कुमारं प्रस्वापयन्त्योऽखिलगोपकन्याः
जगुः प्रबन्धं स्वरतालबन्धं
गोविन्द दामोदर माधवेति ॥ ७ ॥
रामानुजं वीक्षणकेलिलोलं गोपी
गृहीत्वा नवनीतगोलं ।
आबालकं बालकमाजुहाव गोविन्द
दामोदर माधवेति ॥ ८ ॥
विचित्रवर्णाभरणाभिरामेऽभिधेहि
वक्त्रांबुजराजहंसि ।
सदा मदीये रसनेऽग्ररङ्गे गोविन्द
दामोदर माधवेति ॥ ९ ॥
अङ्काधिरूढं शिशुगोपगूढं स्तनंधयन्तं
कमलैककान्तं ।
संबोधयामास मुदा यशोदा गोविन्द
दामोदर माधवेति ॥ १० ॥
क्रीडन्तमन्तर्व्रजमात्मजं
स्वं समं वयस्यैः पशुपालबालैः ।
प्रेम्णा यशोदा प्रजुहाव कृष्णं
गोविन्द दामोदर माधवेति ॥ ११ ॥
यशोदया गाढमुलूखलेन गोकण्ठपाशेन
निबध्यमानः ।
रुरोद मन्दं नवनीतभोजी गोविन्द
दामोदर माधवेति ॥ १२ ॥
निजाङ्गणे कङ्कणकेलिलोलं गोपी
गृहीत्वा नवनीतगोलं ।
आमर्दयत्पाणितलेन नेत्रे गोविन्द
दामोदर माधवेति ॥ १३ ॥
गृहे गृहे गोपवधूकदम्बाः सर्वे
मिलित्वा समवाययोगे ।
पुण्यानि नामानि पठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥ १४ ॥
 
मन्दारमूले वदनाभिरामं बिम्बाधरापूरित
वेणुनादं ।
गोगोपगोपीजनमध्यसंस्थं गोविन्द
दामोदर माधवेति ॥ १५ ॥
उत्थाय गोप्योऽपररात्रभागे
स्मृत्वा यशोदासुतबालकेलिम् ।
गायन्ति प्रोच्चैर्दधि मन्थयन्त्यो
गोविन्द दामोदर माधवेति ॥ १६ ॥
जग्धोऽथ दत्तो नवनीतपिण्डो
गृहे यशोदा विचिक्त्सयन्ती ।
उवाच सत्यं वद हे मुरारे गोविन्द
दामोदर माधवेति ॥ १७ ॥
अभ्यर्च्य गेहं युवतिः प्रवृद्धप्रेमप्रवाहा
दधि निर्ममन्थ ।
गायन्ति गोप्योऽथ सखीसमेता
गोविन्द दामोदर माधवेति ॥ १८ ॥
क्वचित् प्रभाते दधिपूर्णपात्रे
निक्षिप्य मन्थं युवती मुकुन्दं ।
आलोक्य गानं विविधं करोति गोविन्द
दामोदर माधवेति ॥ १९ ॥
क्रीडापरं भोजनमज्जनार्थं हितैषिणी
स्त्री तनुजं यशोदा ।
आजूहवत् प्रेमपरिप्लुताक्षी
गोविन्द दामोदर माधवेति ॥ २० ॥
सुखं शयानं निलये च विष्णुं
देवर्षिमुख्या मुनयः प्रपन्नाः ।
तेनाच्युते तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥ २१ ॥
विहाय निद्रामरुणोदये च विधाय
कृत्यानि च विप्रमुख्याः ।
वेदावसाने प्रपठन्ति नित्यं
गोविन्द दामोदर माधवेति ॥ २२ ॥
वृन्दावने गोपगणाश्च गोप्यो
विलोक्य गोविन्द वियोगखिन्नाम् ।
राधां जगुः साश्रुविलोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ २३ ॥
प्रभातसञ्चारगता नु गावस्तद्रक्षणार्थं
तनयं यशोदा ।
प्राबोधयत् पाणितलेन मन्दं
गोविन्द दामोदर माधवेति ॥ २४ ॥
प्रवालशोभा इव दीर्घकेशा वाताम्बुपर्णाशनपूतदेहाः
मूले तरूणां मुनयः पठन्ति गोविन्द
दामोदर माधवेति ॥ २५ ॥
एवं बृवाणा विरहातुरा भृशं
व्रजस्त्रियः कृष्णविषक्तमानसाः ।
विसृज्ज्य लज्जां रुरुदुः स्म
सुस्वरं गोविन्द दामोदर माधवेति ॥ २६ ॥
गोपी कदाचिन्मणिपिञ्जरस्थं
शुकं वचो वाचयितुं प्रवृत्ता ।
आनन्दकन्द व्रजचन्द्रकृष्ण
गोविन्द दामोदर माधवेति ॥ २७ ॥
गोवत्सबालैः शिशुकाकपक्षं बध्नन्तमम्भोजदलायताक्षम्
उवाच माता चिबुकं गृहीत्वा
गोविन्द दामोदर माधवेति ॥ २८ ॥
प्रभातकाले वरवल्लवौघा गोरक्षणार्थं
धृतवेत्रदण्डाः ।
आकारयामासुरनन्तमाद्यं गोविन्द
दामोदर माधवेति ॥ २९ ॥
लाशये कालियमर्दनाय यदा कदम्बादपतन्मुरारिः
गोपाङ्गनाश्चुक्रुशुरेत्य गोपा
गोविन्द दामोदर माधवेति ॥ ३० ॥
अक्रूरमासाद्य यदा मुकुन्दश्चापोत्सवार्थं
मथुरां प्रविष्टः ।
तदा स पौरैर्जयतीत्यभाषि गोविन्द
दामोदर माधवेति ॥ ३१ ॥
कंसस्य दूतेन यदैव नीतौ वृन्दावनान्ताद्वसुदेवसूनू ।
रुरोद गोपी भवनस्य मध्ये गोविन्द
दामोदर माधवेति ॥ ३२ ॥
सरोवरे कालियनागबद्धं शिशुं
यशोदातनयं निशम्य ।
चक्रुर्लुठन्त्यः पथि गोपबाला
गोविन्द दामोदर माधवेति ॥ ३३ ॥
अक्रूरयाने यदुवंशनाथं संगच्छमानं
मथुरां निरीक्ष्य ।
ऊचुर्वियोगात् किल गोपबाला
गोविन्द दामोदर माधवेति ॥ ३४ ॥
चक्रन्द गोपी नलिनीवनान्ते
कृष्णेन हीना कुसुमे शयाना ।
प्रफुल्लनीलोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ ३५ ॥
मातापितृभ्यां परिवार्यमाणा
गेहं प्रविष्टा विललाप गोपी ।
आगत्य मां पालय विश्वनाथ गोविन्द
दामोदर माधवेति ॥ ३६ ॥
वृन्दावनस्थं हरिमाशु बुद्ध्वा
गोपी गता कापि वनं निशायाम् ।
तत्राप्यदृष्ट्वातिभयादवोचद्गोविन्द दामोदर माधवेति ॥ ३७ ॥
सुखं शयाना निलये निजेऽपि नामानि
विष्णोः प्रवदन्ति मर्त्याः ।
ते निश्चितं तन्मयतां व्रजन्ति
गोविन्द दामोदर माधवेति ॥ ३८ ॥
सा नीरजाक्षीमवलोक्य राधां
रुरोद गोविन्दवियोगखिन्नाम् ।
सखी प्रफुल्लोत्पललोचनाभ्यां
गोविन्द दामोदर माधवेति ॥ ३९ ॥
जिह्वे रसज्ञे मधुरप्रिया त्वं
सत्यं हितं त्वां परमं वदामि ।
आवर्णयेथा मधुराक्षराणि गोविन्द
दामोदर माधवेति ॥ ४० ॥
आत्यन्तिकव्याधिहरं जनानां
चिकित्सकं वेदविदो वदन्ति ।
संसारतापत्रयनाशबीजं गोविन्द
दामोदर माधवेति ॥ ४१ ॥
ताताज्ञया गच्छति रामचन्द्रे
सलक्ष्मणेऽरण्यचये ससीते ।
चक्रन्द रामस्य निजा जनित्री
गोविन्द दामोदर माधवेति ॥ ४२ ॥
एकाकिनी दण्डककाननान्तात् सा
नीयमाना दशकन्धरेण ।
सीता तदाऽऽक्रन्ददनन्यनाथा गोविन्द
दामोदर माधवेति ॥ ४३ ॥
रामाद्वियुक्ता जनकात्मजा सा
विचिन्तयन्ती हृदि रामरूपम् ।
रुरोद सीता रघुनाथ पाहि गोविन्द
दामोदर माधवेति ॥ ४४ ॥
प्रसीद विष्णो रघुवंशनाथ सुरासुराणां
सुखदुःखहेतो ।
रुरोद सीता तु समुद्रमध्ये
गोविन्द दामोदर माधवेति ॥ ४५ ॥
अन्तर्जले ग्राहगृहीतपादो विसृष्टविक्लिष्ट
समस्तबन्धुः ।
तदा गजेन्द्रो नितरां जगाद
गोविन्द दामोदर माधवेति ॥ ४६ ॥
हंसध्वजः शङ्खयुतो ददर्श पुत्रं
कटाहे प्रपतन्तमेनं ।
पुण्यानि नामानि हरेर्जपन्तं
गोविन्द दामोदर माधवेति ॥ ४७ ॥
दुर्वाससो वाक्यमुपेत्य कृष्णा
साचाब्रवीत् काननवासिनीशम् ।
अन्तःप्रविष्टं मनसाऽऽजुहाव गोविन्द
दामोदर माधवेति ॥ ४८ ॥
ध्येयः सदा योगिभिरप्रमेयश्चिन्ताहरश्चिन्तितपारिजातः
कस्तूरिकाकल्पितनीलवर्णो गोविन्द
दामोदर माधवेति ॥ ४९ ॥
संसारकूपे पतितोऽत्यगाधे मोहान्धपूर्णे
विषयाभितप्ते ।
करावलंबं मम देहि विष्णो गोविन्द
दामोदर माधवेति ॥ ५० ॥
त्वामेव याचे मम देहि जिह्वे
समागते दण्डधरे कृतान्ते ।
वक्तव्यमेवं मधुरं सुभक्त्या
गोविन्द दामोदर माधवेति ॥ ५१ ॥
भजस्व मन्त्रं भवबन्धमुक्त्यै
जिह्वे रसज्ञे सुलभं मनोज्ञं ।
द्वैपायनाद्यैर्मुनिभिः प्रजप्तं
गोविन्द दामोदर माधवेति ॥ ५२ ॥
गोपाल वंशीधर रूपसिन्धो लोकेश
नारायण दीनबन्धो ।
उच्चस्वरैस्त्वं वद सर्वदैव
गोविन्द दामोदर माधवेति ॥ ५३ ॥
जिह्वे सदैवं भज सुन्दराणि
नामानि कृष्णस्य मनोहराणि ।
समस्तभक्तार्तिविनाशनानि गोविन्द
दामोदर माधवेति ॥ ५४ ॥
गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द मुकुन्द कृष्ण ।
गोविन्द गोविन्द रथाङ्गपाणे
गोविन्द दामोदर माधवेति ॥ ५५ ॥
सुखावसाने त्विदमेव सारं दुःखावसाने
त्विदमेव गेयं ।
देहावसाने त्विदमेव जाप्यं
गोविन्द दामोदर माधवेति ॥ ५६ ॥
दुर्वारवाक्यं परिगृह्य कृष्णा
मृगीव भीता तु कथं कथञ्चित् ।
सभां प्रविष्टा मनसाऽऽजुहाव गोविन्द
दामोदर माधवेति ॥ ५७ ॥
 
श्रीकृष्ण राधावर गोकुलेश गोपाल
गोवर्धननाथ विष्णो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ५८ ॥
श्रीनाथ विश्वेश्वर विश्वमूर्ते
श्रीदेवकीनन्दन दैत्यशत्रो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ५९ ॥
गोपीपते कंसरिपो मुकुन्द लक्ष्मीपते
केशव वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६० ॥
गोपीजनाह्लादकर व्रजेश गोचारणारण्यकृतप्रवेश
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६१ ॥
प्राणेश विश्वंभर कैटभारे वैकुण्ठ
नरायण चक्रपाणे ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६२ ॥
हरे मुरारे मधुसूदनाद्य श्रीराम
सीतावर रावणारे ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६३ ॥
श्रीयादवेन्द्राद्रिधराम्बुजाक्ष
गोगोपगोपीसुखदानदक्ष ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६४ ॥
धराभरोत्तारणगोपवेष विहारलीलाकृतबन्धुशेष
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६५ ॥
बकीबकाघासुरधेनुकारे केशीतृणावर्तविघातदक्ष
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६६ ॥
श्रीजानकीजीवन रामचन्द्र निशाचरारे
भरताग्रजेश ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६७ ॥
नारायणानन्त हरे नृसिंह प्रह्लादबाधाहर
हे कृपालो ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६८ ॥
लीलामनुष्याकृतिरामरूप प्रतापदासीकृतसर्वभूप
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ६९ ॥
श्रीकृष्ण गोविन्द हरे मुरारे
हे नाथ नारायण वासुदेव ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ७० ॥

वक्तुं समर्थोऽपि न वक्ति कश्चिदहो
जनानां व्यसनाभिमुख्यम् ।
जिह्वे पिबस्वामृतमेतदेव गोविन्द
दामोदर माधवेति ॥ ७१ ॥
                     
Go to Table of Contents/Master index of Postsprramamurthy1931.blogspot.in/krishna01

AYUR DEVI STOTRAM

         आयुर्देवी स्तोत्रम्
ध्यायेत् हेमांबुजारूढां वरदाभयपाणिकाम्।
आयुष्यदेवतां नित्यां आश्रिताभीष्टसिद्धिदाम्॥१॥
आयुर्देवि महाप्राज्ञे सूतिकागृहवासिनि
पूजिता परया भक्त्या दीर्घमायुः प्रयच्छ मे॥२॥

सिंहस्कन्धगतां देवीं चतुर्हस्तां त्रिलोचनाम्।
शक्तिशूलगदापद्मधारिणीं चन्द्रमौलिकाम् ॥३॥

विचित्रवस्त्रसंयुक्तां स्वर्णाभरणभूषिताम्।
सिंहस्कन्धगतां देवीं चतुर्हस्तां त्रिलोचनाम् ॥४॥
सिंहस्कन्धगते देवि सुरासुरसुपूजिते।
प्रभवात्यब्दके संघे आयुर्देवि नमोऽस्तु ते॥५॥
आयुर्देवि नमस्तुभ्यं वर्षदेवि नमोऽस्तु ते।
आयुर्देहि बलं देहि सर्वारिष्टं व्यपोहय॥६॥
आयुष्मदात्मिकां देवीं करालवदनोज्ज्वलाम्।
घोररूपां सदा ध्यायेत् आयुष्यं याचयाम्यहम्॥७॥
शुभं भवतु कल्याणि आयुरारोग्यसंपदाम्।
सर्वशत्रुविनाशाय आयुर्देवि नमोऽस्तु ते ॥८॥
षष्ठांशां प्रकृतैर्सिद्धां प्रतिष्ठाप्य च सुप्रभाम्।
सुप्रदां चापि शुभदां दयारूपां जगत्प्रसूम्॥९॥
देवीं षोडशवर्षां तां शाश्वतस्थिरयौवनाम्।
बिम्बोष्ठीं सुदतीं शुद्धां शरच्चन्द्रनिभाननाम् ॥१०॥
नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः।
शुभायै देवसेनायै आयुर्देव्यै नमो नमः ॥११॥
वरदायै पुत्रदायै धनदायै नमो नमः
सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः॥१२॥
मायायै सिद्धयोगिन्यै आयुर्देव्यै नमो नमः।
सारायै शारदायै च परादेव्यै नमो नमः ॥१३॥
बालारिष्टहरे
देवि
आयुर्देव्यै नमो नमः।
कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥१४॥
प्रत्यक्षायै स्वभक्तानां आयुर्देव्यै नमो नमः।
देवरक्षणकारिण्यै आयुर्देव्यै नमो नमः॥१५॥
शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा।
वर्जितक्रोधहिंसायै आयुर्देव्यै नमो नमः।॥१६॥

KAPILA- DEVAHUTI SAMVADA ON BHAKTIYOGA-2 (BHAGAVATAM, CANTO- 3, CHAPTER-29)

                
          कपिलदेवहूतिसंवादे भक्तियोगरहस्यम्
         (श्रीमद्भागवतम्, स्क्न्धः ३, अध्यायः २९)
 [The
English translation is largely based on that of  the disciples of His
Divine Grace A.C. Bhaktivedanta Swami Prabhupada as given in the “Srimad
Bhagavatam” published by the Bhaktivedanta Book Trust]
देवहूतिरुवाच
लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।
स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥१॥
यथा सांख्येषु कथितं यन्मूलं तत्प्रचक्षते।
भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो॥२॥
Devahuti enquired: My dear Lord, You
have already very scientifically described the symptoms of the total material
nature and the characteristics of the spirit according to the Sankhya system of
philosophy.  Now I shall request You to
explain the path of devotional service, which is the ultimate end of all philosophical
systems.
विरागो येन पुरुषो भगवन् सर्वतो भवेत्।
आचक्ष्व जीवलोकस्य विविधा मम संसृतीः॥३॥
Devahuti continued: My dear Lord, please
also describe in detail, both for me and for people in general, the continual
process of birth and death, for by hearing such calamities we may become
detached from the activities of this material world.
कालस्येश्वररूपस्य परेषां च परस्य ते।
स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥४॥
Please also describe eternal time, which
is a representative of Your form and by whose influence people in general
engage in the performance of pious activities.
लोकस्य मिथ्याभिमतेरचक्षुष
  श्चिरं प्रसुप्तस्य तमस्यनाश्रये ।
श्रान्तस्य कर्मस्वनुविद्धया धिया
   त्वमाविरासीः किल योगभास्करः ॥५॥
My dear Lord, You are just like the sun,
for You illuminate the darkness of the conditional life of the living entities.  Because their eyes of knowledge are not open,
they are sleeping eternally in that darkness without Your shelter, and
therefore they are falsely engaged by the actions and reactions of their
material activities, and they appear to be very fatigued
.
मैत्रेय उवाच
इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः।
आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥६॥
Sri Maitreya said:  O best amongst the Kurus, the great sage
Kapila, moved by great compassion and pleased by the gentle words of His glorious
mother, spoke as follows
श्रीभगवानुवाच
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते।
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥७॥
Lord kapila, the personality of Godhead,
replied: O noble lady, there are multifarious paths of devotional service in
terms of the different qualities of the executor.  
अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा।
संरंभी भिन्नदृग्भावं मयि कुर्यात्स तामसः ॥८॥
Devotional service  executed by a person who is envious, proud,
violent and angry, and who is a separatist, is considered to be in the mode of
darkness (tamasic)
विषयानभिसन्धाय यश ऐश्वर्यमेव वा।
अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः॥९॥
The worship of Deities in the temple by
a separatist, with a motive for material enjoyment, fame and opulence, is
devotion in the mode of passion (rajasic
कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम्।
यजेद्यष्टव्यमिति वा पृथग्भावः स सात्त्विकः ॥१०॥
When a devotee worships the Supreme
Personality of Godhead and offers the results of his activities in order to
free himself from the inebrieties of fruitive activities, his devotion is in
the mode of goodness(sattwic).  
मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ॥११॥
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम्।
अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे॥१२॥
The manifestation of unadulterated
devotional service is exhibited when one’s mind is at once attracted to hearing
the transcendental name and qualities of the Supreme Personality of Godhead,
who is residing in everyone’s heart. 
Just as the water of the Ganges flows naturally down towards the ocean,
such devotional ecstasy, uninterrupted by any material condition, flows towards
the Supreme Lord.  
सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः॥१३॥
A pure devotee does not accept any kind
of liberation – salokya, sarshti, samipya, sarupyaor ekatva – even though they
are offered by the Supreme Personality of Todhead.
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः।
येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते॥१४॥
By attaining the highest platform of
devotional service, as I have explained, one can overcome the influence of the
three modes of material nature and be situated in the transcendental stage, as
is the Lord.
निषेवितेनानिमित्तेन स्वधर्मेण महीयसा।
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः॥१५॥
A devotee must execute his prescribed
duties, which are glorious, without material profit.  Without excessive violence, one should
regularly peform one’s devotional duties.
मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनैः।
भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥१६॥
The devotee should regularly see My
idols in the temple, touch My lotus feet and offer worshipable paraphernalia
and prayer.  He should see in the spirit
of renunciation, from the mode of goodness, and see Me in every livinng entity.
 
महतां बहुमानेन दीनानामनुकम्पया।
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥१७॥
The pure devotee should execute
devotional service by giving the greatest respect to the spiritual master and
the Acharya.  He should be compassionate
to the poor and make friendship with persons who are his equals, but all his
activities should be executed under regulation and with control of the senses.
आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे ।
आर्जवेनार्यसङ्गेन निरहङ्क्रियया तथा ॥१८॥
A devotee should always try to hear
about spiritual matters and should always utilize his time in chanting the holy
name of the Lord.  His behaviour should
always be straightforward and simple, and although he is not envious but
friendly to everyone, he should avoid the company of persons who are not
spiritually advanced.
मद्धर्मणो गुणैरेतैः परिसंशुद्ध आशयः।
पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥१९॥
      
When one is fully qualified with all these transcendental attributes and
his consciousness is thus completely purified, he is immediately attracted simply
by hearing My name or hearing of My transcendental qualities.
यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात्।
एवं योगरतं चेत आत्मानमविकारि यत् ॥२०॥
 As  the chariot of air carries an aroma from its
source and immediately catches the sense of smell, similarly, one who
constantly engages in devotional service, in Krishna consciousness, can catch
the Supreme Soul,  who is equally present
everywhere.
अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा।
तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम्॥२१॥
I am present in every living entity as
the Super soul.  If someone neglects or
disregards that Super soul everywhere and engages himself in the worship of the
Deity (idol) in the temple, that is simply a farce, imitation.
यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम्।
हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति सः ॥२२॥
One who worships the Deity of Godhead in
the temples but does not know that the Supreme Lord, as Paramatma, is situated
in every living entity’s heart, must be in ignorance and is compared to one who
offers oblations into ashes.
द्विषतः परकाये मां मानिनो भिन्नदर्शिनः।
भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति॥२३॥
One who offers me respect but envies me
in the bodies of others and is therefore a separatist never attains peace of
mind, because of his inimical behaviour towards other living entities.
अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयाऽनघे।
नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिनः
॥२४॥
My dear mother, even if he worships with
proper rituals and paraphernalia, a person who  ignores My presence in all living entities
never pleases Me by the worship of My Deities in the temple.   
आर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत्।
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥२५॥
Performing  his prescribed duties, one should worship the
Deity of the Supreme Personality of Godhead  only so long as one has not realised My
presence in one’s own heart and in the hearts of other living entities as well.
आत्मनशच परस्यापि यः करोत्यन्तरोदरम्।
तस्य भिन्नदृशो मृत्युर्विदधे भयमुल्बणम्॥२६॥
             
As the blazing fire of death, I cause
great fear in whoever makes the least discrimination between himself and other
living entities because of a differential outlook.
अथ मां सर्वभूतेषु भूतात्मानं कृतालयम्।
अर्हयेद्दानमानाभ्यां मैत्र्याऽभिन्नेन चक्षुषा ॥२७॥
Therefore by charitable gifts and
attention, as well as by friendly behaviour and by viewing all to be alike, one
should propitiate Me, who abide in all creatures as their very Self.   
जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे।
ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥२८॥
Living entities are superior to
inanimate objects, O blessed mother, and among them, living entities which display
life symptoms are better. Animals with developed consciousness are better than
them, and better still are those who have developed sense perception. 
तत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः।
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो पराः ॥२९॥
Among the living entities who have
developed sense perception, those who have developed the sense of taste are
better than those who have developed only the sense of touch. Better than them
are those who have developed the sense of smell, and better still are those who
have developed the sense of hearing.
रूपभेदविदस्तत्र ततश्चोभयतोदतः।
तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात्॥३०॥
Better than those living entities who
can perceive sound are those who can distinguish between one form and
another.  Better than them are those who
have developed upper and lower sets of teeth, and better still are those who have
many legs. Better than them are the quadrupeds, and better still are the human
beings.
ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः    
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥३१॥
Among human beings, those coming under
the four varnas (based on quality and work) are better.  The best among them are brahmanas and among
them those who are intelligent and have studied the Vedas are better.  Better still are those who know the purport
of the Vedas.    
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत्।
मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ॥३२॥
Better than the brahmana who knows the
purpose of the Vedas is he who can dissipate all doubts, and better than him is
one who strictly follows the brahminical principles.  Better than him is one who is liberated from
all material contamination, and better than him is a pure devotee, who executes
devotional service without expectation of reward.
तस्मान्मय्यर्पिताशेषक्रियार्थात्मा निरन्तरः।
मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः।
न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥३३॥
Therefore I do not find a greater person
than he who has no interest outside of Mine and who therefore engages and
dedicates all his activities and all his life – everything – unto Me without  cessation.
मनसैतानि भूतानि प्रणमेद्बहुमानयन्।
ईश्वरो जीवकलया प्रविष्टो भगवानिति॥३४॥
Such a perfect devotee offers respects
to every living entity because he is under the firm conviction that the Supreme
Personality of Godhead has entered the body of every living entity as the Supersoul,
or controller.
भक्तियोगश्च योगश्च मया मानव्युदीरितः।
ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥३५॥
My dear mother, O daughter of Manu, a
devotee who applies the science of devotional service and mystic yoga in this
way can achieve the abode of the Supreme Person simply by that devotional
service.  
एतद्भगवतो रूपं ब्रह्मणो परमात्मनः।
परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥३६॥
This purusha  whom the individual soul must approach is the
eternal form of the Supreme Personality of Godhead, who is known as Brahman and
Paramatma.  He is the transcendental
chief personality, and His activities are all spiritual.  
रूपभेदास्पदं दिव्यं काल इत्यभिधीयते।
भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥३७॥
The time factor, who causes the
transformation of the various material manifestations, is another feature of
the Supreme Personality of godhead. 
Anyone who does not know that time is the same Supreme Personality is
afraid of the time factor.
योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः ।
स विष्ण्वाख्योऽधियज्ञोऽसौ कालः कलयतां प्रभुः ॥३८॥
Lord Vishnu, the Supreme Personality of
Godhead, who is the enjoyer of all sacrifices, is the time factor and the
master of all masters.  He enters
everyone’s heart, He is the support of every one, and He causes every being to
be annihilated by another.  
न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धवः।
आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥३९॥
No one is dear to the Supreme
Personality of Godhead, nor is anyone His enemy or friend.  But He gives inspiration to those who have
not forgotten Him and destroys those who have.   
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात्।
यद्भयाद्वर्षते देवो भगणो भाति यद्भयात् ॥४०॥
Out of fear of the Supreme Personality
of Godhead the wind blows, out of fear of Him the sun shines, out of fear of
Him the rain pours forth showers, and out of fear of Him the host of heavenly
bodies shed their light.
यद्वनस्पतयो भीता लताश्चौषधिभिस्सह ।
स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥४१॥
Out of fear of the Supreme Personality
of Godhead the trees, creepers, herbs and seasonal plants and flowers blossom
and bear fruit, each in its own season.   
स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः।
अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात् ॥४२॥
Out of fear of the Supreme Personality
of Godhead the rivers flow, and the ocean never overflows.  Out of fear of Him only does fire burn and
does the earth, with its mountains, not sink in the water of the universe.
नभो ददाति श्वसतां पदं यन्नियमाददः ।
लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥४३॥
Subject to the control of the Supreme
Personality of Godhead, the sky allows outer space to accommodate all the
various planets, which hold innumerable living entities.  The total universal body expands with its
seven coverings under His supreme control.
गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात्।
वर्ततेऽनुयुगं येषां वश एतच्चराचरम् ॥४४॥
Out of fear of the Supreme Personality
of Godhead,  the directing demigods in
charge of the modes of material nature carry out the functions of creation,
maintenance and destruction; everything animate and inanimate within this
material world is under their control.  
सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।
जनं जनेन जनयन्मारयन्मृत्युनान्तकम् ॥४५॥
The eternal time factor has no beginning
and no end.  It is the representative of
the
Supreme Personality of Godhead, the
maker of the criminal world.  It brings
about the end of the phenomenal world, it carries on the work of creation by
bringing one individual into existence from another, and likewise it dissolves
the universe by destroying even the lord of death, Yamaraja.
॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे
         कापिलेयोपाख्याने एकोनत्रिंशोऽध्यायः॥           
 

  

KAPILA- DEVAHUTI SAMVADA ON BHAKTIYOGA-1 (BHAGAVATAM, CANTO- 3, CHAPTER-25)

KAPILA-
DEVAHUTI SAMVADA ON BHAKTIYOGA-1 (BHAGAVATAM, CANTO- 3, CHAPTER-25)
                
          कपिलदेवहूतिसंवादे
भक्तियोगनिरूपणम्
         (श्रीमद्भागवतम्, स्क्न्धः
, अध्यायः २५)
शौनक उवाच
कपिलस्तत्त्वसंख्याता भगवानात्ममायया।
जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् ॥१॥
Sri Saunaka said:  although He is unborn, the Supreme
Personality of Godhead  took birth as
Kapila Muni by His internal potency.  He
descended  to disseminate transcendental
knowledge for the benefit of he whole human race.
न ह्यस्य वर्ष्मणः  पुंसां वरिम्णः सर्वयोगिनाम्।
विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥२॥
Sri Saunaka continued:  There is no one who knows more than the Lord
Himself.  No one is more worshipable or
more mature a yogi then He.  He is
therefore the master of the Vedas, and to hear about Him always is the actual
pleasure of the senses.
यद्यद्विधत्ते भगवान् स्वच्छन्दात्माऽऽत्ममायया।
तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ॥३॥
Therefore please precisely describe  to me, who is listening intently, all the
activities and pastimes of the Personality of Godhead, who is full of
self-desire and who assumes all these activities by His internal potency.
सूत उवाच
द्वैपायनसखस्त्वेवं मैत्रेयो भगवांस्तथा।
प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥४
Sri  Suta Goswami said: The most powerful sage
Maitreya was a friend of Vyasadeva. 
Being encouraged and pleased by Vidura’s inquiry about transcendental
knowledge, Maitreya spoke as follows.  
मैत्रेय उवाच
पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया।
तस्मिन् बिन्दुसरेऽवात्सीद्भगवान् कपिलः किल॥५॥
Maitreya said: When Kardama left for the forest, Lord
kapila stayed on the strand of the Bindu-sarovara to please His mother,
Devahuti.
तमासीनमकर्माणं तत्त्वमार्गप्रदर्शनम्।
स्वसुतं देवहूत्याह धातुः संस्मरती वचः॥६॥
When Kapila, who could
show her the ultimate goal of the Absolute Truth, was sitting leisurely before
her, Devahuti remembered the words Brahma had spoken to her, and she therefore
began to question Kapila as follows.
देवहूतिरुवाच
निर्विण्णा नितरां भूमन्नसदिन्द्रियतर्षणात्।
येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥७॥
Devahuti said: I am very
sick of the disturbance caused by my material senses, for because of this sense
disturbance, my Lord, I have fallen into the abyss of ignorance.
तस्य त्वं तमसोऽन्धस्य  दुष्पारस्याद्य पारगम्।
सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥८॥
Your Lordship is my only
means of getting out of this darkest region of ignorance because You are my
transcendental eye, which, by Your mercy only, I have attained after many, many
births.
य आद्यो भगवान् पुंसामीश्वरो वै भवान्
किल।
लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥९॥
You are the Supreme
Personality of Godhead, the origin and Supreme Lord of all living
entities.  You have arisen to disseminate
the rays of the sun in order to dissipate the darkness of the ignorance of the
universe.
अथ मे देव सम्मोहमपाक्रष्टुं त्वमर्हसि।
योऽवग्रहोऽहंममेतित्येतस्मिन् योजितस्त्वया॥१०॥
Now be pleased, my Lord,
to dispel my great delusion.  Due to my
feeling of false ego, I have been engaged by Your maya and have identified
myself with the body and consequent bodily relations.
तं त्वा गताहं शरणं शरण्यं
   स्वभृत्यसंसारतरोः कुठारम्।
जिज्ञासयाहं प्रकृतेः पूरुषस्य
    नमामि सद्धर्मविदां वरिष्ठम् ॥११॥
Devahuti continued: I
have taken shelter of Your lotus feet because You are the only person of whom
to take shelter.  You are the exe which
can cut the tree of material existence. 
I therefore offer my obeisances unto You, who are the greatest of all
transcendentalists, and I inquire from You as to the relationship between man
and woman and between spirit and matter.  
मैत्रेय उवाच
इति स्वमातुर्निरवद्यमीप्सितं
    निशम्य पुंसामपवर्गवर्धनम्।
धियाभिनन्द्यात्मवतां सतां गति
     र्बभाष ईषत्स्मितशोभिताननः ॥१२॥
Maitreya said:  After hearing of His mother’s uncontaminated
desire for transcendental realization, the Lord thanked her within Himself for
her questions, and thus, His face smiling, He explained the path of the
transcendentalists, who are interested in self-realization.
श्रीभगवानुवाच
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे।
अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य च ॥१३॥
The Supreme Personality
of Godhead answered : The  yoga system
which relates to the Lord and the individual soul, which is meant for the
ultimate benefit of the living entity, and which causes detachment from all happiness
and distress in the material world, is the highest yoga system.
तमिमं ते प्रवक्ष्यामि यमवोचं पुरानघे।
ऋषीणां श्रोतुकामानां योगं सर्वाङ्गनैपुणम्॥१४॥
O most pious mother, I
shall now explain unto you the ancient yoga system, which I explained formerly
to the great sages who were eager to hear it. 
It is serviceable and practical in every way.
चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम्।
गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥१५॥
The stage in which the
consciousness of the living entity is attracted by the three modes of material
nature is called conditional life. But when that same consciousness is attached
to the Supreme Personality of Godhead, one is situated in the consciousness of
liberation.
अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः।
वीतं यदा मनः शुद्धमदुःखमसुखं समम्॥१६॥
तदा पुरुष आत्मानं केवलं प्रकृतेः परम्।
निरन्तरं स्वयंज्योतिरणिमानमखण्डितम्॥१७॥
ज्ञानवैराग्ययुक्तेन भक्तियुक्तेन चात्मना।
परिपश्यत्युदासीनं प्रकृतिं च हतौजसम् ॥१८॥
When one is completely
cleansed of the impurities of lust and greed produced from the false
identification of the body as “I” and bodily possessions as “mine”, one’s mind
becomes purified.  In that pure state he
transcends the stage of so-called material happiness and distress.  At that time the soul can see himself to be
transcendental to material existence and always self-effulgent, never
fragmented, although very minute in size. In that position of self-realization,
by practice of knowledge and renunciation in devotional service, one sees
everything in the right perspective; he becomes indifferent to material existence,
and the material influence acts less powerfully upon him.    
न युज्यमानया भक्त्या भगवत्यखिलात्मनि।
सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥१९॥
Perfection in self-realization cannot be attained by
any kind of yogi unless he engages in devotional service to the Supreme
Personality of Godhead, for that is the only auspicious path.
प्रसङ्गमजरं पाशमात्मनः कवयो विदुः।
स एव साधुषु कृतो मोक्षद्वारमपावृतम् ॥२०॥
Every learned man knows very well that attachment for
the material is the greatest entanglement of the spirit soul.  But that same attachment , when applied to
the self-realized devotees, opens the door of liberation.   
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनां।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥२१॥
The symptoms of a sadhu
are that he is tolerant, merciful and friendly to all living entities.  He has no enemies,  he is peaceful,  he abides by the scriptures, and all his
characteristics are sublime.  
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम्।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः॥२२॥
मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च।
तपन्ति विविधास्तापा नैतान्मद्गतचेतसः ॥२३॥
Such  a sadhu engages in staunch devotional service
to Me without deviation. For My sake  he
renounces all other connections, such as family relationships and friendly acquaintances
within the world.  Engaged constantly in
chanting and hearing about Me, the Supreme Personality of Godhead, the sadhus
do not suffer from material miseries because they are always filled with
thoughts of My pastimes and activities. 
स एते साधवः साध्वि सर्वसङ्गविवर्जिताः।
सङ्गस्तेष्वथते प्रार्थ्यः सङ्गदोषहरा हि ते ॥२४॥
O mother,  O virtuous lady, these are the qualities of
great devotees who are free from all attachment.  You must seek attachment to such holy men,
for this counteracts the pernicious effects of material attachment.
सतां प्रसङ्गान्मम वीर्यसंविदो
  भवन्ति हृत्कर्णरसायनाः कथाः।
तज्जोषणादाश्वपवर्गवर्त्मनि
  श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥२५॥
In the association of
pure devotees, discussion of the pastimes and activities of the Supreme
Personality of Godhead is very pleasing and satisfying to the ear and the
heart.  By cultivating such knowledge one
gradually becomes advanced on the path of liberation, and thereafter he is
freed, and his attraction becomes fixed. 
The real devotion and devotional service begin.
भक्त्या पुमाञ्जातविराग ऐन्द्रियाद्
    दृष्टश्रुतान्मद्रचनानुचिन्तया ।
चित्तस्य यत्तो ग्रहणे योगयुक्तो
   यतिष्यते ऋजुभिर्योगमार्गैः ॥२६॥
Thus consciously engaged
in devotional service in the association of devotees, a person gains distaste
for sense gratification, both in this world and in the next, by constantly
thinking about the activities of the Lord. 
This process of Krishna consciousness is the easiest process of mystic
power; when one is actually situated on that path of devotional service, he is
able to control the mind.
असेवयायं प्रकृतेर्गुणानां 
   ज्ञानेन वैराग्यविजृम्भितेन।
योगेन मय्यर्पितया च भक्त्या
   मां प्रत्यगात्मानमिहावरुन्धे ॥२७॥
Thus by not engaging in
the service of the modes of material nature but by developing Krishna
consciousness, knowledge in renunciation, and by practicing yoga, in which the
mind is always fixed in devotional service unto the Supreme Personality of
Godhead, one achieves My association in this very life, for I am the Supreme
Personality, the Absolute Truth.
देवहूतिरुवाच-
काचित्त्वय्युचिता भक्तिः कीदृशी मम गोचरा।
यया पदं ते निर्वाणमञ्जसान्वाश्नवा अहम्॥२८॥
On hearing the statement
of the Lord, Devahuti inquired: What kind of devotional service is worth developing
and practicing to help me easily and immediately attain the service of Your
lotus feet?
यो योगो भगवद्बाणो निर्वाणात्मंस्त्वयोदितः।
कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥२९॥
The mystic yoga system,
as You have explained, aims at the Supreme Personality of Godhead  and is 
meant for completely ending material existence.  Please let me know the nature of that yoga
system.  How many ways are there by which
one can understand in truth that sublime yoga?  
तदेतन्मे विजानाहि यथाहं मन्दधीर्हरे।
सुखं बुध्येय दुर्भोधं योषा भवदनुग्रहात् ॥३०॥
My dear son, Kapila,
after all, I am a woman,  It is very
difficult for me to understand the Absolute Truth because my intelligence is
not very great.  But if You will kindly
explain it to me, even though I am not very intelligent, I can understand it
and thereby feel transcendental 
happiness.  
मैत्रेय उवाच-
विदित्वार्थं कपिलो मातुरित्थं
   जातस्नेहो यत्र
तन्वाभिजातः।
तत्त्वाम्नायं यत्प्रवदन्ति सांख्यं
   प्रोवाच  वै भक्तिवितानयोगम्॥३१॥
Sri Maitreya said:  After hearing the statement of His mother,
Kapila could understand her purpose, and He became compassionate towards her
because of being born of her body.  He
described the Sankhya system of philosophy, which is a combination of
devotional service and mystic realization, as received by disciplic succession.
श्रीभगवानुवाच-
देवानां गुणलिङ्गानामानुश्रविककर्मणाम्।
सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या॥३२॥
अनिमित्ता  भागवती
भक्तिः सिद्धेर्गरीयसी ।
जरयत्याशु या कोशं निगीर्णमनलो यथा ॥३३॥
Lord Kapila said:  The senses are symbolic representations of
the demigods, and their natural inclination is to work under the direction of
the Vedic injunctions As the senses are the representatives of the demigods, so
the mind is the representative of the Supreme Personality of Godhead.  The mind’s natural duty is to serve.  When 
that service spirit is engaged in devotional service to the Personality
of Godhead, without any motive, that is far better even than salvation.   Bhakti, devotional service, dissolves the
subtle body of the living entity without separate effort,  just as fire in the stomach digests all that
we eat.   
नैकात्मतां मे स्पृहयन्ति केचि-
  न्मत्पादसेवाभिरता
मदीहाः।
येऽन्योन्यतो भागवताः प्रसज्य
  सभाजयन्ते मम पौरुषाणि
॥३४॥
A pure devotee, who is
attached to the activities of devotional service and who always engages in the
service of My lotus feet, never desires to become one with Me.  Such a devotee, who is unflinchingly engaged,
in association with similar devotees, always glorifies My pastimes and activities.
पश्यन्ति ते मे रुचिराण्यम्ब सन्तः
    प्रसन्नवक्त्रारुणलोचनानि।
 रूपाणि दिव्यानि
वरप्रदानि
    साकं वाचं स्पृहणीयां
वदन्ति ॥३५॥
O My mother,  My devotees always see the smiling face of My
form, with eyes like the rising morning sun. 
They like to see My various transcendental forms, which are all
benevolent, and they also talk favourably with Me.  
तैर्दर्शनीयावयवैरुदार-
   विलासहासेक्षितवामसूक्तैः।
हृतात्मनो हृतप्राणांश्च भक्ति-
    रनिच्छतो मे गतिमण्वीं
प्रयुङ्क्ते॥३६॥
Upon seeing the charming
forms of the Lord, smiling and attractive, and hearing His very pleasing words,
the pure devotee almost loses all other consciousness.  His senses are freed from all other
engagements, and he becomes absorbed in devotional service.  Thus in spite of his unwillingness, he
attains liberation without separate endeavour.
अथो विभूतिं मम मायाविनस्ता-
    मैश्वर्यमष्टाङ्गमनुप्रवृत्तम्।
श्रियं भागवतीं वाऽस्पृहयन्ति भद्रां
   परस्य मे तेऽश्नुवते
तु लोके ॥३७॥
Thus because he is
completely absorbed in thought of Me, the devotee does not desire even the
highest benediction obtainable in the upper planetary systems, including
Satyaloka.  He does not desire the eight
material perfections obtained from mystic yoga, nor does he desire to be
elevated to the kingdom of God.  Yet even
without desiring them, the devotee enjoys,  even in this life, all the offered
benedictions.  
न कर्हिचिन्मत्पराः शान्तरूपे
  नङ्क्ष्यन्ति नो
मेऽनिमिषो लेढि हेतिः।
येषामहं प्रिय आत्मा सुतश्च
  सखा गुरुः सुहृदो
दैवमिष्टम् ॥३८॥
The Lord continued: My
dear mother, devotees who receive such transcendental opulences are never
bereft of them; neither weapons nor the change of time can destroy such
opulences. Because the devotees accept me as their friend, their relative,
their son, preceptor, benefactor and Supreme Deity, they cannot be deprived of
their possessions at any time
इमं लोकं तथैवामुमात्मानमुभयायिनम्।
आत्मानमनु ये चेह् ये रायः पशवो गृहाः॥३९॥
विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम्।
भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये ॥४०॥
Thus the devotee who
worships Me, the all-pervading Lord of the universe, in unflinching devotional
service, gives up all aspirations to be promoted to heavenly planets or to
become happy in this world with wealth, children, cattle, home or anything in
relationship with the body.  I take him
to the other side of birth and death.
नान्यत्र मद्भगवतः प्रधानपुरुषेश्वरात्।
आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥४१॥
The terrible fear of
birth and death can never be forsaken by anyone who resorts to any shelter
other than Myself, for I am the almighty Lord, the Supreme Personality of
Godhead, the original source of all creation, and also the Supreme Soul of all
souls.
मद्भयाद्वाति वातोऽयं सूर्यस्तपति मद्भयात्।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् ॥४२॥
It is because of My
supremacy that the wind blows, out of fear of Me; the sun shines out of fear of
Me, and the lord of the clouds, Indra, sends forth showers out of fear of
Me.  Fire burns out of fear of Me, and
death goes about taking its toll out of fear of Me.
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः।
क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम्॥४३॥
The Yogis, equipped with transcendental
knowledge and renunciation and engaged in devotional service for their eternal
benefit, take shelter of My lotus feet, and since I am the Lord, they are thus
eligible to enter into the kingdom of Godhead without fear.  
एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥४४॥
Therefore persons whose
minds are fixed on the Lord engage in the intensive practice of devotional
service.  That is the only means for
attainment of the final perfection of life.
॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे
         कापिलेयोपाख्याने
पञ्चविंशो
ऽध्यायः॥