HYMNS TO VISHNU – DUKHAMOCHAKA SRIMADACHYUTASHTAKAM

 ११.  दुःखमोचकश्रीमदच्युताष्टकम्

         (श्री शंकराचर्यकृतम्)
अच्युताच्युत हरे परमात्मन्
रामकृष्ण पुरुषोत्तम विष्णो ।
वासुदेव भगवन्ननिरुद्ध
श्रीपते शमय दुःखमशेषम् ॥ १ ॥
विश्वमङ्गल विभो जगदीश
नन्दनन्दन नृसिंह नरेन्द्र ।
मुक्तिदायक मुकुन्द मुरारे
श्रीपते शमय दुःखमशेषम् ॥ २ ॥
रामचन्द्र रघुनायक देव
दीननाथ दुरितक्ष्ययकारिन् ।
यादवेन्द्र यदुभूषण यज्ञ
श्रीपते शमय दुःखमशेषम् ॥ ३ ॥
देवकीतनय दुःखदवाग्ने
राधिकारमण रम्य सुमूर्ते ।
दुःखमोचक दयार्णव नाथ
श्रीपते शमय दुःखमशेषम् ॥ ४ ॥
गोपिकावदनचन्द्रचकोर
नित्य निर्गुण निरन्जन जिष्णो ।
पूर्णरूप जयशंकरशर्व
श्रीपते शमय दुःखमशेषम् ॥ ५ ॥
गोकुलेश गिरिधारणधीर
यामुनाच्छतटखेलन वीर ।
नारदादि मुनिवन्दितपाद
श्रीपते शमय दुःखमशेषम् ॥ ६ ॥
द्वारकाधिप दुरन्तगुणाब्धे
प्राणनाथ परिपूर्ण भवारे ।
ज्ञानगम्य गुणसागर ब्रह्मन्            
श्रीपते शमय दुःखमशेषम् ॥ ७ ॥
दुष्टनिर्दलन देव दयालो
पद्मनाभ धरणीधर धन्विन् ।
रावणान्तक रमेश मुरारे
श्रीपते शमय दुःखमशेषम् ॥ ८ ॥
अच्युताष्टकमिदं रमणीयम्
निर्मितं भवभयं विनिहन्तुम् ।
यः पठेत् विषयवृत्तिनिवृत्तिम्
जन्मदुःखमखिलं स जहाति ॥ ९ ॥
         ***

HYMNS TO VISHNU – ACHYUTASHTAKAM

    अच्युताष्टकम्

    (श्री शंकराचार्यकृतम्)
अच्युतं
केशवं रामनारायणम्
कृष्णदामोदरं
वासुदेवं विभुम् ।
श्रीधरं
माधवं गोपिकावल्लभम्
जानकीनायकं
रामचन्द्रं भजे ॥ १ ॥
अच्युतं
केशवं सत्यभामाधवम्
माधवं
श्रीधरं राधिकाऽराधितम् ।
इन्दिरामन्दिरं
चेतसा सुन्दरम्
देवकीनन्दनं
नन्दजं सन्दधे ॥ २ ॥
विष्णवे
जिष्णवे शङ्खिने चक्रिणे
रुक्मिणीरागिणे
जानकीजानय ।
वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने
वंशिने ते नमः ॥ ३ ॥
कृष्ण
गोविन्द हे राम नारायण
श्रीपते
वासुदेवाजित श्रीनिधे ।
अच्युतानन्द
हे माधवाधोक्षज
द्वारकानायक
द्रौपदीरक्षक ॥ ४ ॥
राक्षसक्षोभितः
सीतयाशोभितो
दण्डकारण्यभूपुण्यताकारणः
लक्ष्मणेनान्वितो
वानरैस्सेवितो ऽ-
गस्त्यसंपूजितो
राघवः पातु माम् ॥ ५ ॥
धेनुकारिष्टकोऽनिष्टकृत्
द्वेषिणाम्
केशिहा
कंसहृद्वंशिकावादकः ।
पूतनाशोषकः
सूरजाखेलनो
बालगोपालकः
पातु मां सर्वदा ॥ ६ ॥
विद्युदुद्योतवत्
प्रस्फुरद्वाससम्
प्रावृडंभोदवत्
प्रोल्लसद्विग्रहम् ।
वन्ययामालया
शोभितोरस्थलम्
लोहिताङ्घ्रिद्वयं
वारिजाक्षं भजे ॥ ७ ॥
कुञ्चितैः
कुन्तलैः भ्राजमानाननम्
रत्नमौलिं
लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं
कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं
श्यामलं तं भजे  ॥ ८
अच्युतस्याष्टकं
यः पठेदिष्टदम्
प्रेमतः
प्रत्यहं पूरुषस्सस्पृहम् ।
वृत्ततस्सुन्दरं
कर्तृविश्वंभरम्
तस्य
वश्यो हरिर्जायते सत्वरम्  ॥ ९

HYMNS TO VISHNU – SANKATANASHA VISHNUSTOTRAM

९. सङ्कटनाशविष्णुस्तॊत्रम्
        (पद्मपुराणांतर्गतम्)
नमॊ मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्यॊद्यतायार्तिहन्त्रॆ ।
विधात्रादिसर्गस्थितिध्वंसकर्त्रॆ
गदाशंखपद्मारिहस्ताय तॆऽस्तु ॥ १ ॥
रमावल्लभायाऽसुराणां निहन्त्रॆ
भुजङ्गारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रॆऽघहन्त्रॆ
शरण्याय तस्मै नताः स्मॊ नताः स्मः ॥ २ ॥
नमॊ दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदंभॊलयॆ  विष्णवॆ तॆ ।
भुजङ्गॆशतल्पॆशयायार्कचन्द्र-
द्विनॆत्राय तस्मै नताः स्मॊ नताः स्मः ॥ ३ ॥
सङ्कटनाशनं नाम स्तॊत्रमॆतत् पठेन्नरः ।
स कदाचिन्न सङ्कष्टैः पीड्यतॆ कृपया हरेः ॥ ४ ॥

HYMNS TO VISHNU – SRI VISHNU BHUJANGAPRAYATA STOTRAM

८. श्री विष्णुभुजङ्गप्रयातस्तॊत्रम्
        (श्री शंकराचार्यकृतम्)
चिदंशं विभुं निर्मलं निर्विकल्पम्
निरीहं निराकारमॊङ्कारवॆद्यम् ।
गुणातीतमव्यक्तमॆकं तुरीयम्
परं ब्रह्म यं वॆद तस्मै नमस्तॆ ॥ १ ॥
विशुद्धं शिवं शान्तमाद्यन्तशून्यम्
जगज्जीवनं ज्यॊतिरानन्दरूपम् ।
अदिग्दॆशकालव्यवच्छॆदनीयम्
त्रयी वक्ति यं वॆद तस्मै नमस्तॆ ॥ २ ॥
महायॊगपीठॆ परिभ्राजमानॆ
धरण्यादितत्वात्मकॆ शक्तियुक्तॆ ।
गुणाहस्करॆ वह्निबिम्बार्कमध्यॆ
समासीनमॊंकर्णिकॆऽष्टाक्षराब्जॆ ॥ ३ ॥
समानॊदितानॆकसूर्यॆन्दुकॊटि-
प्रभापूरतुल्यद्युतिं दुर्निरीक्ष्यम् ।
न शीतं न चॊष्णं सुवर्णावभातम्
प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥ ४ ॥
सुनासापुटं सुन्दरभ्रूललाटम्
किरीटॊचिताकुञ्चितस्निग्धकॆशम् ।
स्फुरत्पुण्डरीकाभिरामायताक्षम्
समुत्फुल्लरत्नप्रसूनावतंसम् ॥ ५ ॥
स्फुरत्कुण्डलामृष्टगण्डस्थलान्तम्
जपारागचॊराधरं चारुहासम् ।
कलिव्याकुलामॊदिमन्दारमालम्
महॊरस्फुरत्कौस्तुभॊदारहारम् ॥ ६ ॥
सुरत्नाङ्गदैरन्वितं बाहुदण्डैः
चतुर्भिश्चलत्कङ्कणालंकृताग्रैः ।
उदारॊदरालंकृतं पीतवस्त्रम्
पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥ ७ ॥
स्वभक्तॆषु सन्दर्शिताकारमॆवम्
सदा भावयन् सन्निरुद्धॆन्द्रियाश्वः ।
दुरापं नरॊ याति संसारपारम्
परस्मै तमॊभ्यॊऽपि तस्मै नमस्तॆ ॥ ८ ॥
श्रिया शातकुंभद्युतिस्निग्धकान्त्या
धरण्या च दूर्वादलश्यामलाङ्ग्या ।
कलत्रद्वयॆनामुना तॊषिताय
त्रिलॊकीगृहस्थाय विष्णॊ नमस्तॆ ॥ ९ ॥
शरीरं कलत्रं सुतं बन्धुवर्गम्
वयस्यं धनं सद्म भृत्यं भुवं च ।
समस्तं परित्यज्य हा कष्टमॆकॊ
गमिष्यामि दुःखॆन दूरं किलाहम् ॥ १० ॥
जरॆयं पिशाचीव हा जीवितॊ मॆ
मृजामस्थिरक्तं च मांसं बलं च ।
अहॊ दॆव सीदामि दीनानुकम्पिन्
किमद्धापि हन्त त्वयॊद्भासितव्यम् ॥ ११ ॥
कफव्याहतॊष्णॊल्बणश्वासवॆग-
व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् ।
विचिन्त्याहमन्त्यामसह्यामवस्थाम्
बिभॆमि प्रभॊ किं करॊमि प्रसीद ॥ १२ ॥
लपन्नच्युतानन्त गॊविन्द विष्णॊ
मुरारॆ हरॆ नाथ नारायणॆति ।
यथाऽनुस्मरिष्यामि भक्त्या भवन्तम्
तथा मॆ दयाशील दॆव प्रसीद ॥ १३ ॥
नमॊ विष्णवॆ वासुदॆवाय तुभ्यम्
नमॊ नारसिंहस्वरूपाय तुभ्यम् ।
नमः कालरूपाय संहारकर्त्रॆ
नमस्तॆ वराहाय भूयॊ नमस्तॆ ॥ १४ ॥
नमस्तॆ जगन्नाथ विष्णॊ नमस्तॆ
नमस्तॆ गदाचक्रपाणॆ नमस्तॆ ।
नमस्तॆ प्रपन्नार्तिहारिन् नमस्तॆ
समस्तापराधं क्षमस्वाखिलॆश ॥ १५ ॥
मुखॆ मन्दहासं नखॆ चन्द्रभासम्
करॆ चारुचक्रं सुरॆशादिवन्द्यम् ।
भुजङ्गॆ शयानं भजॆ पद्मनाभम्
हरॆरन्यदैवं न मन्यॆ न मन्यॆ ॥ १६ ॥
भुजन्ङ्गप्रयातं पठॆद्यस्तु भक्त्या
समाधाय चित्तॆ भवन्तं मुरारॆ ।
स मॊहं विहायाशु युष्मत्प्रसादात्
समाश्रित्य यॊगं व्रजत्यच्युतं त्वाम् ॥ १७ ॥

HYMNS TO VISHNU – SRI DWADASHAKSHARA STOTRAM

        श्री
द्वाद्शाक्षरमन्त्रस्तोत्रम्

            (श्री वेदव्यासकृतम्)
ओमिति
ज्ञानवस्त्रेण रागनिर्णेजनीकृतः ।
कर्मनिद्रां
प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥ १ ॥
न गतिर्विद्यते
चान्या त्वमेव शरणं मम ।
मायापङ्केनलिप्तोऽस्मि
त्राहि मां मधुसूदन ॥ २ ॥
मोहितो
मोहजालेन पुत्रदारगृहादिषु ।
तृष्णया
पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥ ३ ॥
भक्तिहीनं
तु दीनं च दुःखशोकसमन्वितqउZ ।
अनाश्रयमनाथं
च त्राहि मां मधुसूदन ॥ ४ ॥
गतागतपरिश्रान्तो
दूरमध्वनि कर्मणाम् ।
संसारभयभीतोऽस्मि
त्राहि मां मधुसूदन ॥ ५ ॥
वसितो
मातृगर्भेषु पीडितोऽहं जनार्दन ।
गर्भवासक्षयकर
त्राहि मां मधुसूदन ॥ ६ ॥
तेन देव
प्रपन्नोऽस्मि सत्वाश्रयपरायण ।
जरामरणभीतोऽस्मि
त्राहि मां मधुसूदन ॥ ७ ॥
वाचा
तूपकृतं पापं कर्मणा यदुपार्जितम् ।
मया देव
दुराचारं त्राहि मां मधुसूदन ॥ ८ ॥
सुकृतं
न कृतं किञ्चित् दुष्कृतं तु सदा कृतम् ।
तेनाहं
परितप्तोऽस्मि त्राहि मां मधुसूदन ॥ ९ ॥
देहान्तरसहस्रेषु
कुयोनिः सेविता मया ।
तिर्यक्त्वं
मानुषत्वं च त्राहि मां मधुसूदन ॥ १० ॥
वासुदेव
हृषीकेश वैकुण्ठ पुरुषोतम ।
सृष्टिसंहारकरण
त्राहि मां मधुसूदन ॥ ११ ॥
यत्राहमागमिष्यामि
नारी वा पुरुषोऽपि वा ।
तत्र
तत्र च ते भक्तिः त्राहि मां मधुसूदन ॥ १२ ॥
द्वादशार्णवस्तुतिमिमां
यः पठेच्छृणुयादपि ।
स याति
परमं स्थानं यत्र योगेश्वरो हरिः ॥ १३ ॥
               ***

HYMNS TO VISHNU – SHATPADI STOTRAM

६. षट्पदीस्तॊत्रम्
        (श्री शंकराचार्यकृतम्)
अविनयमपनय विष्णॊ दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय तारय संसार सागरतः ॥ १ ॥
दिव्यधुनीमकरन्दॆ परिमलपरिभॊगसच्चिदानन्दॆ ।
श्रीपतिपदारविन्दॆ भवभयखॆदच्छिदे वन्दे॥ २ ॥
सत्यपि भॆदापगमॆ नाथ तवाहं न मामकीनस्त्वम् ।
सामुद्रॊ हि तरंगः क्वचन समुद्रॊ न तारंगः ॥ ३ ॥
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टॆ ।
दृष्टॆ भवति प्रभवति न भवति किं भवतिरस्कारः ॥ ४ ॥
मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधाम् ।
परमेश्वर परिपाल्यॊ भवता भवतापभीतोऽहम् ॥ ५ ॥
दामॊदर गुणमन्दिर सुन्दरवदनारविन्द गॊविन्द ।
भवजलधिमथनमन्दर परमं दरमपनय त्वं मॆ ॥ ६ ॥
नारायण करुणामय शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीयॆ वदनसरॊजॆ सदा वसतु ॥ ७ ॥

HYMNS TO VISHNU – BHAGAVAT STUTI BY DHRUVA (FROM SRIMADBHAGAVATAM)

५. ध्रुवकृतभगवत्स्तुतिः
 
यॊऽन्तः प्रविश्य मम वाचमिमां प्रसुप्ताम्
सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना ।
अन्यांश्च हस्तचरणश्रवणत्वगादीन्
प्राणान्नमॊ भगवतॆ पुरुषाय तुभ्यम् ॥ १ ॥
एकस्त्वमॆव भगवन्निदमात्मशक्त्या
मायाख्ययॊरुगुणया महादाद्यशॆषम् ।
सृष्ट्वानुविश्य पुरुषस्तदसद्गुणॆषु
नानॆव दारुषु विभावसुवद्विभासि ॥ २ ॥
त्वद्दत्तया वयुनयॆदमचष्ट विश्वम्
सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्यापवर्ग्यशरणं तव पादमूलम्
विस्मर्यतॆ कृतविदा कथमार्तबन्धॊ ॥ ३ ॥
नूनं विमुष्टमतयस्तव मायया तॆ
यॆ त्वां भवाप्ययविमॊक्षणमन्यहॆतॊः ।
अर्चन्ति कल्पकतरुं कुणपॊपभॊग्य-
मिच्छन्ति यत्स्पर्शजं निरयॆऽपि नृणाम् ॥ ४ ॥
या निर्वृतिस्तनुभृतां तव पादपद्म-
ध्यानात् भवज्जनकथाश्रवणॆन वा स्यात् ।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासि लुलितात् पततां विमानात् ॥ ५ ॥
भक्तिं मुहुः प्रवहतां त्वयि मॆ प्रसङ्गॊ
भूयादनन्त महताममलाशयानाम् ।
येनाञ्जसॊल्बणमुरुव्यसनं भवाब्धिम्
नॆष्यॆ भवद्गुणकथामृतपानमत्तः ॥ ६ ॥
तॆ न स्मरन्त्यतितरां प्रियमीश मर्त्यम्
यॆ चान्वदः सुतसुहृद्गृहवित्तदाराः ।
ते त्वब्जनाभ भवदीय पदारविन्द-
सौगन्ध्यलुब्धहृदयॆषु कृतप्रसङ्गाः ॥ ७ ॥
तिर्यङ्नगद्विजसरीसृपदॆवदैत्य-
मर्त्यादिभिः परिचितं सदसद्विशॆषम् ।
रूपं स्थविष्ठमज तॆ महदाद्यनॆकम्
नातः परं परम वॆद्मि न यत्र वादः ॥ ८ ॥
कल्पान्त एतदखिलं जठरॆण गृह्णन्
शॆतॆ पुमान् स्वदृगनन्तसखस्तदङ्कॆ ।
यन्नाभिसिन्धुरुहकाञ्चनलॊकपद्म-
गर्भॆ द्युमान् भगवतॆ प्रणतोऽस्मि तस्मै ॥ ९ ॥
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा
कूटस्थ आदिपुरुषो भगवांस्त्र्यधीशः ।
यद्बुध्यवस्थितिमखण्डितया स्वदृष्ट्या
द्रष्टा स्थितावधिमखॊ व्यतिरिक्त आस्सॆ ॥ १० ॥
यस्मिन् विरुद्धगतयॊ ह्यनिशं पतन्ति
विद्यादयॊ विविध शक्तयः आनुपूर्व्यात् ।
तत् ब्रह्म विश्वभवमॆकमनन्तमाद्यम्
आन्दमात्रमविकारमहं प्रपद्यॆ ॥ ११ ॥
सत्याशिषो हि भगवंस्तव पादप्द्म-
माशीस्तथानुभजतः पुरुषार्थमूर्तॆः ।
अप्येवमर्य भगवान् परिपाति दीनान्
वाश्रेव वत्सकमनुग्रहकातरॊऽस्मान् ॥ १२ ॥
             ***

HYMNS TO VISHNU – SRI BHAGAVACHHARANA STOTRAM

           श्रीभगवच्छरणस्तोत्रम्
            (स्वामि ब्रह्मानन्दकृतं)
सच्चिदानन्दरूपाय भक्तानुग्रहकारिणे।
मायानिर्मितविश्वाय महेशाय
नमो नमः ॥ १ ॥
रोगा हरन्ति सततं प्रबलाः शरीरम्
कामादयोऽप्यनुदिनं प्रदहन्ति
चित्तम् ।
मृत्युश्च नृत्यति सदा कलयन्
दिनानि
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ २ ॥
देहो विनश्यति सदा परिणामशील-
श्चित्तं च खिद्यति सदा विषयानुरागि
बुद्धिः सदा हि रमते विषयेषु
नान्तः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ३ ॥
आयुर्विनश्यति यथामघटस्थतोयम्
विद्युत्प्रभेव चपला बत यौवनश्रीः
वृद्धा प्रधावति यथा मृगराजपत्नी
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ४ ॥
आयाद्व्ययो मम भवत्यधिकोऽविनीते
कामादयो हि बलिनो निबलाः शमाद्याः
मृत्युर्यदा तुदति मां बत किं
वदेयम्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ५ ॥
तप्तं तपो नहि कदापि मयेह तन्वा
वाण्या तथा नहि कदापि तपश्च
तप्तम् ।
मिथ्याभिभाषणपरेण न मानसं हि
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ६ ॥
स्तब्धं मनो मम सदा नहि याति
सौम्यम्
चक्षुश्च मे न तव पश्यति विश्वरूपम्
वाचा तथैव न वदेन्मम सौम्यवाणीम्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ७ ॥
सत्वं न मे मनसि याति रजस्तमोभ्याम्
विद्धे तथा कथमहो शुभकर्मवार्ता
साक्षात् परंपरतया सुखसाधनम्
तत्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ८ ॥
पूजाकृता नहि कदापि मया त्वदीया
मन्त्रं त्वदीयमपि मे न जपेद्रसज्ञा
चित्तं न मे स्मरति ते चरणौ
ह्यवाप्य
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ९ ॥
यज्ञो न मेऽस्ति हुतिदानदयादियुक्तो
ज्ञानस्यसाधनगणो न विवेकमुख्यः
ज्ञानं क्व साधनगणेन विना क्व
मोक्षः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १० ॥
सत्सङ्गतिर्हि विदिता तव भक्तिहेतुः
साप्यद्य नास्ति बत पण्डितमानिनो
मे ।
तामन्तरेण नहि सा क्वच बोधवार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ ११ ॥
दृष्टिर्न भूतविषया समताभिधाना
वैषम्यमेव तदियं विषयीकरोति
शन्तिः कुतो मम भवेत् समता
न चेत्स्यात्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १२ ॥
मैत्री समेषु न च मेऽस्ति कदापि
नाथ
दीने न तथा न करुणा मुदिता
च पुण्ये ।
पापेऽनुपेक्षणवतो मम मुद्कथं
स्यात्
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १३ ॥
नेत्रादिकं मम बहिर्विषयेषु
सक्तम्
नान्तर्मुखं भवति तानविहाय
तस्य ।
क्वान्तर्मुखत्वमपहाय सुखस्य
वार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १४ ॥
त्यक्तं गृहाद्यपि मया भवतापशान्त्यै
नासीदसौ हृतहृदो मम मायया ते
सा चाधुना किमु विधास्यति नेति
जाने
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १५ ॥
प्राप्ता धनं गृहकुटुम्बगजाश्वदारा
राज्यं यदैहिकमथेन्द्रपुरश्च
नाथ ।
सर्वं विनश्वरमिदं न फलाय कस्मै
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १६ ॥
प्राणान्निरुद्ध्य विधिना न
कृतो हि योगो
योगं विनास्ति मनसः स्थिरता
कुतो मे ।
तां वै विना मम न चेतसि शान्तिवार्ता
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १७ ॥
ज्ञानं यथा मम भवेत् कृपया
गुरूणाम्
सेवां तथा न विधिनाकरवं हि
तेषाम् ।
सेवापि साधनतयाविदितास्ति चित्ते
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १८ ॥
तीर्थादि सेवनमहो विधिना हि
नाथ
नाकारि येन मनसो मम शोधनं स्यात्
शुद्धिं विना न मनसोऽवगमापवर्गौ
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ १९ ॥
वेदान्तशीलनमपि प्रमितिं करोति
ब्रह्मात्मनः प्रमिति साधन
संयुतस्य ।
नैवास्ति साधन लवो मयि नाथ
तस्याः
तस्मात्त्वमद्य शरणं मम दीनबन्धो
॥ २० ॥
गोविन्द शंकर हरे गिरिजेश मेश
शंभो जनार्दन गिरीश मुकुन्द
साम्ब ।
नान्या गतिर्मम कथञ्चन वां
विहाय
तस्मात् प्रभो मम गतिः कृपया
विधेया ॥ २१ ॥
एवं स्तवं भगवदाश्रयणाभिधानम्
ये मानवा प्रतिदिनं प्रणताः
पठन्ति ।
ते मानवाः भवरतिं परिभूय शान्तिम्
गच्छन्ति किं च
परमात्मनि भक्तिमद्धा ॥ २२ ॥
                ***

HYMNS TO VISHNU – SRI DEENABANDHU ASHTAKAM

३.  श्रीदीनबन्ध्वष्टकम्
     (स्वामि ब्रह्मानन्दकृतम्)
 
यस्मादिदं जगदुदॆति चतुर्मुखाद्यम्
यस्मिन्नवस्थितमशॆषमशॆषमूलॆ ।
यत्रॊपयाति विलयं च समस्तमन्तॆ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ १ ॥                
चक्रं सहस्रकरचारु करारविन्दॆ
गुर्वी गदा दरवरश्च विभाति यस्य ।
पक्षीन्द्रपृष्ठपरिरॊपितपादपद्मॊ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ २ ॥                
यॆनॊद्धृता वसुमती सलिलॆ निमग्ना
नग्ना च पाण्डववधूः स्थगिता दुकूलैः ।
सम्मॊचितॊ जलचरस्य मुखाद्गजॆन्द्रॊ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ३ ॥                 
यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिम्
कॊपॆक्षणॆन दनुजा विलयं व्रजन्ति ।
भीताश्चरन्ति च यतॊऽर्कयमानिलाद्या
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ४ ॥                 
गायन्ति सामकुशला यमजं मखॆषु
ध्यायन्ति धीरमतयॊ यतयॊ विविक्तॆ ।
पश्यन्ति यॊगिपुरुषाः पुरुषं शरीरॆ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ५ ॥                
आकाररूपगुणयॊगविवर्जितॊऽपि
भक्तानुकम्पननिमित्तगृहीतमूर्तिः ।
यः सर्वगॊऽपि कृतशॆषशरीरशय्यॊ
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ६ ॥                
यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै-
राराध्यतॆ भवदवानलदाहशान्त्यै ।
सर्वापराधमविचिन्त्य ममाखिलात्मा
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ७ ॥                
यन्नामकीर्तनपरः श्वपचॊऽपि नूनम्
हित्वाखिलं कलिमलं भुवनं पुनाति ।
दग्ध्वा ममाघमखिलं करुणॆक्षणॆन
दृग्गॊचरॊ भवतु मॆऽद्य स दीनभन्धुः ॥ ८ ॥                 
दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्दॆन भाषितम् ।
यः पठेत् प्रयतॊ नित्यं तस्य विष्णुः प्रसीदति ॥ ९ ॥

HYMNS TO VISHNU – KAMALAPATYASHTAKAM

कमलापत्यष्टकम्
        (स्वामि ब्रह्मानन्दकृतम्) 
भुजगतल्पगतं
घनसुन्दरं गरुडवाहनमम्बुजलोचनम् ।
नलिनचक्रगदाकरमव्ययं
भजत रे मनुजाः कमलापतिम् ॥ १ ॥
    
अलिकुलासितकोमलकुन्तलं
विमलपीतदुकूलमनोहरम् ।
जलधिजाङ्कितवामकलेवरं
भजत रे मनुजाः कमलापतिम् ॥ २ ॥
किमु
जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः ।
किमुत
शास्त्रकदंबविलोकनैः भजत रे मनुजाः कमलापतिम् ॥ ३ ॥ 
मनुजदेहमिमं
भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्च्छितम् ।
विषयलंपटतामपहाय
वै भजत रे मनुजाः कमलापतिम् ॥ ४ ॥     
न वनिता
न सुतो न सहोदरो न हि पिता जननी न च बान्धवाः ।
व्रजति
साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम् ॥ ५ ॥      
सकलमेव
चलं सचराचरं जगदिदं सुतरां धनयौवनम् ।
समवलोक्य
विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम् ॥ ६ ॥  
विविधरोगयुतं
क्षणभङ्गुरं परवशं नवमार्गसमाकुलम् ।
परिनिरीक्ष्य
शरीरमिदम् स्वकं भजत रे मनुजाः कमलापतिम् ॥ ७ ॥  
मुनिवरैरनिशं
हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा ।
मरणजन्मजराभयमोचनं
भजत रे मनुजाः कमलापतिम् ॥ ८ ॥         
हरिपदाष्टकमेतदनुत्तमं
परमहंसजनेन समीरितम् ।
पठति
यस्तु समाहित चेतसा व्रजति विष्णुपदं स नरो ध्रुवं ॥ ९ ॥