SRI GUNARATNAKOSHAM

                                                    SreeGunaratna Kosha:

This is a stotra dedicated to  Ranganayaki ,  who is Goddess Lakshmi herself,   consort of Lord Ranganatha of Srirangam .  This is composed by Parasara Bhatta, son of Kuresa, a disciple of Ramanujcharya  who laid the foundations of Vishishtadwaita  philosophy.  Parasara Bhatta  served Lord Ranganatha as the priest at the Srirangam temple.  Srigunaratnakosha literally means treasury of gems of sterling qualities (of Ranganayaki).

  

                                     श्रीगुणरत्नकोशः

श्रीपराशर भट्टार्यः श्रीरङ्गेशपुरोहितः

श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ।

श्रियै समस्तचिदचिन्निधानव्यसनं हरेः।

अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥१॥

उल्लासपल्लवितपालितसप्तलोकी-

निर्वाहकोरकित नेमकटाक्षलीलाम्।

श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां

श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥२॥

अनुकलतनुकाण्डालिङ्गनारंभशुंभत्

प्रतिदिनभुजशाखश्रीसखानोकहर्द्धिः।

स्तननयनगुलुच्छस्फारपुष्पद्विरेफाः

रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥३॥

यद्भ्रूभंगाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः

वेदान्तस्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति।

भोगोपोद्घातकेलीचुलकितभगवद्वैश्वरूप्यानुभावा

सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥४॥

यद्यावत्तववैभवं तदुचितस्तोत्राय दूरे स्पृहा

स्तोतुं के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्चादयः।

अप्येवं तव देवि! वाङ्मनसयोर्भाषानभिज्ञं पदं

का वाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम् ॥५॥

स्तोतारं तमुशन्ति देवि! कवयो यो  विस्तृणीते गुणान्

स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति।

यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गुणाः

क्षान्त्यौदार्यदयादयो भगवति! स्वां प्रस्नुवीरन् प्रथाम् ॥६॥

सूक्तिं समग्रयतु नः स्वयमेव लक्ष्मीः

श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः।

वैदग्ध्यवर्णगुणगुंभनगौरवैर्यां

कण्डूलकर्णकुहराः कवयो धयन्ति ॥७॥

अनाघ्रातावद्यं बहुगुणपरीणाहि मनसः

दुहानं सौहार्दं परिचितमिवाथापि गहनम्।

पदानां सौभ्रात्रादनिमिषनिषेव्यं श्रवणयोः

त्वमेव श्रिर्मह्यं बहुमुखय वाणीविलसितम् ॥८॥

श्रियः श्रीः श्रीरङ्गेशय! तव च हृद्यां भगवतीं

श्रियं त्वत्तोऽप्युच्चैर्वयमिह फणामः शृणुतराम्।

दृशौ ते भूयास्तां सुखतरलतारे श्रवणतः

पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः क्ञ्चुकशतम् ॥९॥

देवि! श्रुतिं भगवतीं प्रथमे पुमांसः

त्वत्सद्गुणौघमणिकोशगृहं गृणन्ति।

तद्द्वारपाटनपटूनि च सेतिहास-

संतर्कणस्मृतिपुराणपुरस्सराणि ॥१०॥

आहुर्वेदानमानं कतिचन कतिचाऽराजकं विश्वमेतत्

राजन्वत्केचिदीशं गुणिनमपि गुणैस्तं दरिद्राणमन्ये।

भिक्षावन्ये सुराजंभवमिति च जडास्ते तलातल्यकार्षुः

ये ते श्रीरङ्गहर्म्याङ्गणकनकलते! न क्षणं लक्ष्यमासन्॥११॥

मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेन

श्रुतिशिरसिनिगूढं लक्ष्मि! ते वीक्षमाणाः।

निधिमिव महिमानं भुञ्जते येऽपि धन्याः

ननु भगवति! देवीं संपदं तेऽभिजाताः ॥१२॥

अस्येशाना जगत इतितेऽधीमहे यां समृद्धिं

श्रीः! श्रीसूक्तं बहुमुखयते तां च शाखानुशाखम्।

ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तः

तं च त्वत्कं पतिमधिजगावुत्तरश्चानुवाकः ॥१३॥

उद्बाहुस्त्वां उपनिषदसावाह नैका नियन्त्रीं

श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे।

स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैः

निन्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम्॥१४॥

आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकात्

ऐश्वर्यं यदिहोत्तरोत्तरगुणं श्रीरङ्गभर्तुः प्रिये।

तुङ्गं मङ्गलमुज्ज्वलं गरिमवत् पुण्यं पुनः पावनं

धन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषाः विप्रुषः ॥१५॥

एको मुक्तातपत्रप्रचलमणिघण-

     त्कारिमौलिर्मनुष्यः

दृप्यद्दन्तावळस्थो न गणयति

    नतान् यत्क्षणं क्षॊणिपालान् ।

यत्तस्मै तिष्ठतेऽन्यः   

    कृपणमशरणो दर्शयन् दन्तपङ्क्ती

तत्ते श्रीरंगराजप्रणयिनि नयनो-

     दञ्चितान्यञ्चिताभ्याम् ॥१६॥ 

रतिर्मतिसरस्वती धृतिसमृद्धिसिद्धिश्रियः

सुधासखि! यतोमुखं चिचलिषेत्तव भ्रूलता।

ततोमुखमथेन्दिरे! बहुमुखीमहंपूर्विकां

विगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः॥१७॥

सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैः

अनोकहबृहस्पतिप्रबलविक्लवप्रक्रियम्।

इदं सदसदात्मना निखिलमेव निम्नोन्नतं

कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि! तत्ताण्डवम् ॥१८॥

काले शंसति योग्यतां चिदचिदोरन्योन्यमालिङ्गतोः

भूताहंकृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः।

अण्डानावरणैस्सहस्रमकरोत्तान्भूर्भुवस्सर्वतः

श्रीरङ्गेश्वरदेवि! ते विहृतये सङ्कल्पमानः प्रियः ॥१९॥

शब्दादीन् विषयान् प्रदर्श्य विभवं विस्मार्य दास्यात्मकं

वैष्णव्या गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान्।

पुंसा पण्यवधूविडंबिवपुषा धूर्तानिवायासयन्

श्रीरङ्गेश्वरि! कल्पते तव परीहासात्मने केलये ॥२०॥  

यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतं

यत्कालादपचेलिमं सुरपुरी यद्गच्छ्तो दुर्गतिः।

सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहं मद्गिरां

तद्विष्णोः परमं पदं तव कृते मातस्समाम्नासिषुः ॥२१॥

हेलायामखिलं चराचरमिदं भोगे विभूतिः परा

पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः।

श्रीरंगेश्वरदेवि! केवलकृपानिर्वाह्यवर्गे वयं

शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे ॥२२॥

आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषां

याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता।

भावैरद्भुतभोगभूमगहनैस्सान्द्रा सुधास्यन्दिभिः

श्रीरङ्गेश्वरगेहलक्ष्मि! युवयोस्तां राजधानीं विदुः ॥२३॥

तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशं

सङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुंभिरानन्दनिघ्नैः।
स्नेहादास्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यैः

आनन्दैकार्णवं श्रीः! भगवति! युवयोराहुरास्थानरत्नम् ॥२४॥ 

तत्र स्रक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानं

विस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेकातपत्रम्।
तैस्तैः कान्तेन शांतोदितगुणविभवैरर्हता त्वामसंख्यैः

अन्योन्याद्वैतनिष्ठाघनरसगहनान् देवि! बध्नासि भोगम् ॥२५॥

भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समं

निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् ।

देवि! त्वामनु नीलया सह महीदेव्यस्सहस्रं तथा

याभिस्वं स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे ॥२६॥

ते साध्यास्सन्ति देवा जननि! गुणवपुर्वेषवृत्तस्वरूपैः

भोगैर्वा निर्विशेषाः सवयस इव ये नित्यनिर्दोषगन्धाः

हे श्रीः! श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सदाऽपि

प्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः ॥२७॥

स्वरूपं स्वातन्त्र्यं भगवत इदं चन्द्रवदने!

त्वदाश्लेषॊत्कर्षात् भवति खलु निष्कर्षसमये।

त्वमासीर्मातः! श्रीः! कमितुरिदमित्थं त्वविभवः

तदन्तर्भावात्त्वां न पृथगभिदधते  श्रुतिरपि ॥२८॥

तव स्पर्शादीशं स्पृशति कमले! मङ्गलपदं

तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः।

प्रसूनं पुष्यन्तीमपि परिमलर्धिं जिगदिषुः

न चैवं त्वा देवं स्वदत इति कश्चित्कवयते ॥२९॥

अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभूत्

अमी यत्र  द्वित्रास्स च शतमखादिस्तदधरात्।

अतः श्रीराम्नायस्तदुभयमुशंस्त्वां प्रणिजगौ

प्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् ॥३०॥

स्वतश्श्रीस्त्वं विष्णोस्स्वमसि तत एषैव भगवान्

त्वदायत्तर्ध्वित्वेऽप्यभवदपराधीनविभवः  ।

स्वया दीप्त्या रत्नं भवदपि महार्घं न विगुणं

न कुण्ठस्वातन्त्र्यं भवति न चाऽन्याहितगुणम् ॥३१॥

प्रशकनबलज्योतिर्ज्ञानेश्वरीविजयप्रथा-

प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः

अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे!

तव भगवतश्चैते साधारणाः गुणराशयः ॥३२॥

अन्येऽपि यौवनसुखाः युवयोस्समानाः

श्रीरङ्गमङ्गलविजृंभणवैजयन्ति!

तस्मिंस्तव त्वयि च तस्य परस्परेण

संस्तीर्य दर्पण इव प्रचुरं स्वदन्ते ॥३३॥

युवत्वादौ तुल्येऽपरवशताशत्रुशमन-

स्थिरत्वादीन्कृत्वा भगवति! गुणान् पुंस्त्वसुलभान्।

त्वयि स्त्रीत्वैकान्तान् म्रदिमपतिपरार्थ्यकरुणा-

क्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा ॥३४॥

घनकनकद्युती युवदशामपि मुग्धदशां

युवतरुणत्वयोरुचितमाभरणादि परम्।

ध्रुवमसमानदेशविनिवेशि विभज्य हरौ

त्वयि च कुशेशयोदरविहारिणि निर्विशसि॥३५॥

अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुंभतः

क्षीराब्धेः किमृजीषतामुपगताः मन्ये महार्घास्ततः।

इन्दुः कल्पलता सुधामधुमुखा  इत्याविलां वर्णनां

श्रीरङ्गेश्वरि! शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति ॥३६॥

प्रणमदनुविधित्सावासनानम्रमग्रे

प्रणयिपरिचिचीषाकुञ्चितं पार्श्वकेन।

कनकनिकषचञ्चच्चंपकस्रक्समान-

प्रवरमिदमुदारं वर्ष्म वाचामभूमिः ॥३७॥

एकं न्यञ्च्य नतिक्षमं मम परं चाकुञ्च्य पादांबुजं

मध्ये विष्टरपुण्डरीकमभयं विन्यस्य हस्तांबुजम् ।
त्वां पश्येम निषेदुषीं प्रतिकलं कारुण्यकूलङ्कष-

स्फारापाङ्गतरङ्गमम्ब! मधुरं मुग्धं मुखं बिभ्रतीम् ॥३८॥

सुरभितनिगमान्तं वन्दिषीयेन्दिरायाः

तव कमलपलाशप्रक्रियं पादयुग्मम्।

वहति यदुपमर्दैर्वैजयन्ती हिमांभः

प्लुतिरिव नवत्वं कान्तबाह्वन्तराले ॥३९॥

त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचाः

नित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्यां पतिम्।

दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामास ते

साक्षाल्लक्ष्मि! तवावलोकविभवः का क्वा कया वर्ण्यते ॥४०॥

आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल-

प्रेमार्द्रैरपि कूलमुद्वहकृपासंप्लावितास्मादृशैः।

पद्मे! ते प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कंभकैः

ऐश्वर्योद्गमगद्गदैरशरणं मां पालयाऽऽलोकितैः ॥४१॥

पादारुन्तुदमेवपङ्कजरजश्चेटीभृशालोकितैः

अङ्गम्लानिरथांब! साहसविधौ लीलारविन्दग्रहः

डोला ते वनमालया हरिभुजे हा कष्टशब्दास्पदं

केन श्रीरतिकोमला तनुरियं वाचां विमर्दक्षमा॥४२।।

आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकित-

भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वाऽयशः।
सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभं

भोगस्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः ॥४३॥

आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्

सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम्।

श्रीरङ्गेश्वरि! कोमलाङ्गसुमनस्सन्तर्पणं देवि ते

कान्तोरःप्रतियत्नमर्हति कविं धिङ्मामकाण्डाकुलम्॥४४॥

मर्मस्पृशो रससिरा व्यतिविध्य वृत्तैः

कान्तोपभोगललितैर्लुलिताङ्गयष्टिः।

पुष्पावलीव रसिकभ्रमरोपभुक्ता

त्वं देवि! नित्यमभिनन्दयसे मुकुन्दम् ॥४५॥

कनकरशनामुक्ताताटङ्कहारललाटिका-

मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके!

प्रकृतिमधुरं गात्रं जागर्ति मुग्धविभूषणैः

वलयशकलैर्दुग्धं पुष्पैश्च कल्पलता यथा ॥४६॥

सामान्यभोग्यमपि कौस्तुभवैजयन्ती-

पञ्चायुधादि रमणः स्वयमेव बिभ्रद्।

तद्भारखेदमिव ते परिहर्तुकामः

श्रीरङ्गधाममणिमञ्जरि! गाहते त्वाम् ॥४७॥

यदि मनुजतिरश्चां लीलया तुल्यवृत्तेः

अनुजनुरनुरूपा देवि! नाऽवातरिष्यः।

असरसमभविष्यन्नर्म नाथस्य मातः

दरदलदरविन्दोदन्तकान्तायताक्षि ॥४८॥

स्खलितकटकमाल्यैर्दोर्भिरब्धिं मुरारेः

भगवति दधिमाथं मथ्नतः श्रान्तिशान्त्यै।

भ्रमदमृतरङ्गावर्ततः प्रादुरासी:

स्मितनयनसुधाभिस्सिञ्चती चन्द्रिकेव ॥४९॥

मातर्मैथिलि राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वया

रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता

काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतः

सा नस्सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी ॥५०॥

मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयं

त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च ।

जामाता दयितस्तवेति भवतीसंबन्धदृष्ट्या हरिं

पश्येम प्रतियाम याम च परीचारान् प्रहृष्येम च॥५१॥

पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने

हितस्रोतोवृत्त्या भवति च कदाचित् कलुषधीः।

किमेतन्निर्दोषः क इह जगतीतित्वमुचितैः

उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥५२॥

नेतुर्नित्यसहायिनी जननि नस्त्रातुं त्वमत्राऽऽगता

लोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्दं बहु।


क्लिष्टं ग्रावसु मालतीमृदुपदं विश्लिष्य वासो वने

जातो धिक्करुणां धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् ॥५३॥

अधिशयितवानब्धिं नाथो ममन्थ बबन्ध ते

हरधनुरसौ वल्लीभञ्जं बभञ्ज च मैथिलि।

अपि दशमुखीं लूत्वा रक्षः कबन्धमनर्तयत्

किमिव न पतिः कर्ता त्वच्चाटुचुञ्चुमनोरथः ॥५४॥

दशशतपाणिपादवदनाक्षिमुखैरखिलैः

अपि निजवैश्वरूप्यविभवैरनुरूपगुणैः।
अवतरणशतैश्च रसयन् कमिता कमले

क्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते ॥५५॥

जननभवनप्रीत्या दुग्धार्णवं बहुमन्यसे

जननि दयितप्रेम्णा पुष्णासि तत्परमं पदम्।

उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण-

क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे ॥५६॥

औदार्यकारुणिकताश्रितवत्सलत्व-

पूर्वेषु सर्वमतिशायितमत्र मातः।

श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्ति

सीतावतारमुखमेतदमुष्य  योग्या ॥५७॥

ऐश्वर्यमक्षरगतिं परमं पदं वा

कस्मै चिदञ्जलिभरं वहते वितीर्य

अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब!

त्वं लज्जसे कथय कोऽयमुदारभावः ॥५८॥  

ज्ञानक्रियाभजनसंपदकिञ्चनोऽहं

इच्छाधिकारशकनानुशयानभिज्ञः।

आगांसि  देवि युवयोरपि दुस्सहानि

बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥५९॥

इत्युक्तिकैतवशतेन विडम्बयामि

तानम्ब! सत्यवचसः पुरुषान् पुराणान्।

यद्वा न मे भुजबलं तव पादपद्म-

लाभे त्वमेव शरणं विधितः कृताऽसि॥६०॥

श्रीरङ्गे शरदश्शतं सह सुहृद्वर्गेण निष्कण्टकं

निर्दुःखं सुसुखञ्च दास्यरसिकां भुक्त्वा समृद्धिं पराम्।

युष्मत्पादसरोरुहान्तररजस्स्याम त्वमंबा पिता

सर्वं च त्वमसि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् ॥६१॥


SRI MAHALAKSHMI STAVAM

                                  श्री महालक्ष्मीस्तवम्
मयि कुरु मङ्गलमंबुजवासिनि मंगलदायिनि मञ्जुगते
मतिमलहारिणि मञ्जुलभाषिणि मन्मथतातविनोदरते।
मुनिजनपालिनि मौक्तिकमालिनि सद्गुणवर्षिणि साधुनुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥१॥
कलिमलहारिणि कामितदायिनि कान्तिविधायिनि कान्तहिते
कमलदलोपमकम्रपदद्वय शिञ्जितनूपुरनादयुते।
कमलसुमालिनि काञ्चनहारिणी लोकसुखैषिणि कामिनुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥२॥
कुवलयमेचकनेत्रकृपापरिपालित संश्रित भक्तकुले
गुरुवर शंकर सन्नुतितुष्टिसुवृष्टसुहेममयामलके।
रविकुलवारिधि चन्द्रसमादरमन्त्रगृहीतसुपाणितले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥३॥
कुलललनाकुल लालितलोलविलोचनपूर्णकृपाकमले
चलदलकावलि वारिदमध्यगचन्द्रसुनिर्मल फालतले।
मणिमयभासुरकर्णविभूषण कान्तिपरिष्कृतगण्डतले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥४॥
सुरगण दानवमण्डललोडित सागरसंभवदिव्यतनो
सकलसुरासुरदेवमुनीनतिहाय च दोषदृशा हि रमे।
गुणगणवारिधिनाथमहोरसि दत्तसुमावलि जातमुदे
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥५॥
कनकघटोपमकुंकुमशोभितहारसुरञ्जित दिव्यकुचे
कमलजपूजितकुंकुमपङ्किल कान्तपदद्वय तामरसे।
करधृतकञ्जसुमे कटिवीतदुकूलमनोहरकान्तिवृते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥६॥
सुरपतिपूजनदत्तमनोहरचन्दनकुङ्कुमसंवलिते
सुरयुवतीकृतवादननर्तन वीजनवन्दन संमुदिते।
निजरमणारुणपादसरोरुहमर्द्दनकल्पन तोषयुते
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥७॥
दिनमणिसन्निभदीपसुदीपितरत्नसमावृतदिव्यगृहे
सुतधनधान्यमुखाभिध लक्ष्म्य़भिसंवृतकान्त गृहीतकरे।
निजवनपूजन दिव्यसमर्चन वन्दन कल्पित भर्तृमुदे
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥८॥
अनवधिमङ्गलमार्तिविनाशनमच्युतसेवनमम्ब रमे
निखिल कलामति मास्तिकसंगममिन्द्रियपाटवमर्पय मे।
अमितमहोदयमिष्टसमागममष्टसुसंपदमाशु मम
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥९॥
करतलशुक्लसुमावलिनिर्मितहारगजीवृतपार्श्वतले
कमलनिवासिनि शोकविनाशिनि दैव सुवासिनि लक्ष्म्यभिधे
निजरमणारुणचन्दनचर्चितचंपकहारसुचारुगले
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥१०॥
अनघमनन्तपदान्वितरामसुदीक्षित सत्कृतपद्यमिदं
पठति शृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते
द्विजवरदेशिकसन्नुतितुष्टरमे परिपालयलोकमिमं
जय जय हे मधुसूदनमोहिनि मोदविधायिनि वेदनुते ॥११॥

SRISTAVA:

                                                            श्रीस्तवः
श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम्॥
              —-
स्वस्ति श्रीर्दिशतादशेषजगतां सर्गोपसर्गस्थितीः
स्वर्गं दुर्गतिमापवर्गिकपदं सर्वञ्च कुर्वन् हरिः।
यस्या वीक्ष्य मुखं तदिङ्गितपराधीनो विधत्तेऽखिलं
क्रिडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया॥१॥
हे श्रीर्देवि समस्तलोकजननीं त्वां स्तोतुमीहामहे
युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम्।
भक्तिं भन्दय नन्दयाश्रितमिमं दासं जनं तावकं
लक्ष्यं लक्ष्मि कटाक्षवीचिविसृतेः ते स्याम चामी वयम् ॥२॥
स्तोत्रं नाम किमामनन्ति कवयो यद्यन्यदीयान् गुणान्
अन्यत्र त्वसतोऽधिरोप्य फणितिस्सा तर्हि वन्ध्या त्वयि ।
सम्यक्सत्यगुणाभिवर्णनमथो ब्रूयुः कथं तादृशी
वाग्वाचस्पतिनाऽपि शक्यरचना त्वत्सद्गुणार्णोनिधौ॥३॥
ये वाचां मनसां च दुर्ग्रहतया ख्याता गुणास्तावकाः
तानेव प्रति साम्बुजिह्वमुदिताहै मामिका भारती।
हास्यं तत्तु न मन्महे न हि चकोर्येकाऽखिलां चन्द्रिकां
नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि॥४॥
क्षोदीयानपि दुष्टबुद्धिरपि निःस्नेहोऽप्यनीहोऽपि ते
कीर्तिं देवि लिहन्नहं न च बिभेम्यज्ञो न जिह्रेमि च।
दुष्येत्सा तु न तावता न हि शुनालीढाऽपि भागीरथी
दुष्येच्छ्‍वाऽपि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुनः ॥५॥
ऐश्वर्यं महदेव वाल्पमथवा दृश्येत पुंसां हि यत्
तल्लक्ष्म्याः समुदीक्षणात्तव यतः सार्वत्रिकं वर्तते।
तेनैतेन न विस्मयेमहि जगन्नाथोऽपि नारायणः
धन्यं मन्यत ईक्षणात्तव यतः स्वात्मानमात्मेश्वरः ॥६॥
ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययोः
रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते।
तत्सर्वं त्वदधीनमेव यदतः श्रीरित्यभेदेन वा
यद्वा श्रीमदितीदृशेन वचसा देवि प्रथामश्नुते ॥७॥
देवि! त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते
यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते।
यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदुः
व्योमांभोजमिदन्तया किल विदन् भ्रान्तोऽयमित्युच्यते ॥८॥
लोके वनस्पतिबृहस्पतितारतम्यं
यस्याः प्रसादपरिणाममुदाहरन्ति।
सा भारती भगवती तु यदीयदासी
तां देवदेवमहिषीं श्रियमाश्रयामः ॥९॥
यस्याः कटाक्षमृदुवीक्षणदीक्षणेन
सद्यस्समुल्लसित पल्लवमुल्ललास।
 
विश्वं विपर्यय समुत्थविपर्ययं प्राक्
तां देवदेवमहिषीं श्रियमाश्रयामः ॥१०॥
यस्याः कटाक्षवीक्षाक्षणलक्षं  लक्षिता महेशास्स्युः।
श्रीरङ्गराजमहिषी सा मामपि वीक्षतां लक्ष्मीः ॥११॥
       ॥इति श्रीस्तवः समाप्तः॥
अर्वाञ्चो यत्पदसरसिजद्वन्द्वमाश्रित्य पूर्वे
मूर्ध्ना यस्यान्वयमुपगताः देशिका मुक्तिमापुः।
सोऽयं रामानुजमुनिरपि स्वीयमुक्तिं करस्थां
यत्संबन्धादमनुत कथं वर्ण्यते कूरनाथः ॥    

SRI KOMALA DANDAKAM

श्री कोमलादण्डकम्

जय दुग्धाब्धितनये जय शार्ङ्गधरप्रिये ।
जय कारुण्यसुरभे जय लावण्यवारिधे ॥

प्रथम चरणः

जय जय जय दीव्यदिन्दीवरच्छाय-कूलङ्कषस्यन्दि-कालिन्दिकामन्दमन्दानिलोदञ्चि-वीची-समीचीन-वेणीभवत्केशपाशातिथीभूत-पाथोधरे !
पीतवासोधरे ! बिम्बशोणाधरे !
जृंभमाणामृतांशु-बिम्बायुतेनाशु-संप्राप्त-सौन्दर्य-वक्त्रारविन्दे !
दर-स्पन्द-पक्ष्मद्वयीपक्ष-संलक्ष्य-चक्षुर्मिलिन्दे !
सुधासध्यृगुक्तिच्छलोद्यन्मरन्दे !
गिरं देहि देवीडितुं त्वाऽभिवन्दे !
रदस्पर्धिकुन्देऽनुरज्यन्मुकुन्दे !
शरत्पर्वचन्द्र-क्षरच्चन्द्रिकाऽखर्वगर्वैक-सर्वङ्कष-स्फाररोचिस्फुरन्मन्दहासे!
लसच्चन्द्रहासे !
तनीयोन्नत-भ्रूयुगोपमानीय-दामोदमानेषु-चञ्चच्छरासने !
दयासार-सारोल्लसत्-दृग्विलासे! ततो भक्तिभाजां कृतांहोनिरासे !
मणीमण्डलप्रोल्लसत्कुण्डले! तज्जितोदग्रभा-भानुमन्मण्डले !
कम्बुदुष्प्रापकण्ठाभयालङ्कृते! कंसजित्सत्कृते कञ्जगर्भस्थिते !
कुंभिकुंभ-प्रतिद्वंद्वि-वक्षोरुहे! बाहुदंभोल्लसत्कल्पकानोकहे !
शातकुंभद्युते! साधुकुंभस्तुते !
हे सरस्वत्सुते !
योगिहृद्दुर्ग्रहाकारमध्ये! महाभोगि-मध्येशयाधीश-वक्षस्थलावासशीलेऽखिलाशास्यलीले !
कला पुष्कले !
मञ्जु-शिञ्जान-मञ्जीर-चञ्चत्पदे! सर्वसंपत्प्रदे !

द्वितीय चरणः

कमितुरुरसि कौस्तुभाभा-परीवाह-बालातपोदार-पादारविन्दप्रभे !
पाहि पद्मे शुभे !
पद्मसंलाञ्छिते प्रत्त सद्वांञ्छिते! भक्तलोकाञ्चिते !
वेदवेदान्तवेद्येऽन्यदुर्निग्रहोदीर्ण-दौर्गत्य-वैद्येऽनवद्ये !
वधूमात्र-दुष्प्राप-सद्रूप-धेये! जगत्पावयन्नामधेये !
हरेर्रूपधेयानुरूपे! दृशानिर्जित-त्रस्त-सद्रूप धेये !
वपुश्शोभयाऽधोभवज्जातरूपेऽतिलावण्य-रामासमाजाभिरामे ! रमे !
मञ्जुकञ्जत्स्फुरत्पाणिपाथोरुहे !
बंभ्रमद्बंभरप्रेयसी-पालिकामोह-विश्राणन-प्रक्रियैकाग्र-पुङ्खानुपुङ्खानुधावत्-कटाक्षप्रवाहे ! मृणालप्रतिस्पर्धि-बाहे !
ललाटे-लसच्चित्रकी-चक्रित-न्यङ्कुनाभे !
सुधायास्सनाभेऽनुभावातुला-विप्रभास्वत्तुलाकोटियुक्तेऽमृतस्यन्दिसूक्ते !
अभि-वन्दारु-मन्दार-संतान-शाखे !
विशाखेश-लोकेश-मेघेशयानादि-नानादिवौकोभिराराधिते भारती वन्दिते !
पार्वती नन्दिते ! वासवी सेविते ! का समा देवि ते ॥

तृतीय चरणः

अयि जननि दया-सुधासार-संप्लावितापाङ्ग-संभावितोयस्त्वयावासभूमिः श्रियाऽनन्यसाधारणीभूतयाऽऽश्लिष्यते तावदध्युष्यते ।
तद्गृहद्वारमुद्यन्मदै-रद्रिवद्बन्धुरैरप्युदञ्चन्-मरुद्बान्धवैः सैन्धवै-रंशुमन्मण्डली-नन्दनैः स्यन्दनैः पत्तिभिः प्राप्तसंपत्तिभिर्विस्मृतापत्तिभिः संहतिर्वैरिणां सञ्जीयते ।
जायते तद्विषां प्राणनं काननं
तस्य चेदाननं भारती मञ्जु भद्रासनं शासनम्
तस्य चेत् सर्वसर्वंसहाधीश चूडायते ।
तद्वशी बोभवीत्युर्वशी, भूयते तत्परीरंभसंरंभया रम्भया, वाहनं तस्य
चैरावतो वाथवा वारिदो, गीयते तद्यशस्सर्वं हाहादि गन्धर्ववर्गैरलं पुष्कलम् ।
तद्यशस्स्रोतसा सर्वदिग्पूर्यते ।
तस्य सिध्यन्ति नानापुमर्थाः विना तेन केवा समर्था जनाः किं परं वर्ण्यते।
यत्तवापाङ्गतो विश्वमेतच्चरस्थावराकारमध्येधते।
पाहि पद्मालये! पाहि पद्मानने! पाहि कारुण्यसिन्धो!
नमस्ते समस्तेप्सितार्थप्रदानैकतानैकहस्ते!
मुहुस्ते पुनस्ते नमस्ते समस्ते नमस्ते नमस्ते नमः ।
सामादिश्रुतिघोषितात्मविभवा हेमारविन्दासना
धामाधःकृतदिव्यकाञ्चनरुचिः सोमाभिरामानना ।
रामा शार्ङ्गधरस्य कोमललता नामास्तु भूमौ सतां
सीमा सद्गुणसंपदामविरलक्षेमाय भामा मणिः ॥
पत्युः प्रभावलयि कौस्तुभवैजयन्ती-श्रीवत्सभूषणमुरः परिभूषयन्ती ।
दुग्धांबुराशि कुलमङ्गल वैजयन्ती
श्री कोमळास्तु सततं सुगुणैर्जयन्ती ॥

ASHTALAKSHMI STOTRAM

                 अष्टलक्ष्मीस्तोत्रम्
       आदिलक्ष्मीः
द्विभुजाञ्च द्विनेत्राञ्च साभयां वरदान्विताम्
पुष्पमालाधरां देवीं अम्बुजासनसंस्थितां
पुष्पतोरणसंयुक्तां प्रभामण्डलमण्डितां
सर्वलक्षणसंयुक्तां सर्वाभरणभूषितां
पीताम्बरधरां देवीं मकुटे चारुबन्धनां
स्तनोन्नति समायुक्तां पार्श्वयोर्दीपशक्तिकाम्
सौन्दर्यनिलयां शक्तिं आदिलक्ष्मीमहं भजे ॥१॥
      सन्तानलक्ष्मीः
जटामकुटसंयुक्तां स्थितासनसमन्वितां
अभयं कटकञ्चैव पूर्णकुंभं भुजद्वये
कञ्चुकं छन्दवीरञ्च मौक्तिकं चापि धारिणीं
दीपचामरनारीभिः सेवितां पार्श्वयोर्द्वयोः
नमामि मङ्गलां देवीं करुणापूरिताननां
महाराज्ञीञ्च सन्तानलक्ष्मीमिष्टार्थसिद्धये ॥२॥
      गजलक्ष्मीः 
चतुर्भुजां त्रिनेत्राञ्च वराभयकरान्वितां
अब्जद्वयकरांभोजां अम्बुजासनसंस्थितां
शशिवर्णकटेभाभ्यां प्लाव्यमानां महाश्रियं
सर्वाभरणशोभाढ्यां शुभवस्त्रोत्तरीयकां
चामरग्रहनारीभिः सेवितां पार्श्वयोर्द्वयोः
आपादलम्बिवसनां करण्डमकुटां भजे ॥३॥
          धनलक्ष्मी:
किरीटमकुटोपेतां स्वर्णवर्णसमन्वितां
सर्वाभरणसंयुक्तां सुखासनसमन्वितां
परिपूर्णञ्च कुम्भञ्च दक्षिणेन करेण तु
चक्रं बाणं च तांबूलं तथा वामकरेण तु
शङ्खं पद्मञ्च चापञ्च घण्टकामपि धारिणीं
स्रक्कञ्चुकस्तनीं ध्यायेत् धनलक्ष्मीं मनोहराम् ॥४॥
         धान्यलक्ष्मीः
वरदाभयसंयुक्तां किरीटमकुटोज्ज्वलां
अम्बुजं चेक्षुशालिं च कदलीफल द्रोणिकां
पङ्कजं दक्षवामे तु दधानां शुक्लरूपिणीं
कृपामूर्तिं जटाजूटां सुखासनसमन्वितां
सर्वालङ्कारसंयुक्तां सर्वाभरणभूषितां
मदमत्तां मनोहारिरूपां धान्यश्रियं भजे ॥५॥
          विजयलक्ष्मीः
अष्टबाहुयुतां देवीं सिंहासनवरस्थितां
सुखासनां सुकेशीं च किरीटमकुटोज्ज्वलाम्
श्यामाङ्गीं कोमलाकारां सर्वाभरणभूषितां
खड्गं पाशं तथा चक्रं अभयं सव्यहस्तके
खेटकञ्चांकुशं शङ्खं वरदं वामहस्तके
राजरूपधरां शक्तिं प्रभासौन्दर्यशोभितां
हंसारूढां स्मरेत् देवीं विजयां विजयाप्तये ॥६॥
          महालक्ष्मीः
चतुर्भुजां महालक्ष्मीं गजयुग्मसुपूजितां
पद्मपत्राभनयनां वराभयकरोज्ज्वलां
ऊर्ध्वद्वयकरे चाब्जं दधतीं शुक्लवस्त्रकां
पद्मासने सुखासीनां भजेऽहं सर्वमङ्गलाम् ॥७॥
        वीरलक्ष्मीः
अष्टबाहुयुतां लक्ष्मीं सिंहासनवरस्थितां
तप्तकाञ्चनसंकाशां किरीटमकुटोज्ज्वलां
स्वर्णकञ्चुकसंयुक्तां छन्नवीरधरां तथा
अभयं वरदं चैव भुजयोः सव्यवामयोः
चक्रं शूलञ्च बाणञ्च शङ्खं चापं कपालकं
दधतीं वीरलक्ष्मीञ्च नव कालात्मिकां भजे ॥८॥ 

SRI LAKSHMI ASHTOTHARA SATANAMA STOTRAM

  Click here for the पूर्वभाग of this stotra       

लक्ष्म्यष्टोत्तरशतनाम्स्तोत्रम्


प्रक्रुतिं विकृतिं विद्यां सर्वभूतहितप्रदां
श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकां ॥१-८॥
वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधां
धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीं ॥९-२०॥
अदितिं च दितिं दीप्तां वसुधां वसुधारीणीं
नमामि कमलां कान्तां कामाक्षीं क्रोधसंभवां ॥२१-२९॥
अनुग्रहप्रदां बुद्धिं अनघां हरिवल्लभां
अशोकाममृतां दीप्तां लोकशोकविनाशिनीं ॥३०-३७॥
नमामि धर्मनिलयां करुणां लोकमातरं
पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं ॥३८-४४॥
पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां
पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीं  ॥४५-५२॥
पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभां
नमामि चन्दवदनां चन्द्रां चन्द्रसहोदरीं ॥५३-५९॥
चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलां
आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीं ॥६०-६८॥
विमलां विश्वजननीं तुष्टिम् दारिद्र्यनाशिनीं
प्रीतिपुष्करिणीं शान्तां शुक्लमाल्यांबरां श्रियं ॥६९-७६॥
भास्करीं बिल्वनिलयां वरारोहां यशस्विनीं
वसुन्धरामुदारांगां हरिणीं हेममालिनीं ॥७७-८४॥
धनधान्यकरीं सिद्धिं स्त्रैणसौम्यां शुभप्रदां
नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रादां   ॥८५-९१॥
शुभां हिरण्यप्राकारां समुद्रतनयां जयां
नमामि मंगलां देवीं विष्णुवक्षःस्थलस्थितां ॥९२-९७॥
विष्णूपत्नीं प्रसन्नाक्षीं नारायणसमाश्रितां
दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीं  ॥९८-१०३॥
नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकां
त्रिकालज्ञान्संपन्नां नमामि भुवनेश्वरीं  ॥१०४-१०८॥
Note: मंगला देवी इत्येकं नाम सविशेषणम्

Click here for the Audio of this stotra

HYMNS TO LAKSHMI – SRILAKSHMI DHYANAM

          ५.  श्रीलक्ष्मीध्यानम्
सिन्दूरारुणकान्तिमब्जवसतिं सौन्दर्यवारांनिधिं
कॊटीराङ्गदहारकुण्डलकटीसूत्रादिभिर्भूषिताम् ।
हस्ताब्जैर्वसुपत्रमब्जयुगलादर्शंवहन्तीं परां
आवीतां परिवारिकाभिरनिशं ध्यायॆ प्रियां शार्ङ्गिणः ॥ १ ॥
भूयात् भूयॊ द्विपद्माभयवरदकरा तप्तकार्तस्वराभा
रत्नौघाबद्धमौलिर्विमलतरदुकूलार्तवालॆपनाढ्या ।
नाना कल्पाभिरामा स्मितमधुरमुखी सर्वगीर्वाणवनद्या
पद्माक्षी पद्मनाभॊरसिकृतवसतिः पद्मगा श्री श्रियॆ वः ॥ २ ॥
वन्दॆ पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् ।
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिस्सॆवितां
पार्श्वॆ पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ ३ ॥

HYMND TO LAKSHMI – SRISTUTI BY VEDANTADESIKA

             ४.  श्रीस्तुति
        (श्री वॆदान्तदॆशिकविरचितम्)
मानातीतप्रथितविभवां मङ्गलं मङ्गलानां
वक्षःपीठीं मधुविजयिनॊ भूषयन्तीं स्वकान्त्या ।
प्रत्यक्षानुश्रविकमहिमप्रार्थनीनां प्रजानां
श्रॆयॊमूर्तिं श्रियमशरणः त्वां शरण्यां प्रपद्यॆ ॥ १ ॥
आविर्भावः कलशजलधावध्वरॆ वापि यस्याः
स्थानं यस्याः सरसिजवनं विष्णुवक्षस्थलं वा ।
भूमा यस्या भुवनमखिलं दॆवि दिव्यं पदं वा
स्तॊकप्रज्ञैरनवधिगुणा स्तूयसॆ सा कथं त्वम् ॥ २ ॥
स्तॊतव्यत्वं दिशति भवती दॆहिभिः स्तूयमाना
तामॆव त्वामनितरगतिः स्तॊतुमाशंसमानः।
सिद्धारम्भः सकलभुवनश्लाघनीयॊ भवॆयं
सॆवापॆक्षा तव चरणयॊः श्रॆयसॆ कस्य न स्यात् ॥ ३ ॥
यत् सङ्कल्पात् भवति कमलॆ यत्र दॆहिन्यमीषां
जन्मस्थॆमप्रलयरचना जङ्गमाजङ्गमानाम् ।
तत् कल्याणं किमपि यमिनामॆकलक्ष्यं समाधौ
पूर्णं तॆजः स्फुरति भवती पादलाक्षारसाङ्कम् ॥ ४ ॥
निष्प्रत्यूहप्रणयघटितं दॆवि नित्यानपायं
विष्णुस्त्वं चॆत्यनवधिगुणं द्वन्द्वमन्यॊन्यलक्ष्यम् ।
शॆषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां
संपद्यन्तॆ विहरणविधौ यस्य शय्याविशॆषाः ॥ ५ ॥
उद्दॆश्यत्वं जननि भजतॊरुझितॊपाधिगन्धं
प्रत्यग्रूपॆ हविषि युवयॊरॆकशॆषित्वयॊगात् ।
पद्मॆ पत्युस्तव च निगमैर्नित्यमन्विष्यमाणॊ
नावच्छॆदं भजति महिमा नर्तयन् मानसं नः ॥ ६ ॥
पश्यन्तीषु श्रुतिषु परितः सूरिबृन्दॆनसार्धं
मध्यॆकृत्य त्रिगुणफलकं निर्मितस्थानभॆदम् ।
विश्वाधीशप्रणयिनि सदा विभ्रमद्यूतवृत्तौ
ब्रह्मॆशाद्या दधति युवयॊरक्षशार प्रचारम् ॥ ७ ॥
अस्यॆशाना त्वमसि जगतः संश्रयन्ती मुकुन्दं
लक्ष्मीः पद्मा जलधितनया विष्णुपत्नीन्दिरॆति ।
यन्नामानि श्रुतिपरिपणान्यॆवमावर्तयन्तॊ
नावर्तन्तॆ दुरितपवनप्रॆरितॆ जन्मचक्रॆ ॥ ८ ॥
त्वामॆवाहुः कतिचिदपरॆ त्वत्प्रियं लॊकनाथं
किंतैरन्तःकलहमलिनैः किञ्चिदुत्तीर्यमग्नैः ।
त्वत्‌संप्रीत्यै विहरति हरौ सम्मुखीनां श्रुतीनां
भावारूढौ भगवति युवां दैवतं दंपती नः ॥ ९ ॥
आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णॊः
आचख्युस्त्वां प्रियसहचरीमैकमत्यॊपपन्नां ।
प्रादुर्भावैरपि समतनुः प्राक्तमन्वीयसॆ  त्वम्
दूरॆक्षिप्तैरिव मधुरता दुग्धराशॆस्तरङ्गैः ॥ १० ॥
धत्तॆ शॊभां हरिमरकतॆ तावकीमूर्तिराद्या
तन्वी तुङ्गस्तनभरनता तप्तजांबूनदाभा ।
यस्यां गच्छत्युदयविलयैर्नित्यमानन्दसिन्धा-
विच्छावॆगॊल्लसितलहरी विभ्रमं व्यक्तयस्तॆ ॥ ११ ॥
आसंसारं विततमखिलं वाङ्मयं यद्विभूतिः
यद्भ्रूभङ्गात् कुसुमधनुषः किङ्करॊ मॆरुधन्वा ।
यस्यां नित्यं नयनशतकैरॆकलक्ष्यॊ महॆन्द्रः
पद्मॆ तासां परिणतिरसौ भावलॆशैस्त्वदीयैः ॥ १२ ॥
अग्रॆ भर्तुः सरसिजमयॆ भद्रपीठॆ निषण्णां
अम्भॊराशॆरधिगतसुधासंप्लवादुत्थितां त्वाम् ।
पुष्पासार स्थगितभुवनैः पुष्कलावर्तकाद्यैः
कॢप्तारम्भाः कनककलशैरभ्यषिञ्चन् गजॆन्द्राः ॥ १३ ॥
आलॊक्य त्वाममृतसहजॆ विष्णुवक्षस्थलस्थाम्
शापाक्रान्ताः शरणमगमन् सावरॊधाः सुरॆन्द्राः ।
लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत् कटाक्षैः
सर्वाकारस्थिरसमुदयां संपदं निर्विशन्ति ॥ १४ ॥
आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहैः
अम्भॊजानामुषसिमिषतामन्तरंगैरपांगैः ।
यस्यां यस्यां दिशि विहरतॆ दॆवि दृष्टिस्त्वदीया
तस्यां तस्यामहमहमिकां तन्वतॆ संपदॊघाः ॥ १५ ॥
यॊगारम्भत्वरितमनसॊ युष्मदैकान्त्ययुक्तं
धर्मं प्राप्तुं प्रथममिह यॆ धारयन्तॆ धनायाम् ।
तॆषां भूमॆर्धनपतिगृहादंबरादंबुधॆर्वा
धारा निर्यान्त्यधिकमधिकं वाञ्छितानां वसूनाम् ॥ १६ ॥
श्रॆयस्कामा कमलनिलयॆ चित्रमाम्नायवाचां
चूडापीडं तव पदयुगं चॆतसा धारयन्तः ।
छत्रछाया सुभगशिरसश्चामरस्मॆरपार्श्वाः
श्लाघाशब्दश्रवणमुदिताः स्रग्विणः सञ्चरन्ति ॥ १७ ॥
ऊरीकर्तुं कुशलमखिलं जॆतुमादीनरातीन्
दूरीकर्तुं दुरितनिवहं त्यक्तुमाद्यामविद्याम् ।
अंब स्तंबावधिक जननग्रामसीमान्तरॆखां
आलंबन्तॆ विमलमनसॊ विष्णुकान्तॆ दयां तॆ  ॥ १८ ॥
जाताकाङ्क्षा जननि युवयॊरॆकसॆवाधिकारॆ
मायालीढं विभवमखिलं मन्यमानास्तृणाय ।
प्रीत्यै विष्णॊस्तवच कृतिनः प्रीतिमन्तॊ भजन्तॆ
वॆलाभङ्गप्रशमनफलं वैदिकं धर्मसॆतुम् ॥ १९ ॥
सॆवॆ दॆवि त्रिदशमहिलामौलिमालार्चितं तॆ
सिद्धिक्षॆत्रं शमितविपदां संपदां पादपद्मम् ।
यस्मिन्नीषन्नमितशिरसॊ  यापयित्वा शरीरं
वर्तिष्यन्तॆ वितमसि पदॆ वासुदॆवस्य धन्याः ॥ २० ॥
सानुप्रासप्रकटितदयैः सान्द्रवात्सल्यदिग्धैः
अंब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यैः ।
घर्मॆ तापत्रयविरचितॆ गाढतप्तं क्षणं मां
आकिञ्चन्यग्लपितमनघैरार्द्रयॆथाः कटाक्षैः ॥ २१ ॥
संपद्यन्तॆ भवभयतमॊभानवस्त्वत् प्रसादात्
भावाः सर्वॆ भगवति हरौ भक्तिमुद्वॆलयन्तः ।
याचॆ किं त्वामहमिह यतः शीतलॊदारशीला
भूयॊ भूयॊ दिशसि महतां मङ्गलानां प्रबन्धान् ॥ २२ ॥
माता दॆवि त्वमसि भगवान् वासुदॆवः पिता मॆ
जातः सॊहं जननि युवयॊरॆकलक्ष्यं दयायाः ।
दत्तॊ युष्मत् परिजनतया दॆशिकैरप्यतस्त्वं
किं तॆ भूयः प्रियमिति किल स्मॆरवक्त्रा विभासि ॥ २३ ॥
कल्याणानामविकलनिधिः कापि कारुण्यसीमा
नित्यामॊदा निगमवचसां मौलिमन्दारमाला ।
संपद्दिव्या मधुविजयिनः सन्निधत्तां सदा मॆ
सैषा दॆवी सकलभुवनप्रार्थना कामधॆनुः ॥ २४ ॥
उपचितगुरुभक्तॆरुत्थितं वॆङ्कटॆशात्
कलिकलुषनिवृत्यै कल्प्यमानं प्रजानाम् ।
सरसिजनिलयायाः स्तॊत्रमॆतत् पठन्तः

सकलकुशलसीमाः सर्वभौमा भवन्ति ॥


HYMNS TO LAKSHMI – VIJAYALAKSHMI STAVAM

३. विजयलक्ष्मीस्तवं
           (अगस्त्यकृतं)
जय पद्मविशालाक्षि जय त्वं श्रीपतिप्रियॆ ।
जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ १ ॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरॆश्वरि ।
हरिप्रियॆ नमस्तुभ्यं नमस्तुभ्यं दयानिधॆ ॥ २ ॥
पद्मालयॆ नमस्तुभ्यं नमस्तुभ्यं च सर्वदॆ ।
सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥ ३ ॥
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधॆ ।
दयावति नमस्तुभ्यं विश्वॆश्वरि नमॊऽस्तु तॆ ॥ ४ ॥
नमः क्षीरार्णवसुतॆ नमस्त्रैलॊक्यधारिणि ।
रक्ष त्वं दॆवदॆवॆशि दॆवदॆवस्य वल्लभॆ ॥ ५ ॥
दारिद्‌र्यात् त्राहि मां लक्ष्मि कृपां कुरु ममॊपरि ।
नमस्त्रैलॊक्यजननि नमस्त्रैलॊक्यपावनि ॥ ६ ॥
ब्रह्मादयॊ नमन्तॆ त्वां जगदानन्ददायिनि ।
विष्णुप्रियॆ नमस्तुभ्यं नमस्तुभ्यं जगद्धितॆ ॥ ७ ॥
आर्तिहन्त्रि नमस्तुभ्यं समृद्धिं कुरु मॆ सदा ।
अब्जवासॆ नमस्तुभ्यं चापलायै नमॊ नमः ॥ ८ ॥
चञ्चलायै नमस्तुभ्यं ललितायै नमॊ नमः ।
नमः प्रद्युम्नजननि मातस्तुभ्यं नमॊ नमः ॥ ९ ॥
परिपालय भॊ मातः मां तुभ्यं शरणागतम्
शरण्यॆ त्वां प्रपन्नॊऽस्मि कमलॆ कमलालयॆ ।
त्राहि त्राहि महालक्ष्मि परित्राणपरायणॆ ॥ १० ॥
लक्ष्मि त्वद्गुणकीर्तनॆन कमलाभूर्यात्यलं जिह्मतां
रुद्राद्या रविचन्द्रदॆवपतयॊ वक्तुं न चैव क्षमाः ।
अस्माभिस्तवरूपलक्षणगुणान् वक्तुं कथं श्क्यतॆ
मातर्मां परिपाहि विश्वजननि कृत्वा ममॆष्टं ध्रुवम्  ॥ ११ ॥


  

HYMNNS TO LAKSHMI – MAHALAKSHMI ASHTAKAM

१. श्री महालक्ष्म्यष्टकम्
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शंखचक्रगदाहस्ते महालक्ष्मि नमोऽस्तुते ॥ १ ॥
नमस्ते गरुडारूढे कोलासुरभयंकरी ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुष्टभयंकरि ।
सर्वदु:खहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ३ ॥
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्ति प्रदायिनि ।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तुते ॥ ४ ॥
आद्यंतरहिते देवि आद्यशक्ति महेश्वरि ।
योगजे योगसंभूते महालक्ष्मि नमोऽस्तुते ॥ ५ ॥
स्थूलसूक्ष्म महारौद्रे महाशक्ति महोदरे ।
महापापहरे देवि महालक्ष्मि नमोऽस्तुते ॥ ६ ॥
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि ।
परमेशि जगन्मातः महालक्ष्मि नमोऽस्तुते ॥ ७ ॥
श्वेतांबरधरे देवि नानालंकारभूषिते ।
जगत्स्थिते जगन्मातः महालक्ष्मि नमोऽस्तुते ॥ ८ ॥
महालक्ष्यष्टकं स्तोत्रं यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥
एककाले पठेन्नित्यं महापापविनाशनं ।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ १० ॥
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनं ।
महालक्ष्मीर्भवेन्न्नित्यं प्रसन्ना वरदा शुभा ॥ ११ ॥
                 ***

Click here for the Audio of this stotra