HYMNS TO SRIMATA – SHRI AMBA PANCHARATNAM

२९. श्री अम्बापञ्चरत्नम्
अम्बा शंबरवैरितातभगिनी श्रीचन्द्रबिम्बानना
बिम्बोष्ठी स्मितभाषिणी शुभकरी कादम्बवाट्याश्रिता ।
ह्रीङ्काराक्षरमन्त्रमध्यसुभगा  श्रोणी नितम्बाङ्किता
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ १ ॥
कल्याणी कमनीयसुन्दरवपुः कात्यायनी कालिका
कालश्यामलमॆचकद्युतिमती गायत्रिपञ्चाक्षरी ।
कामाक्षी करुणानिधिः कलिमलारण्यातिदावानला
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ २ ॥
काञ्चीकङ्कणहारकुण्डलवती कोटी किरीटान्विता
कन्दर्पद्युतिकोटि  कोटि सदना पीयूषकुम्भस्तना ।
कौसुम्भारुणकाञ्चनाम्बरवृता कैलासवासप्रिया
मामम्बापुरवासिनी भगवती  हेरम्बमाताऽवतु ॥ ३ ॥
या सा शुम्भनिशुम्भदैत्यशमनी या रक्तबीजाशनी
या श्री विष्णुसरोजनेत्रभवना या ब्रह्मविद्यासनी ।
या देवी मधुकैटभासुररिपुः या माहिषध्वंसिनी
मामम्बापुरवासिनी भगवती हे रम्बमाताऽवतु ॥ ४ ॥
श्रीविद्या परदॆवताऽऽदिजननी दुर्गा जया चण्डिका
बाला श्रीत्रिपुरेश्वरी शिवसती श्रीराजराजेश्वरी ।
श्रीराज्ञी शिवदूतिका श्रुतिनुता शृङ्गारचूडामणिः
मामम्बापुरवासिनी भगवती हेरम्बमाताऽवतु ॥ ५ ॥
 
अम्बा पञ्चकमद्भुतं पठति चेत् यो वा प्रभातेऽनिशं
दिव्यैश्वर्यशतायुरुत्तममिदं विद्यां श्रियं शाश्वतम् ।
लब्ध्वा भूमितले स्वधर्मनिरतां श्रीसुन्दरीं भामिनीं
अन्तॆ स्वर्गफलं लभेत् स विबुधैः संस्तूयमानॊ नरः ॥ ६ ॥

                 ***

Click  here to get to  the Master Index from where you can  access  more than 600 posts

HYMNS TO SRIMATA – DURGA KAVACHAM

श्रीदुर्गाकवचम्
 
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १ ॥
उमा देवी शिरः पातु ललाटं शूलधारिणी ।
चक्षुषी खेचरी पातु वदनं सर्वधारिणी ॥ २ ॥
जिह्वां च चण्डिका देवी  ग्रीवां सौभद्रिका तथा ।
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ॥ ३ ॥
हृदयं ललिता देवी उदरं सिंहवाहिनी ।
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥ ४ ॥
महाबाला च जङ्घे द्वे पादौ भूतलवासिनी
एवं स्थिताऽसि देवि त्वं त्रैलोक्यरक्षणात्मिके ।
रक्ष मां सर्वगात्रेषु दुर्गे दॆवि नमोऽस्तु ते ॥ ५ ॥

           
               ***

Click  here to get to  the Master Index from where you can  access  more than 600 posts

HYMNS TO SRIMATA – GNANAPRASOONAMBIKA STOTRAM

ज्ञानप्रसूनाम्बिकास्तोत्रम्
माणिक्यान्ञ्चितभूषणां मणिरवां माहेन्द्रनीलोज्ज्वलां
मन्दारद्रुममाल्यभूषितकचां मत्तेभकुम्भस्तनीम् ।
मौलिस्तोमनुतां मरालगमनां माध्वीरसानन्दिनीं
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १ ॥
श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां
राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् ।
रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २ ॥
कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं
कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् ।
कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३ ॥
भावातीत मनःप्रभावभरितां ब्रह्माण्डभाण्डोदरीं
बालां बालकुरङ्गनेत्रयुगलां भानुप्रभाभासिताम् ।
भास्वत्क्षेत्ररुचाभिरामनिलयां भव्यां भवानीं शिवां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ४ ॥
वीणागानविनोदिनीं विजयिनीं वेतण्डकुम्भस्तनीं
विद्वद्वन्दितपादपद्मयुगलां विद्याप्रदां शंकरीम् ।
विद्वेषिण्यरिभञ्जिनीं स्तुतिभवां वेदान्तवेद्यां शिवां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ५ ॥
नानाभूषितभूषणादिविमलां लावण्यपाथोनिधिं
काञ्चीचंचलघाटिका कलरवां कञ्जातपत्रेक्षणाम् ।
कर्पूरागरुकुङ्कुमाङ्कितकुचां कैलासनाथप्रियां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ६ ॥
मन्जीराञ्चितपादपद्मयुगलां माणिक्यभूषान्वितां
मन्दारद्रुममञ्जरीमधुझरी माधुर्यखेलत्गिराम् ।
मातङ्गीं मदिरालसां करशुकां नीलालकालंकृतां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ७ ॥
कर्णालम्बितहेमकुण्डलयुगां कादम्बवेणीमुमां
अम्भॊजासनवासवादिविनुतां अर्द्धेन्दुभूषोज्ज्वलाम् ।
कस्तूरीतिलकाभिरामनिटिलां गानप्रियां श्यामलां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ८ ॥
कौमारीं नवपल्लवाङ्घ्रियुगलां कर्पूरभासोज्ज्वलां
गंगावर्तसमाननाभिकुहरां गांगेयभूषान्विताम् ।
चन्द्रार्कानलकोटिकोटिसदृशां चन्द्रार्कबिम्बाननां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ९ ॥
बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां
नीलाकारसुकेशिनीं विलसितां नित्यान्नदानप्रदाम् ।
शङ्खं चक्रवराभयं च दधतीं सारस्वतार्थप्रदां
ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १० ॥

         

                  ***

HYMNS TO SRIMATA – SHITALASHTAKAM

 शीतलाष्टकम्
         (स्कान्दपुराणान्तर्गतम्)
वन्देऽहं शीतलां देवीं रासभस्थां दिगंबराम् ।
मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ १ ॥
वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् ।
यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥
शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ।
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥
यस्त्वामुदकमध्येतु ध्यात्वा संपूजयेन्नरः ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ ४ ॥
शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च ।
प्रणष्टचक्षुषः पुंसः त्वामाहुर्जीवनौषधम् ॥ ५ ॥
शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान् ।
विस्फोटकविदीर्णानां त्वमेकामृतवर्षिणी ॥ ६ ॥
गलगण्डग्रहा रोगाः येचान्ये दारुणा नृणाम् ।
त्वदनुध्यानमात्रेण शीतले यान्ति संक्षयम् ॥ ७ ॥
न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते ।
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥ ८ ॥
मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् ।
यस्त्वां संचिन्तयेत् देवि तस्य मृत्युर्न जायते ॥ ९ ॥
अष्टकं शीतला देव्याः यो नरः प्रपठेत् सदा ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥ १० ॥
श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः ।
उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥ ११ ॥
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता ।
शीतले त्वं जगद्धात्री शीतलायै नमोनमः ॥ १२॥
रासभो गर्दभश्चैव खरो वैशाखनन्दनः ।
शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥ १३ ॥
एतानि खरनामानि शीतलाग्रे तु यः पठेत् ।
तस्य गेहे शिशूनां च शीतला रुङ् न जायते ॥ १४ ॥
               
शीतलाष्टकमेवेदं न देयं यस्य कस्यचित् ।
दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥ १५ ॥

             
                ***

HYMNS TO SRIMATA – APADUDHARAKA DURGA STOTRAM

आपदुद्धारकदुर्गास्तोत्रम्
    (श्री सिद्धेश्वरीतन्त्रान्तर्गतम्)
नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्व्यापिके विश्वरूपे ।
नमस्ते जगद्वन्द्यपादारविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ १ ॥
नमस्ते जगत्‌चिन्त्यमानस्वरूपे
नमस्ते महायोगिनि ज्ञानरूपे ।
नमस्ते नमस्ते सदानन्दरूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ २ ॥
अनाथस्य दीनस्य तृष्णातुरस्य
भयार्तस्य भीतस्य बद्धस्य जन्तोः ।
त्वमेका गतिर्द्देवि निस्तारकर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ३ ॥
अरण्ये रणे दारुणे शत्रुमध्ये-
ऽनले सागरे प्रान्तरे राजगेहे ।
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ४ ॥
अपारे महादुस्तरेऽत्यन्तघोरे
विपत्सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्देवि निस्तारहेतुः
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ५ ॥
नमश्चण्डिके चण्डदुर्द्दण्डलीला-
समुत्खण्डिताखण्डिताशेषशत्रो ।
त्वमेका गतिर्देवि निस्तारबीजं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ६ ॥
त्वमेवाघभावादृता सत्यवादि-
न्यजाता जितक्रोधनात्क्रोधनिष्ठा ।
इडा पिङ्गला त्वं सुषुम्ना च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ७ ॥
नमो देवि दुर्गे शिवे भीमनादे
सरस्वत्यरुन्धत्यमोघस्वरूपे ।
विभूतिः शची कालरात्रिः सती त्वं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ८ ॥
शरणमसि सुराणां सिद्धविद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानाम् ।
नृपतिगृहगतानां व्याधिभिः पीडितानां
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ ९ ॥
सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान् सदा ।
स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम्
पठनादस्य देवेशि किं न सिध्यति भूतले ॥ १० ॥

       

HYMNS TO SRIMATA – SRI RAJARAJESHWARI ASHTAKAM

श्रीराजराजेश्वर्यष्टकम्

अम्बा शाम्भवि चन्द्रमौलिरबलाऽपर्णा उमा पार्वती
काली हैमवती शिवा त्रिनयनी कात्यायनी भैरवी ।
सावित्री नवयौवना शुभकरी साम्राज्यलक्ष्मीप्रदा
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ १ ॥
 
अम्बा मोहिनि देवता त्रिभुवनी आनन्दसन्दायिनी
वाणी पल्लवपाणि वेणुमुरलीगानप्रिया लोलिनी ।
कल्याणी उडुराजबिम्बवदना धूम्राक्षसंहारिणी
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ २ ॥
 
अम्बा नूपुररत्नकङ्कणधरी केयूरहारावली
जातीचंपकवैजयन्तिलहरी ग्रैवेयवैराजिता ।
वीणावेणुविनोदमण्डितकरा वीरासनासंस्थिता
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ ३ ॥
 
अम्बा रौद्रिणि भद्रकालि बगला ज्वालामुखी वैष्णवी
ब्रह्माणी त्रिपुरान्तकी सुरनुता देदीप्यमानोज्ज्वला ।
चामुण्डा श्रितरक्षपोषजननी दाक्षायणी वल्लवी
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ ४ ॥
 
अम्बा शूलधनुःकुशाङ्कुशधरी अर्द्धेन्दुबिम्बाधरी
वाराही मधुकैटभप्रशमनी वाणीरमासेविता ।
मल्लाद्यासुरमूकदैत्यदमनी माहेश्वरी चाम्बिका
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ ५ ॥
 
अम्बा सृष्टिविनाशपालनकरी आर्या विसंशोभिता
गायत्री प्रणवाक्षरामृतरसा पूर्णानुसन्धीकृता ।
ओङ्कारी विनतासुतार्चितपदा उद्दण्डदैत्यापहा
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ ६ ॥
 
अम्बा शाश्वती आगमादिविनुता आर्या महादेवता
या ब्रह्मादिपिपीलिकान्तजननी या वै जगन्मोहिनी ।
या पञ्चप्रणवादिरेफजननी या चित्कलामालिनी
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ ७ ॥
 
अम्बापालितभक्तराजदनिशं अम्बाष्टकं यः पठेत्
अम्बा लोलकटाक्षवीक्षललितं चैश्वर्यमव्याहतम् ।
अम्बा पावन मन्त्रराजपठनादन्ते च मोक्षप्रदा
चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ ८ ॥

HYMNS TO SRIMATA – SRIDURGADEVI DHYANAM

श्री दुर्गादेवीध्यानम्
      (ब्रूहन्नन्दिकेश्वरपुराणांतर्गतम्)
ओं जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् ।
लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥ १ ॥
अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसंपन्नां सर्वाभरणभूषिताम् ॥ २ ॥
सुचारुदशनां तद्वत्पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥ ३ ॥
मृणालायतसंस्पर्शदशबाहुसमन्विताम् ।
त्रिशूलं दक्षिणे ध्येयं खड्गं चक्रं क्रमादधः ॥ ४ ॥
तीक्ष्णबाणं तथा शक्तिं दक्षिणेन विचिन्तयेत् ।
खेटकं पूर्णचापं च पाशमङ्कुशमेव च ॥ ५ ॥
घण्टां वा परशुं वापि वामतः सन्निवेशयेत् ।
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ॥ ६ ॥
शिरच्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ।
हृदि शूलेन निर्भिन्नं निर्यदान्त्रविभूषितम् ॥ ७ ॥
रक्तारक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् ।
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥ ८ ॥
सपाशवामहस्तेन धृतकेशञ्च दुर्गया ।
वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् ॥ ९ ॥
देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् ।
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥ १० ॥
[प्रसन्नवदनां देवीं सर्वकामफलप्रदाम् ।
शत्रुक्षयकरीं देवीं दैत्यदानवदर्पहाम्] ॥ ११ ॥
स्तूयमानञ्च तद्रूपममरैः सन्निवेशयेत्  ॥ १२ ॥
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥ १३ ॥
आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् ।
चिन्तयेज्जगतां धात्रीं धर्मकामार्थमोक्षदाम् ॥ १४ ॥

                   ***

HYMNS TO SRIMATA – JAGADDHATRI STOTRAM

श्रीजगद्धात्रीस्तोत्रम्
  (श्रीजगद्धात्री कल्पांतर्गतम्)     
आधारभूते चाधेये 
धृतिरूपे धुरंधरे ।
ध्रुवे ध्रुवपदे धीरे जगद्धात्रि नमोऽस्तु ते
॥  १ ॥
शिवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे ।
शाक्ताचारप्रिये देवि जगद्धात्रि नमोऽस्तु ते
॥  २ ॥
जयदे जगदानन्दे जगदेकप्रपूजिते ।
जय सर्वगते दुर्गे जगद्धात्रि नमोऽस्तु ते
॥  ३ ॥
सूक्ष्मातिसूक्ष्मरूपे च प्राणापानादिरूपिणि ।
भावाभावस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥  ४ ॥
कालादिरूपे कालेशे कालकालविभेदिनि ।
सर्वस्वरूपे सर्वज्ञे जगद्धात्रि नमोऽस्तु ते
॥  ५ ॥
महाविघ्ने महोत्साहे महामाये वरप्रदे ।
प्रपञ्चसारे साध्वीशे जगद्धात्रि नमोऽस्तु ते
॥  ६ ॥
अगम्ये जगतामाद्ये माहेश्वरि वरांगने ।
अशेषरूपे रूपस्थे जगद्धात्रि नमोऽस्तु ते ॥  ७ ॥
तीर्थयज्ञतपोदानयोगसारे जगन्मयि ।
त्वमेव सर्वं सर्वस्थे जगद्धात्रि नमोऽस्तु ते
॥  ८ ॥
दयारूपे दयादृष्टे दयार्द्रे दुःखमोचनि ।
सर्वापत्तारिके दुर्गे जगद्धात्रि नमोऽस्तु ते
॥  ९ ॥
अगम्यधामधामस्थे महायोगीशहृत्पुरे ।
अमेयभावकूटस्थे जगद्धात्रि नमोऽस्तु ते ॥  १० ॥

               ***

   

HYMNS TO SRIMATA – NAVARATNAMAALIKA

नवरत्नमालिका
    (श्रीशंकराचार्यकृतम्)
हारनूपरकिरीटकुण्डलविभूषितावयवशोभिनीं
कारणेशवरमौलिकोटिपरिकल्प्यमानपदपीठिकाम्
कालकालफणिपाशबाणधनुरङ्कुशामरुणमेखलां
फालभूतिलकलोचनां मनसि भावयामि
परदेवताम् ॥ १ ॥
गन्धसारघनसारचारुनवनागवल्लिरसवासिनीं
सान्ध्यरागमधुराधराभरणसुन्दराननशुचिस्मिताम्
मन्थरायतविलोचनाममलबालचन्द्रकृतशेखरीं
इन्दिरारमणसोदरीं मनसि भावयामि
परदेवताम् ॥ २ ॥
स्मेरचारुमुखमण्डलां विमलगण्डलम्बिमणिमण्डलां
हारदामपरिशोभमानकुचभारभीरुतनुमध्यमाम्
वीरगर्वहरनूपुरां विविधकारणेशवरपीठिकां
मारवैरिसहचारिणीं मनसि भावयामि
परदेवताम् ॥ ३ ॥
भूरिभारधरकुण्डलीन्द्रमणिबद्धभूवलयपीठिकां
वारिराशिमणिमेखलावलयवह्निमण्डलशरीरिणीम्
वारिसारवहकुण्डलां गगनशेखरीं
च परमात्मिकां
चारुचन्द्रविलोचनां मनसि भावयामि
परदेवताम् ॥ ४ ॥
कुण्डलत्रिविधकोणमण्डलविहारषड्दलसमुल्लसत्
पुण्डरीकमुखभेदिनीं तरुणचण्डभानुतडिदुज्ज्वलाम्
मण्डलेन्दुपरिवाहितामृततरङ्गिणीमरुणरूपिणीं
मण्डलान्तमणिदीपिकां मनसि भावयामि
परदेवताम् ॥ ५ ॥
वारणाननमयूरवाहमुखदाहवारणपयोधरां
चारणादिसुरसुन्दरीचिकुरशेखरीकृतपदांबुजाम्
कारणाधिपतिपञ्चकप्रकृतिकारणप्रथममातृकां
वारणान्तमुखपारणां मनसि भावयामि
परदेवताम् ॥ ६ ॥
पद्मकान्तिपदपाणिपल्लवपयोधराननसरोरुहां
पद्मरागमणिमेखलावलयनीविशोभितनितम्बिनीम्
पद्मसम्भवसदाशिवान्तमयपञ्चरत्नपदपीठिकां
पद्मिनीं प्रणवरूपिणीं मनसि
भावयामि परदेवताम् ॥ ७ ॥
आगमप्रणवपीठिकाममलवर्णमंगलशरीरिणीं
आगमावयवशोभिनीमखिलवेदसारकृतशेखरीम्
मूलमन्त्रमुखमण्डलां मुदितनादबिन्दुनवयौवनां
मातृकां त्रिपुरसुन्दरीं मनसि
भावयामि परदेवताम् ॥ ८ ॥
कालिकातिमिरकुन्तलान्तघनभृङ्गमङ्गलविराजिनीं
चूलिकाशिखरमालिकावलयमल्लिकासुरभिसौरभाम्
वालिकामधुरगण्डमण्डलमनोहराननसरोरुहाम्
कालिकामखिलनायिकां मनसि भावयामि
परदेवताम् ॥ ९ ॥
नित्यमेव नियमेन जल्पतां
भुक्तिमुक्तिफलदामभीष्टदाम्
शंकरेण रचितां सदा जपे
न्नामरत्ननवरत्नमालिकाम् ॥ १०

HYMNS TO SRIMATA – DEVI BHUJANGA STOTRAM

      देवीभुजङ्गस्तोत्रम्

     (श्री शंकराचार्यकृतम्)
विरिञ्च्यादिभिः पञ्चभिर्लोकपालैः
समूढे महानन्दपीठे निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रोतहस्तं
महस्त्रैपुरं शंकराद्वैतमव्यात् ॥ १ ॥
यदन्नादिभिः पञ्चभिः कोशजालैः
शिरः पक्षपुच्छात्मकैरन्तरन्तः ।
निगूढे महायोगपीठे निषण्णं
पुरारेरथान्तःपुरं नौमि नित्यम् ॥ २ ॥
विनोदाय चैतन्यमेकं विभज्य
द्विधा देवि जीवः शिवश्चेति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
पुनर्जीवमेनं शिवं वा करोषि ॥ ३ ॥
समाकुञ्च्य मूलं हृदि न्यस्य वायुं
मनो भ्रूबिलं प्रापयित्वा निवृत्ताः ।
ततः सच्चिदानन्दरूपे पदे ते
भवत्यंब जीवाः शिवत्वेन केचित् ॥ ४ ॥
शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
सदाभीतिमूले कलत्रे धने वा ।
न कश्चिद्विरज्यत्यहो देवि चित्रं
कथं त्वत् कटाक्षं विना तत्वबोधः ॥ ५ ॥
शरीरे धनेऽपत्यवर्गे कलत्रे
विरक्तस्य सद्देशिकादिष्टबुद्धेः ।
यदाकस्मिकं ज्योतिरानन्दरूपं
समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ६ ॥
मृषान्यो मृषान्यः परो मिश्रमेनं
परः प्राकृतं चापरो बुद्धिमात्रम् ।
प्रपञ्चं मिमीते मुनीनां गणोऽयं
तदेतत्त्वमेवेति न त्वां जहीमः ॥ ७ ॥
कीर्तिः प्रतिष्ठा च विद्या च शान्ति-
स्तथा शान्त्यतीतेति पञ्चीकृताभिः ।
कलाभिः परैः पञ्चविंशात्मिकाभि-
स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ ८ ॥
अगाधेऽत्र संसारपङ्के निमग्नं
कलत्रादिभारेण खिन्नं नितान्तम् ।
महामोहपाशौघबद्धं चिरान्मां
समुद्धर्तुमम्ब त्वमेकैव शक्ता ॥ ९ ॥
गणेशैर्ग्रहैरम्ब नक्षत्रपङ्क्त्या
तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि ॥ १०॥
लसत्तारहारामतिस्वच्छचेलां
वहन्तीं करे पुस्तकं चाक्षमालाम् ।
शरच्चन्द्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन् भारतीवल्लभः स्यात् ॥ ११ ॥
समुद्यत्सहस्रार्कबिम्बाभवक्त्रां
स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान् धारयन्तीं
स्मरन्तः स्मरं चापि सम्मोहयेयुः ॥ १२ ॥
मणिस्यूतताटङ्कशोणास्यबिम्बां
तडित्पीतवस्त्रां त्वगुल्लासिभूषाम् ।
सदा भावयन् तप्तहेमप्रभां त्वां
श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १३ ॥
महामन्त्रराजान्तबीजं पराख्यं
स्वतो न्यस्तबिन्दुं स्वयं न्यस्त हार्दम् ।
भवद्वक्त्रवक्षोजगुह्याभिधानं
स्वरूपं सकृद्भावयेत्सत्वमेव ॥ १४ ॥
तथान्ये विकल्पेषु निर्विण्णचित्ताः
तदेवं समाधाय बिन्दुत्रयं ते ।
परानन्दसंधानसिन्धौ निमग्नाः
पुनर्गर्भरन्ध्रं न पश्यन्ति धीराः ॥ १५ ॥
त्वदुन्मेषलीलानुबन्धाधिकारान्
विरिञ्च्यादिकांस्त्वद्गुणाम्भोधिबिन्दून् ।
भजन्तस्तितीर्षन्ति संसारसिन्धुं
शिवे तावकानां सुसम्भावनेयम् ॥ १६ ॥
कदा वा भवत्पादपोतेन तूर्णं
भवाम्भोधिमुत्तीर्य पूर्णान्तरङ्गः ।
निमज्जन्तमेनं दुराशाविषाब्धौ
समालोक्य लोकं कथं पर्युदास्से ॥ १७ ॥
कदा वा हृषीकाणि साम्यं भजेयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशा विषूची विलोपः
कदा वा मनो मे समूलं विनश्येत् ॥ १८ ॥
नमोवाकमाशास्महे देवि युष्मत्-
पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिञ्च्यादिभास्वत्किरीटप्रतोली-
प्रदीपप्रतानप्रभाभास्वराय ॥ १९ ॥
कचे चन्द्ररेखं कुचे तारहारं
करे स्वादु चापं शरे षट्पदौघम् ।
स्मरामि स्मरारेरभिप्रायमेकं
मदाघूर्णनेत्रं मदीयं निधानम् ॥ २० ॥
शरेष्वेव नासा धनुष्वेव जिह्वा
जपापाटले लोचने ते स्वरूपे ।
त्वगेषा भवच्चन्द्रखण्डे श्रवो मे
गुणे ते मनोवृतिरम्ब त्वयि स्यात् ॥ २१ ॥
जगत्कर्मधीरान् वचोधूतकीरान्
कुचन्यस्तहारान् कृपासिन्धुपूरान् ।
भवाम्भोदिपारान् महापापदूरान्
भजे वेदसारान् शिवप्रेमदारान् ॥ २२ ॥
सुधासिन्धुसारे चिदानन्दनीरे
समुत्फुल्लनीपे सुरत्नान्तरीपे ।
मणिव्यूहसाले स्थिते हैमशाले
मनोजारिवामे निषण्णं मनो मे ॥ २३ ॥
दृगन्ते विलोला सुगन्धीषुमाला
प्रपञ्चेन्द्रजाला विपत्सिन्धुकूला ।
मुनिस्वान्तशाला नमल्लोकपाला
हृदि प्रेमलोलाऽमृतस्वादुलीला ॥ २४ ॥
जगज्जालमेतत्त्वयैवाम्ब सृष्टं
त्वमेवाददासीन्द्रियैरर्थजालम् ।
त्वमेकैव कर्त्री त्वमेकैव भोक्त्री
न मे पुण्यपापे न मे बन्धमोक्षौ ॥ २५ ॥
इति प्रेमभारेण किञ्चिन्मयोक्तं
न बुद्ध्वैव तत्त्वं मदीयं त्वदीयम् ।
विनोदाय बालस्य मौर्ख्यं हि मातः
तदेतत् प्रलापस्तुतिं मे गृहाण ॥ २६ ॥
             ***