HYMNS TO VISHNU – GOVINDASHTAKAM

गोविन्दाष्टकम्
         
(श्री शंकराचार्यकृतम्)
सत्यं ज्ञानमनन्तं नित्यमनाकाशं
परमाकाशम्
गोष्ठप्राङ्गणरिङ्गणलोलमनायासं
परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारम्
क्ष्मामानाथमनाथं प्रणमत गोविन्दं
परमानन्दम् ॥ १ ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासम्
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्
लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम्
लोकेशं परमेशं प्रणमत गोविन्दं
परमानन्दम् ॥ २ ॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं
भवरोगघ्नम्
कैवल्यं नवनीताहारमनाहारं भुवनाहारम्
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम्
शैवं केवलशान्तं प्रणमत गोविन्दं
परमानन्दम् ॥ ३ ॥
गोपालं भूलीलाविग्रहगोपालं
कुलगोपालम्
गोपीखेलनगोवर्द्धनधृतिलीलालालितगोपालम्
गोभिर्निगदितगोविन्दस्फुटनामानं
बहुनामानम्
गोपीगोचरदूरं प्रणमत गोविन्दं
परमानन्दम् ॥ ४ ॥
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम्
शश्वत्गोखुरनिर्द्धूतोद्धत
धूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं
चिन्तितसद्भावम्
चिन्तामणि महिमानं प्रणमत गोविन्दं
परमानन्दम् ॥ ५ ॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम्
व्यादित्सन्तीरथ दिग्वस्त्रा
ताः दातुमुपाकर्षन्तम् ।
निर्द्धूतद्वयशोकविमोहं बुद्धं
बुद्धेरन्तस्थम्
सत्तामात्रशरीरं प्रणमत गोविन्दं
परमानन्दम् ॥ ६ ॥
कान्तं कारणकारणमादिमनादिं
कालघनाभासम्
कालिन्दीगतकालियशिरसि सुनृत्यन्तं
मुहुरत्यन्तम् ।
कालं कालकलातीतं  कलिताशेषं कलिदोषघ्नम्
कालत्रयगतिहेतुं प्रणमत गोविन्दं
परमानन्दम् ॥ ७ ॥
वृन्दावनभुवि वृन्दारकगणवृन्दाराधित
पादाब्जम्
कुन्दाभामलमन्दस्मेरसुधानन्दं
सुमहानन्दम् ।
वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
वन्द्याशेषगुणाब्धिं प्रणमत
गोविन्दं परमानन्दम् ॥ ८ ॥
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेतो
यो
गोविन्दाच्युत माधव विष्णो
गोकुलनायक कृष्णेति ।
गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविन्दं परमानन्दामृतमन्तःस्थं
स समभ्येति ॥ ९ ॥
          

HYMNS TO VISHNU – SRI HARISHARANASHTAKAM

      श्री हरिशरणाष्टकम्

     
(श्री ब्रह्मानन्दविरचितम्)
ध्येयं वदन्ति शिवमेवहि केचिदन्ये
शक्तिं गणेशमपरे तु दिवाकरं
वै ।
रूपैस्तु तैरपि विभासि यतस्त्वमेव
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ १ ॥
नो सोदरो न जनको जननी न जाया
नैवात्मजो न च कुलं विपुलं
बलं वा ।
संदृश्यते न किल कोऽपि सहायको
मे
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ २ ॥
नोपासिता मदमपास्य मया महान्तः
तीर्थानि चास्तिकधिया नहि सेवितानि
देवार्चनं च विधिवन्नकृतं कदापि
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ३ ॥
दुर्वासना मम सदा परिकर्षयन्ति
चित्तं शरीरमपि रोगगणा दहन्ति
सञ्जीवनं च परहस्तगतं सदैव
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ४ ॥
पूर्वं कृतानि दुरितानि मया
तु यानि
स्मृत्वाऽखिलानि हृदयं परिकंपते
मे ।
ख्याता च ते पतितपावनता तु
यस्मात्
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ५ ॥
दुःखं जरामरणजं विविधाश्च रोगाः
काकश्वसूकरजनिर्निरये च पातः
ते विस्मृतेर्फलमिदं विततं
हि लोके
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ६ ॥
नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि
ब्रूयात् तवाहमिति यस्तु किलैकवारम्
तं नेष्यसीश निजलोकमिति व्रतं
ते
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ७ ॥
वेदेषु धर्मवचनेषु तथागमेषु
रमायणेऽपि च पुराणकदम्बके वा
सर्वत्र सर्व विधिना गदितस्त्वमेव

तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ८ ॥

HYMNS TO VISHNU – SRI HARINAMASHTAKAM

        श्री
हरिनामाष्टकम्
      (ब्रह्मानन्दविरचितम्)
श्रीकेशवाच्युत
मुकुन्द रथाङ्गपाणे
गोविन्द
माधव जनार्दन दानवारे ।
नारायणामरपते
त्रिजगन्निवास
जिह्वे
जपेति सततं मधुराक्षराणि ॥ १ ॥
श्रीदेवदेव
मधुसूदन शाङ्‌र्गपाणे
दामोदरार्णवनिकेतन
कैटभारे ।
विश्वंभाराभरणभूषित
भूमिपाल
जिह्वे
जपेति सततं मधुराक्षराणि  ॥ २
श्रीपद्मलोचन
गदाधर पद्मनाभ
पद्मेश
पद्मपद पावन पद्मपाणे ।
पीताम्बराम्बररुचे
रुचिरावतार
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ३ ॥
श्रीकान्त
कौस्तुभधरार्तिहराब्जपाणे
विष्णो
त्रिविक्रम महीधर धर्मसेतो ।
वैकुण्ठवास
वसुधाधिप वासुदेव
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ४ ॥
श्रीनारसिंह
नरकान्तक कान्तमूर्ते
लक्ष्मीपते
गरुडवाहन शेषशायिन् ।
केशीप्रणाशन
सुकेश किरीटमौले
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ५ ॥
श्रीवत्सलाञ्छन
सुरर्षभ शङ्खपाणे
कल्पान्तवारिधिविहार
हरे मुरारे ।
यज्ञेश
यज्ञमय यज्ञभुगादिदेव
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ६ ॥
श्रीराम
रावणरिपो रघुवंशकेतो
सीतापते
दशरथात्मज राजसिंह ।
सुग्रीवमित्र
मृगवेधन चापपाणे
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ७ ॥
श्रीकृष्ण
वृष्णिवर यादव राधिकेश
गोवर्द्धनोद्धरण
कंसविनाश शौरे ।
गोपाल
वेणुधर पाण्डुसुतैकबन्धो
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ८ ॥
इत्यष्टकं
भगवतः सततं नरो यः
नामाङ्कितं
पठति नित्यमनन्यचेताः ।
विष्णोः
परं पदमुपैति पुनर्न जातु
मातुः
पयोधररसं पिबतीह सत्यम् ॥ ९ ॥
          
***

HYMNS TO VISHNU – SRI HARYASHTAKAM

      श्री हर्यष्टकम्

    (ब्रह्मानन्दविरचितम्)
जगज्जालपालं
कनत्कण्ठमालम्
शरच्चन्द्रफालं
महादैत्यकालम् ।
तमोनीलकायं
दुरावारमायम्
सुपद्मासहायं
भजेऽहं भजेऽहम् ॥ १ ॥
सदांभोधिवासं
गले पुष्पहासम्
जगत्सन्निवासं
शतादित्यभासम् ।
गदाचक्रहस्तं
लसत्पीतवस्त्रम्
हसच्चारुवक्त्रं
भजेऽहं भजेऽहम् ॥ २ ॥
रमाकण्ठहारं
श्रुतिव्रातसारम्
जलान्तर्विहारं
धराभारहारम् ।
चिदानन्दरूपं
मनोज्ञस्वरूपम्
धृतानेकरूपं
भजेऽहं भजेऽहम् ॥ ३ ॥
जराजन्महीनं
परानन्दपीनम्
समाधानलीनं
सदैवानवीनम् ।
जगज्जन्महेतुं
सुरानीककेतुम्
त्रिलोकैकसेतुं
भजेऽहं भजेऽहम् ॥ ४ ॥
कृताम्नायगानं
खगाधीशयानम्
विमुक्तेर्निदानं
हतारातिमानम् ।
स्वभक्तानुकूलं
जगद्वृक्षमूलम्
निरस्तार्तशूलं
भजेऽहं भजेऽहम् ॥ ५ ॥
समस्तामरेशं
द्विरेफाभकेशम्
जगद्बिम्बलेशं
हृदाकाशदेशम् ।
सदा दिव्यदेहं
विमुक्ताखिलेहम्
सुवैकुण्ठगेहं
भजेऽहं भजेऽहम् ॥ ६ ॥
सुरालीबलिष्ठं
त्रिलोकीवरिष्ठम्
गुरूणां
गरिष्ठं स्वरूपैकनिष्ठम् ।
सदा युद्धधीरं
महावीरधीरम्
भवांभोधितीरं
भजेऽहं भजेऽहम् ॥ ७ ॥
रमावामभागं
तलानग्ननागम्
कृताधीनयागं
गतारागरागम् ।
मुनीन्द्रैस्सुगीतं
सुरैस्संपरीतम्
गुणौघैरतीतं
भजेऽहं भजेऽहम् ॥ ८ ॥
इदं यस्तु
नित्यं समाधाय चित्तम्
पठेदष्टकं
कष्टहारं मुरारेः ।
स विष्णोर्विशोकं
ध्रुवं याति लोकम्
जराजन्मशोकं पुनर्विन्दते नो  ॥ ९ ॥

HYMNS TO VISHNU – SRIHARI STOTRAM (BY PRAHLADA)

    १२. श्री हरिस्तोत्रम्

          (प्रह्लादकृतं)
हरिर्हरतिपापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छताऽपि संस्पृष्टो दहत्येव हि पावकः ॥ १ ॥
स गङ्गा स गया सेतुः स काशी स च पुष्करम् ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २ ॥
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।
यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ३ ॥
प्रिथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ ४ ॥
गवां कोटि सहस्राणि हेमकन्यासहस्रकम् ।
दत्तं स्यात् तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ५ ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ६ ॥
अश्वमेधैर्महायज्ञैः नरमेधैस्तथैव च ।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ७ ॥
प्राणप्रयाणपाथेयं संसारव्याधिनाशनम् ।
दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम् ॥ ८ ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥ ९ ॥
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
आयुष्यं दीर्घमारोग्यं यशोवृद्धिं स गच्छति ॥ १० ॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम ।
यः पठेत् स नरो याति तद्विष्णोः परमं पदम् ॥ ११ ॥
                  ***
    

HYMNS TO VISHNU – DUKHAMOCHAKA SRIMADACHYUTASHTAKAM

 ११.  दुःखमोचकश्रीमदच्युताष्टकम्

         (श्री शंकराचर्यकृतम्)
अच्युताच्युत हरे परमात्मन्
रामकृष्ण पुरुषोत्तम विष्णो ।
वासुदेव भगवन्ननिरुद्ध
श्रीपते शमय दुःखमशेषम् ॥ १ ॥
विश्वमङ्गल विभो जगदीश
नन्दनन्दन नृसिंह नरेन्द्र ।
मुक्तिदायक मुकुन्द मुरारे
श्रीपते शमय दुःखमशेषम् ॥ २ ॥
रामचन्द्र रघुनायक देव
दीननाथ दुरितक्ष्ययकारिन् ।
यादवेन्द्र यदुभूषण यज्ञ
श्रीपते शमय दुःखमशेषम् ॥ ३ ॥
देवकीतनय दुःखदवाग्ने
राधिकारमण रम्य सुमूर्ते ।
दुःखमोचक दयार्णव नाथ
श्रीपते शमय दुःखमशेषम् ॥ ४ ॥
गोपिकावदनचन्द्रचकोर
नित्य निर्गुण निरन्जन जिष्णो ।
पूर्णरूप जयशंकरशर्व
श्रीपते शमय दुःखमशेषम् ॥ ५ ॥
गोकुलेश गिरिधारणधीर
यामुनाच्छतटखेलन वीर ।
नारदादि मुनिवन्दितपाद
श्रीपते शमय दुःखमशेषम् ॥ ६ ॥
द्वारकाधिप दुरन्तगुणाब्धे
प्राणनाथ परिपूर्ण भवारे ।
ज्ञानगम्य गुणसागर ब्रह्मन्            
श्रीपते शमय दुःखमशेषम् ॥ ७ ॥
दुष्टनिर्दलन देव दयालो
पद्मनाभ धरणीधर धन्विन् ।
रावणान्तक रमेश मुरारे
श्रीपते शमय दुःखमशेषम् ॥ ८ ॥
अच्युताष्टकमिदं रमणीयम्
निर्मितं भवभयं विनिहन्तुम् ।
यः पठेत् विषयवृत्तिनिवृत्तिम्
जन्मदुःखमखिलं स जहाति ॥ ९ ॥
         ***

HYMNS TO VISHNU – ACHYUTASHTAKAM

    अच्युताष्टकम्

    (श्री शंकराचार्यकृतम्)
अच्युतं
केशवं रामनारायणम्
कृष्णदामोदरं
वासुदेवं विभुम् ।
श्रीधरं
माधवं गोपिकावल्लभम्
जानकीनायकं
रामचन्द्रं भजे ॥ १ ॥
अच्युतं
केशवं सत्यभामाधवम्
माधवं
श्रीधरं राधिकाऽराधितम् ।
इन्दिरामन्दिरं
चेतसा सुन्दरम्
देवकीनन्दनं
नन्दजं सन्दधे ॥ २ ॥
विष्णवे
जिष्णवे शङ्खिने चक्रिणे
रुक्मिणीरागिणे
जानकीजानय ।
वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने
वंशिने ते नमः ॥ ३ ॥
कृष्ण
गोविन्द हे राम नारायण
श्रीपते
वासुदेवाजित श्रीनिधे ।
अच्युतानन्द
हे माधवाधोक्षज
द्वारकानायक
द्रौपदीरक्षक ॥ ४ ॥
राक्षसक्षोभितः
सीतयाशोभितो
दण्डकारण्यभूपुण्यताकारणः
लक्ष्मणेनान्वितो
वानरैस्सेवितो ऽ-
गस्त्यसंपूजितो
राघवः पातु माम् ॥ ५ ॥
धेनुकारिष्टकोऽनिष्टकृत्
द्वेषिणाम्
केशिहा
कंसहृद्वंशिकावादकः ।
पूतनाशोषकः
सूरजाखेलनो
बालगोपालकः
पातु मां सर्वदा ॥ ६ ॥
विद्युदुद्योतवत्
प्रस्फुरद्वाससम्
प्रावृडंभोदवत्
प्रोल्लसद्विग्रहम् ।
वन्ययामालया
शोभितोरस्थलम्
लोहिताङ्घ्रिद्वयं
वारिजाक्षं भजे ॥ ७ ॥
कुञ्चितैः
कुन्तलैः भ्राजमानाननम्
रत्नमौलिं
लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं
कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं
श्यामलं तं भजे  ॥ ८
अच्युतस्याष्टकं
यः पठेदिष्टदम्
प्रेमतः
प्रत्यहं पूरुषस्सस्पृहम् ।
वृत्ततस्सुन्दरं
कर्तृविश्वंभरम्
तस्य
वश्यो हरिर्जायते सत्वरम्  ॥ ९

HYMNS TO VISHNU – SANKATANASHA VISHNUSTOTRAM

९. सङ्कटनाशविष्णुस्तॊत्रम्
        (पद्मपुराणांतर्गतम्)
नमॊ मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्यॊद्यतायार्तिहन्त्रॆ ।
विधात्रादिसर्गस्थितिध्वंसकर्त्रॆ
गदाशंखपद्मारिहस्ताय तॆऽस्तु ॥ १ ॥
रमावल्लभायाऽसुराणां निहन्त्रॆ
भुजङ्गारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रॆऽघहन्त्रॆ
शरण्याय तस्मै नताः स्मॊ नताः स्मः ॥ २ ॥
नमॊ दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदंभॊलयॆ  विष्णवॆ तॆ ।
भुजङ्गॆशतल्पॆशयायार्कचन्द्र-
द्विनॆत्राय तस्मै नताः स्मॊ नताः स्मः ॥ ३ ॥
सङ्कटनाशनं नाम स्तॊत्रमॆतत् पठेन्नरः ।
स कदाचिन्न सङ्कष्टैः पीड्यतॆ कृपया हरेः ॥ ४ ॥

HYMNS TO VISHNU – SRI VISHNU BHUJANGAPRAYATA STOTRAM

८. श्री विष्णुभुजङ्गप्रयातस्तॊत्रम्
        (श्री शंकराचार्यकृतम्)
चिदंशं विभुं निर्मलं निर्विकल्पम्
निरीहं निराकारमॊङ्कारवॆद्यम् ।
गुणातीतमव्यक्तमॆकं तुरीयम्
परं ब्रह्म यं वॆद तस्मै नमस्तॆ ॥ १ ॥
विशुद्धं शिवं शान्तमाद्यन्तशून्यम्
जगज्जीवनं ज्यॊतिरानन्दरूपम् ।
अदिग्दॆशकालव्यवच्छॆदनीयम्
त्रयी वक्ति यं वॆद तस्मै नमस्तॆ ॥ २ ॥
महायॊगपीठॆ परिभ्राजमानॆ
धरण्यादितत्वात्मकॆ शक्तियुक्तॆ ।
गुणाहस्करॆ वह्निबिम्बार्कमध्यॆ
समासीनमॊंकर्णिकॆऽष्टाक्षराब्जॆ ॥ ३ ॥
समानॊदितानॆकसूर्यॆन्दुकॊटि-
प्रभापूरतुल्यद्युतिं दुर्निरीक्ष्यम् ।
न शीतं न चॊष्णं सुवर्णावभातम्
प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥ ४ ॥
सुनासापुटं सुन्दरभ्रूललाटम्
किरीटॊचिताकुञ्चितस्निग्धकॆशम् ।
स्फुरत्पुण्डरीकाभिरामायताक्षम्
समुत्फुल्लरत्नप्रसूनावतंसम् ॥ ५ ॥
स्फुरत्कुण्डलामृष्टगण्डस्थलान्तम्
जपारागचॊराधरं चारुहासम् ।
कलिव्याकुलामॊदिमन्दारमालम्
महॊरस्फुरत्कौस्तुभॊदारहारम् ॥ ६ ॥
सुरत्नाङ्गदैरन्वितं बाहुदण्डैः
चतुर्भिश्चलत्कङ्कणालंकृताग्रैः ।
उदारॊदरालंकृतं पीतवस्त्रम्
पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥ ७ ॥
स्वभक्तॆषु सन्दर्शिताकारमॆवम्
सदा भावयन् सन्निरुद्धॆन्द्रियाश्वः ।
दुरापं नरॊ याति संसारपारम्
परस्मै तमॊभ्यॊऽपि तस्मै नमस्तॆ ॥ ८ ॥
श्रिया शातकुंभद्युतिस्निग्धकान्त्या
धरण्या च दूर्वादलश्यामलाङ्ग्या ।
कलत्रद्वयॆनामुना तॊषिताय
त्रिलॊकीगृहस्थाय विष्णॊ नमस्तॆ ॥ ९ ॥
शरीरं कलत्रं सुतं बन्धुवर्गम्
वयस्यं धनं सद्म भृत्यं भुवं च ।
समस्तं परित्यज्य हा कष्टमॆकॊ
गमिष्यामि दुःखॆन दूरं किलाहम् ॥ १० ॥
जरॆयं पिशाचीव हा जीवितॊ मॆ
मृजामस्थिरक्तं च मांसं बलं च ।
अहॊ दॆव सीदामि दीनानुकम्पिन्
किमद्धापि हन्त त्वयॊद्भासितव्यम् ॥ ११ ॥
कफव्याहतॊष्णॊल्बणश्वासवॆग-
व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् ।
विचिन्त्याहमन्त्यामसह्यामवस्थाम्
बिभॆमि प्रभॊ किं करॊमि प्रसीद ॥ १२ ॥
लपन्नच्युतानन्त गॊविन्द विष्णॊ
मुरारॆ हरॆ नाथ नारायणॆति ।
यथाऽनुस्मरिष्यामि भक्त्या भवन्तम्
तथा मॆ दयाशील दॆव प्रसीद ॥ १३ ॥
नमॊ विष्णवॆ वासुदॆवाय तुभ्यम्
नमॊ नारसिंहस्वरूपाय तुभ्यम् ।
नमः कालरूपाय संहारकर्त्रॆ
नमस्तॆ वराहाय भूयॊ नमस्तॆ ॥ १४ ॥
नमस्तॆ जगन्नाथ विष्णॊ नमस्तॆ
नमस्तॆ गदाचक्रपाणॆ नमस्तॆ ।
नमस्तॆ प्रपन्नार्तिहारिन् नमस्तॆ
समस्तापराधं क्षमस्वाखिलॆश ॥ १५ ॥
मुखॆ मन्दहासं नखॆ चन्द्रभासम्
करॆ चारुचक्रं सुरॆशादिवन्द्यम् ।
भुजङ्गॆ शयानं भजॆ पद्मनाभम्
हरॆरन्यदैवं न मन्यॆ न मन्यॆ ॥ १६ ॥
भुजन्ङ्गप्रयातं पठॆद्यस्तु भक्त्या
समाधाय चित्तॆ भवन्तं मुरारॆ ।
स मॊहं विहायाशु युष्मत्प्रसादात्
समाश्रित्य यॊगं व्रजत्यच्युतं त्वाम् ॥ १७ ॥

HYMNS TO VISHNU – SRI DWADASHAKSHARA STOTRAM

        श्री
द्वाद्शाक्षरमन्त्रस्तोत्रम्

            (श्री वेदव्यासकृतम्)
ओमिति
ज्ञानवस्त्रेण रागनिर्णेजनीकृतः ।
कर्मनिद्रां
प्रपन्नोऽस्मि त्राहि मां मधुसूदन ॥ १ ॥
न गतिर्विद्यते
चान्या त्वमेव शरणं मम ।
मायापङ्केनलिप्तोऽस्मि
त्राहि मां मधुसूदन ॥ २ ॥
मोहितो
मोहजालेन पुत्रदारगृहादिषु ।
तृष्णया
पीड्यमानोऽस्मि त्राहि मां मधुसूदन ॥ ३ ॥
भक्तिहीनं
तु दीनं च दुःखशोकसमन्वितqउZ ।
अनाश्रयमनाथं
च त्राहि मां मधुसूदन ॥ ४ ॥
गतागतपरिश्रान्तो
दूरमध्वनि कर्मणाम् ।
संसारभयभीतोऽस्मि
त्राहि मां मधुसूदन ॥ ५ ॥
वसितो
मातृगर्भेषु पीडितोऽहं जनार्दन ।
गर्भवासक्षयकर
त्राहि मां मधुसूदन ॥ ६ ॥
तेन देव
प्रपन्नोऽस्मि सत्वाश्रयपरायण ।
जरामरणभीतोऽस्मि
त्राहि मां मधुसूदन ॥ ७ ॥
वाचा
तूपकृतं पापं कर्मणा यदुपार्जितम् ।
मया देव
दुराचारं त्राहि मां मधुसूदन ॥ ८ ॥
सुकृतं
न कृतं किञ्चित् दुष्कृतं तु सदा कृतम् ।
तेनाहं
परितप्तोऽस्मि त्राहि मां मधुसूदन ॥ ९ ॥
देहान्तरसहस्रेषु
कुयोनिः सेविता मया ।
तिर्यक्त्वं
मानुषत्वं च त्राहि मां मधुसूदन ॥ १० ॥
वासुदेव
हृषीकेश वैकुण्ठ पुरुषोतम ।
सृष्टिसंहारकरण
त्राहि मां मधुसूदन ॥ ११ ॥
यत्राहमागमिष्यामि
नारी वा पुरुषोऽपि वा ।
तत्र
तत्र च ते भक्तिः त्राहि मां मधुसूदन ॥ १२ ॥
द्वादशार्णवस्तुतिमिमां
यः पठेच्छृणुयादपि ।
स याति
परमं स्थानं यत्र योगेश्वरो हरिः ॥ १३ ॥
               ***