HYMNS TO VISHNU – SRIRANGANATHA STOTRAM

श्री रङ्गनाथस्तोत्रम्
          
(श्री शंकराचार्यविरचितम्)
सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने
विमाने
कावेरीमध्यदेशे फणिपतिशयने
शेषपर्यंकभागे ।
निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तम्
पद्माधात्रीकराभ्यां परिचितचरणं
रङ्गराजं भजेऽहम्  ॥ १ ॥
आनन्दरूपे  निजबोधरूपे
ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे
शशांकरूपे रमणीयरूपे
श्रीरङ्गरूपे रमतां मनो मे
॥ २ ॥
कावेरितीरे करुणाविलोले
मन्दारमूले धृतचारुचेले ।
दैत्यान्तकालेऽखिललोकलीले   
श्रीरङ्गलीले रमतां मनो मे
॥ ३ ॥
लक्ष्मीनिवासे जगतां निवासे
हृत्पद्मवासे रविबिम्बवासे
कृपानिवासे गुणबृन्दवासे
श्रीरङ्गवासे रमतां मनो मे
॥ ४ ॥
ब्रह्मादिवन्द्ये जगदेकवन्द्ये
मुकुन्दवन्द्ये सुरनाथवन्द्ये
व्यासादिवन्द्ये सनकादिवन्द्ये
श्रीरङ्गवन्द्ये रमतां मनो
मे ॥ ५ ॥
ब्रह्माधिराजे गरुडाधिराजे
वैकुण्ठराजे सुरराजराजे ।
त्रैलोक्यराजेऽखिललोकराजे
श्रीरङ्गराजे रमतां मनो मे
॥ ६ ॥
अमोघमुद्रे परिपूर्णनिद्रे
श्रीयोगनिद्रे ससमुद्रनिद्रे
श्रितैकभद्रे जगदेकनिद्रे
श्रीरङ्गभद्रे रमतां मनो मे
॥ ७ ॥
स चित्रशायी भुजगेन्द्रशायी
नन्दाङ्कशायी कमलाङ्कशायी ।
क्षीराब्धिशायी वटपत्रशायी
श्रीरङ्गशायी रमतां मनो मे
॥ ८ ॥
इदं हि रङ्गं त्यजतामिहाङ्गम्
पुनर्नचाङ्कं यदि चाङ्गमेति
पाणौ रथाङ्गं चरणेम्बु गाङ्गम्
याने विहङ्गं शयने भुजङ्गम्
॥ ९ ॥
रङ्गनाथाष्टकं पुण्यम्
प्रातरुत्थाय यः पठेत् ।
सर्वान् कामानवाप्नोति
रङ्गिसायुज्यमाप्नुयात् ॥ १०

HYMNS TO VISHNU – GOVINDASHTAKAM

गोविन्दाष्टकम्
         
(श्री शंकराचार्यकृतम्)
सत्यं ज्ञानमनन्तं नित्यमनाकाशं
परमाकाशम्
गोष्ठप्राङ्गणरिङ्गणलोलमनायासं
परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारम्
क्ष्मामानाथमनाथं प्रणमत गोविन्दं
परमानन्दम् ॥ १ ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासम्
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्
लोकत्रयपुरमूलस्तंभं लोकालोकमनालोकम्
लोकेशं परमेशं प्रणमत गोविन्दं
परमानन्दम् ॥ २ ॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं
भवरोगघ्नम्
कैवल्यं नवनीताहारमनाहारं भुवनाहारम्
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम्
शैवं केवलशान्तं प्रणमत गोविन्दं
परमानन्दम् ॥ ३ ॥
गोपालं भूलीलाविग्रहगोपालं
कुलगोपालम्
गोपीखेलनगोवर्द्धनधृतिलीलालालितगोपालम्
गोभिर्निगदितगोविन्दस्फुटनामानं
बहुनामानम्
गोपीगोचरदूरं प्रणमत गोविन्दं
परमानन्दम् ॥ ४ ॥
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम्
शश्वत्गोखुरनिर्द्धूतोद्धत
धूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं
चिन्तितसद्भावम्
चिन्तामणि महिमानं प्रणमत गोविन्दं
परमानन्दम् ॥ ५ ॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम्
व्यादित्सन्तीरथ दिग्वस्त्रा
ताः दातुमुपाकर्षन्तम् ।
निर्द्धूतद्वयशोकविमोहं बुद्धं
बुद्धेरन्तस्थम्
सत्तामात्रशरीरं प्रणमत गोविन्दं
परमानन्दम् ॥ ६ ॥
कान्तं कारणकारणमादिमनादिं
कालघनाभासम्
कालिन्दीगतकालियशिरसि सुनृत्यन्तं
मुहुरत्यन्तम् ।
कालं कालकलातीतं  कलिताशेषं कलिदोषघ्नम्
कालत्रयगतिहेतुं प्रणमत गोविन्दं
परमानन्दम् ॥ ७ ॥
वृन्दावनभुवि वृन्दारकगणवृन्दाराधित
पादाब्जम्
कुन्दाभामलमन्दस्मेरसुधानन्दं
सुमहानन्दम् ।
वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वं
वन्द्याशेषगुणाब्धिं प्रणमत
गोविन्दं परमानन्दम् ॥ ८ ॥
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेतो
यो
गोविन्दाच्युत माधव विष्णो
गोकुलनायक कृष्णेति ।
गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो
गोविन्दं परमानन्दामृतमन्तःस्थं
स समभ्येति ॥ ९ ॥
          

HYMNS TO VISHNU – PANDURANGASHTAKAM

पाण्डुरङ्गाष्टकम्
     
(श्री शंकराचार्यकृतम्)
महायोगपीठे तटे भीमरथ्याः
वरं पुण्डरीकाय दातुं मुनीन्द्रैः
समागत्य तिष्ठन्तमानन्दकन्दम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ १ ॥
तटिद्वाससं नीलमेघावभासम्
रमामन्दिरं सुन्दरं चित्प्रकाशम्
वरं त्विष्टकायां समन्यस्तपादम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ २ ॥
प्रमाणं भवाब्धेरिदं मामकानाम्
नितंबः कराभ्यां धृतो येन तस्मात्
विधातुर्वसत्यै धृतो नाभिकोशः
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ३ ॥
स्फुरत् कौस्तुभालङ्कृतं कण्ठदेशे
श्रिया जुष्टकेयूरकं श्रीनिवासम्
शिवं शान्तमीड्यं वरं लोकपालम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ४ ॥
शरच्चन्द्रबिम्बाननं चारुहासम्
लसत्कुण्डलाक्रान्तगण्डस्थलाङ्गम्
जपारागबिम्बाधरं कञ्जनेत्रम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ५ ॥
किरीटोज्ज्वलत् सर्वदिक्प्रान्तभागम्
सुरैरर्चितं दिव्यरत्नैरनर्घैः
त्रिभङ्गाकृतिं बर्हमाल्यावतंसम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ६ ॥
विभुं वेणुनादं चरन्तं दुरन्तम्
स्वयं लीलया गोपवेषं दधानम्
गवां बृन्दकानन्ददं चारुहासम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ७ ॥
अजं रुक्मिणीप्राणसञ्जीवनम्
तम्
परं धाम कैवल्यमेकं तुरीयम्
प्रसन्नं प्रपन्नार्तिहं देवदेवम्
परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्
॥ ८ ॥
स्तवं पाण्डुरङ्गस्य वै पुण्यदं
ये
पठन्त्येकचित्तेन भक्त्या च
नित्यम् ।
भवांभोनिधिं तेऽपि तीर्त्वाऽन्तकाले

हरेरालयं शाश्वतं प्राप्नुवन्ति
॥ ९ ॥ 

           ***

         

HYMNS TO VISHNU – SRI HARISHARANASHTAKAM

      श्री हरिशरणाष्टकम्

     
(श्री ब्रह्मानन्दविरचितम्)
ध्येयं वदन्ति शिवमेवहि केचिदन्ये
शक्तिं गणेशमपरे तु दिवाकरं
वै ।
रूपैस्तु तैरपि विभासि यतस्त्वमेव
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ १ ॥
नो सोदरो न जनको जननी न जाया
नैवात्मजो न च कुलं विपुलं
बलं वा ।
संदृश्यते न किल कोऽपि सहायको
मे
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ २ ॥
नोपासिता मदमपास्य मया महान्तः
तीर्थानि चास्तिकधिया नहि सेवितानि
देवार्चनं च विधिवन्नकृतं कदापि
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ३ ॥
दुर्वासना मम सदा परिकर्षयन्ति
चित्तं शरीरमपि रोगगणा दहन्ति
सञ्जीवनं च परहस्तगतं सदैव
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ४ ॥
पूर्वं कृतानि दुरितानि मया
तु यानि
स्मृत्वाऽखिलानि हृदयं परिकंपते
मे ।
ख्याता च ते पतितपावनता तु
यस्मात्
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ५ ॥
दुःखं जरामरणजं विविधाश्च रोगाः
काकश्वसूकरजनिर्निरये च पातः
ते विस्मृतेर्फलमिदं विततं
हि लोके
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ६ ॥
नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि
ब्रूयात् तवाहमिति यस्तु किलैकवारम्
तं नेष्यसीश निजलोकमिति व्रतं
ते
तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ७ ॥
वेदेषु धर्मवचनेषु तथागमेषु
रमायणेऽपि च पुराणकदम्बके वा
सर्वत्र सर्व विधिना गदितस्त्वमेव

तस्मात् त्वमेव शरणं मम शङ्खपाणे
॥ ८ ॥

HYMNS TO VISHNU – SRI JAGANNATHAPANCHAKAM

   श्री
जगन्नाथपञ्चकम्

रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयम्
मुक्ताहारविलंबिहेममकुटं
रत्नोज्ज्वलत् कुण्डलम् ।
वर्षामेघसमाननीलवपुषं
ग्रैवेयहारान्वितम्
पार्श्वे
चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १ ॥
फुल्लेन्दीवरलोचनं
नवघनश्यामाभिरामाकृतिम्
विश्वेशं
कमलाविलासविलसत् पादारविन्दद्वयम् ।
दैत्यारिं
सकलेन्दुमण्डितमुखं चक्राब्जहस्तद्वयम्
वन्दे
श्री पुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ २ ॥
उद्यन्नीरदनीलसुन्दरतनुं
पूर्णेन्दुबिम्बाननम्
राजीवोत्पलपत्रनेत्रयुगलं
कारुण्यवारांनिधिम् ।
भक्तानां
सकलार्तिनाशनकरं चिन्ताब्धिचिन्तामणिम्
वन्दे
श्री पुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ३ ॥
नीलाद्रौ
शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थम्
सर्वालङ्कारयुक्तं
नवघनरुचिरं संयुतं चाग्रजेन ।
भद्राया
वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यम्
वेदानां
सारमीशं सुजनपरिवृतं ब्रह्मतातं स्मरामि ॥ ४ ॥
दोर्भ्यां
शोभितलाङ्गलं समुसलं कादम्बरीचञ्चलम्
रत्नाढ्यं
वरकुण्डलं भुजबलेनाक्रान्तभूमण्डलम् ।
वज्राभामलचारुगण्डयुगलं
नागेन्द्रचूडोज्ज्वलम्
संग्रामे
चपलं शशाङ्कधवलं श्रीकामपालं भजे ॥ ५ ॥
                  ***

HYMNS TO VISHNU – SRI HARINAMASHTAKAM

        श्री
हरिनामाष्टकम्
      (ब्रह्मानन्दविरचितम्)
श्रीकेशवाच्युत
मुकुन्द रथाङ्गपाणे
गोविन्द
माधव जनार्दन दानवारे ।
नारायणामरपते
त्रिजगन्निवास
जिह्वे
जपेति सततं मधुराक्षराणि ॥ १ ॥
श्रीदेवदेव
मधुसूदन शाङ्‌र्गपाणे
दामोदरार्णवनिकेतन
कैटभारे ।
विश्वंभाराभरणभूषित
भूमिपाल
जिह्वे
जपेति सततं मधुराक्षराणि  ॥ २
श्रीपद्मलोचन
गदाधर पद्मनाभ
पद्मेश
पद्मपद पावन पद्मपाणे ।
पीताम्बराम्बररुचे
रुचिरावतार
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ३ ॥
श्रीकान्त
कौस्तुभधरार्तिहराब्जपाणे
विष्णो
त्रिविक्रम महीधर धर्मसेतो ।
वैकुण्ठवास
वसुधाधिप वासुदेव
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ४ ॥
श्रीनारसिंह
नरकान्तक कान्तमूर्ते
लक्ष्मीपते
गरुडवाहन शेषशायिन् ।
केशीप्रणाशन
सुकेश किरीटमौले
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ५ ॥
श्रीवत्सलाञ्छन
सुरर्षभ शङ्खपाणे
कल्पान्तवारिधिविहार
हरे मुरारे ।
यज्ञेश
यज्ञमय यज्ञभुगादिदेव
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ६ ॥
श्रीराम
रावणरिपो रघुवंशकेतो
सीतापते
दशरथात्मज राजसिंह ।
सुग्रीवमित्र
मृगवेधन चापपाणे
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ७ ॥
श्रीकृष्ण
वृष्णिवर यादव राधिकेश
गोवर्द्धनोद्धरण
कंसविनाश शौरे ।
गोपाल
वेणुधर पाण्डुसुतैकबन्धो
जिह्वे
जपेति सततं मधुराक्षराणि ॥ ८ ॥
इत्यष्टकं
भगवतः सततं नरो यः
नामाङ्कितं
पठति नित्यमनन्यचेताः ।
विष्णोः
परं पदमुपैति पुनर्न जातु
मातुः
पयोधररसं पिबतीह सत्यम् ॥ ९ ॥
          
***

HYMNS TO VISHNU – SRI HARYASHTAKAM

      श्री हर्यष्टकम्

    (ब्रह्मानन्दविरचितम्)
जगज्जालपालं
कनत्कण्ठमालम्
शरच्चन्द्रफालं
महादैत्यकालम् ।
तमोनीलकायं
दुरावारमायम्
सुपद्मासहायं
भजेऽहं भजेऽहम् ॥ १ ॥
सदांभोधिवासं
गले पुष्पहासम्
जगत्सन्निवासं
शतादित्यभासम् ।
गदाचक्रहस्तं
लसत्पीतवस्त्रम्
हसच्चारुवक्त्रं
भजेऽहं भजेऽहम् ॥ २ ॥
रमाकण्ठहारं
श्रुतिव्रातसारम्
जलान्तर्विहारं
धराभारहारम् ।
चिदानन्दरूपं
मनोज्ञस्वरूपम्
धृतानेकरूपं
भजेऽहं भजेऽहम् ॥ ३ ॥
जराजन्महीनं
परानन्दपीनम्
समाधानलीनं
सदैवानवीनम् ।
जगज्जन्महेतुं
सुरानीककेतुम्
त्रिलोकैकसेतुं
भजेऽहं भजेऽहम् ॥ ४ ॥
कृताम्नायगानं
खगाधीशयानम्
विमुक्तेर्निदानं
हतारातिमानम् ।
स्वभक्तानुकूलं
जगद्वृक्षमूलम्
निरस्तार्तशूलं
भजेऽहं भजेऽहम् ॥ ५ ॥
समस्तामरेशं
द्विरेफाभकेशम्
जगद्बिम्बलेशं
हृदाकाशदेशम् ।
सदा दिव्यदेहं
विमुक्ताखिलेहम्
सुवैकुण्ठगेहं
भजेऽहं भजेऽहम् ॥ ६ ॥
सुरालीबलिष्ठं
त्रिलोकीवरिष्ठम्
गुरूणां
गरिष्ठं स्वरूपैकनिष्ठम् ।
सदा युद्धधीरं
महावीरधीरम्
भवांभोधितीरं
भजेऽहं भजेऽहम् ॥ ७ ॥
रमावामभागं
तलानग्ननागम्
कृताधीनयागं
गतारागरागम् ।
मुनीन्द्रैस्सुगीतं
सुरैस्संपरीतम्
गुणौघैरतीतं
भजेऽहं भजेऽहम् ॥ ८ ॥
इदं यस्तु
नित्यं समाधाय चित्तम्
पठेदष्टकं
कष्टहारं मुरारेः ।
स विष्णोर्विशोकं
ध्रुवं याति लोकम्
जराजन्मशोकं पुनर्विन्दते नो  ॥ ९ ॥

HYMNS TO VISHNU – SRIHARI STOTRAM (BY PRAHLADA)

    १२. श्री हरिस्तोत्रम्

          (प्रह्लादकृतं)
हरिर्हरतिपापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छताऽपि संस्पृष्टो दहत्येव हि पावकः ॥ १ ॥
स गङ्गा स गया सेतुः स काशी स च पुष्करम् ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥ २ ॥
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च ।
यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ३ ॥
प्रिथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम् ॥ ४ ॥
गवां कोटि सहस्राणि हेमकन्यासहस्रकम् ।
दत्तं स्यात् तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ५ ॥
ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ।
अधीतस्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ६ ॥
अश्वमेधैर्महायज्ञैः नरमेधैस्तथैव च ।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम् ॥ ७ ॥
प्राणप्रयाणपाथेयं संसारव्याधिनाशनम् ।
दुःखात्यन्तपरित्राणं हरिरित्यक्षरद्वयम् ॥ ८ ॥
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ॥ ९ ॥
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
आयुष्यं दीर्घमारोग्यं यशोवृद्धिं स गच्छति ॥ १० ॥
प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम ।
यः पठेत् स नरो याति तद्विष्णोः परमं पदम् ॥ ११ ॥
                  ***
    

HYMNS TO VISHNU – DUKHAMOCHAKA SRIMADACHYUTASHTAKAM

 ११.  दुःखमोचकश्रीमदच्युताष्टकम्

         (श्री शंकराचर्यकृतम्)
अच्युताच्युत हरे परमात्मन्
रामकृष्ण पुरुषोत्तम विष्णो ।
वासुदेव भगवन्ननिरुद्ध
श्रीपते शमय दुःखमशेषम् ॥ १ ॥
विश्वमङ्गल विभो जगदीश
नन्दनन्दन नृसिंह नरेन्द्र ।
मुक्तिदायक मुकुन्द मुरारे
श्रीपते शमय दुःखमशेषम् ॥ २ ॥
रामचन्द्र रघुनायक देव
दीननाथ दुरितक्ष्ययकारिन् ।
यादवेन्द्र यदुभूषण यज्ञ
श्रीपते शमय दुःखमशेषम् ॥ ३ ॥
देवकीतनय दुःखदवाग्ने
राधिकारमण रम्य सुमूर्ते ।
दुःखमोचक दयार्णव नाथ
श्रीपते शमय दुःखमशेषम् ॥ ४ ॥
गोपिकावदनचन्द्रचकोर
नित्य निर्गुण निरन्जन जिष्णो ।
पूर्णरूप जयशंकरशर्व
श्रीपते शमय दुःखमशेषम् ॥ ५ ॥
गोकुलेश गिरिधारणधीर
यामुनाच्छतटखेलन वीर ।
नारदादि मुनिवन्दितपाद
श्रीपते शमय दुःखमशेषम् ॥ ६ ॥
द्वारकाधिप दुरन्तगुणाब्धे
प्राणनाथ परिपूर्ण भवारे ।
ज्ञानगम्य गुणसागर ब्रह्मन्            
श्रीपते शमय दुःखमशेषम् ॥ ७ ॥
दुष्टनिर्दलन देव दयालो
पद्मनाभ धरणीधर धन्विन् ।
रावणान्तक रमेश मुरारे
श्रीपते शमय दुःखमशेषम् ॥ ८ ॥
अच्युताष्टकमिदं रमणीयम्
निर्मितं भवभयं विनिहन्तुम् ।
यः पठेत् विषयवृत्तिनिवृत्तिम्
जन्मदुःखमखिलं स जहाति ॥ ९ ॥
         ***

HYMNS TO VISHNU – ACHYUTASHTAKAM

    अच्युताष्टकम्

    (श्री शंकराचार्यकृतम्)
अच्युतं
केशवं रामनारायणम्
कृष्णदामोदरं
वासुदेवं विभुम् ।
श्रीधरं
माधवं गोपिकावल्लभम्
जानकीनायकं
रामचन्द्रं भजे ॥ १ ॥
अच्युतं
केशवं सत्यभामाधवम्
माधवं
श्रीधरं राधिकाऽराधितम् ।
इन्दिरामन्दिरं
चेतसा सुन्दरम्
देवकीनन्दनं
नन्दजं सन्दधे ॥ २ ॥
विष्णवे
जिष्णवे शङ्खिने चक्रिणे
रुक्मिणीरागिणे
जानकीजानय ।
वल्लवीवल्लभायार्चितायात्मने
कंसविध्वंसिने
वंशिने ते नमः ॥ ३ ॥
कृष्ण
गोविन्द हे राम नारायण
श्रीपते
वासुदेवाजित श्रीनिधे ।
अच्युतानन्द
हे माधवाधोक्षज
द्वारकानायक
द्रौपदीरक्षक ॥ ४ ॥
राक्षसक्षोभितः
सीतयाशोभितो
दण्डकारण्यभूपुण्यताकारणः
लक्ष्मणेनान्वितो
वानरैस्सेवितो ऽ-
गस्त्यसंपूजितो
राघवः पातु माम् ॥ ५ ॥
धेनुकारिष्टकोऽनिष्टकृत्
द्वेषिणाम्
केशिहा
कंसहृद्वंशिकावादकः ।
पूतनाशोषकः
सूरजाखेलनो
बालगोपालकः
पातु मां सर्वदा ॥ ६ ॥
विद्युदुद्योतवत्
प्रस्फुरद्वाससम्
प्रावृडंभोदवत्
प्रोल्लसद्विग्रहम् ।
वन्ययामालया
शोभितोरस्थलम्
लोहिताङ्घ्रिद्वयं
वारिजाक्षं भजे ॥ ७ ॥
कुञ्चितैः
कुन्तलैः भ्राजमानाननम्
रत्नमौलिं
लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं
कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं
श्यामलं तं भजे  ॥ ८
अच्युतस्याष्टकं
यः पठेदिष्टदम्
प्रेमतः
प्रत्यहं पूरुषस्सस्पृहम् ।
वृत्ततस्सुन्दरं
कर्तृविश्वंभरम्
तस्य
वश्यो हरिर्जायते सत्वरम्  ॥ ९